________________ 406 व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ 15 कारिकाव्याख्यायां पादनं, वाक्यार्थस्यापूर्वत्वात् / नापि स्वार्थसङ्गतिबलेन, तस्य स्वार्थ एवोपक्षयात् / नापि सैव सङ्गतिरुभयप्रतिपादिका, प्रतीतिक्रमानुपपत्तेः। योगपद्याभ्युपगमे तु योग्यत्वादिप्रतिसन्धानशून्यस्यापि पदार्थप्रत्ययवद् वाक्यार्थप्रत्ययप्रसङ्गात् / नापि सैव सङ्गतिः स्वार्थे निरपेक्षा, वाक्याथै तु पदार्थप्रतिपादनाऽवान्तरव्यापारेति युक्तम् / तस्याः स्वयमकरणत्वात् / सङ्गतानि पदानि हि करणं, न तु सङ्गतिः। तथापि तत्प्रतिपादनानुगुणसङ्गतिशालीनि पदानीति चेत् / न तावद्वाक्यार्थमतिपा. दनानुगुणता सङ्गतेस्तदाश्रयत्वेन, सामान्यमानगोवरत्वात् तन्मोत्रगोचरस्वाद् वा। नापि तदनुगुणव्यापारवत्त्वेन, अकरणवादित्युक्तम् / तदनुगुणकरणव्यापा. रोत्थापकत्वात्तदनुगुणत्वे न नो विवादः / अन्वित एव शक्तिरिति चेत् / उक्तमत्र वाक्यार्थस्यापूर्वत्वात् प्रतीतिक्रमानुपपत्तेश्चेति / स्मृतक्रियान्विते कारके स्मृतकारकान्वितायाञ्च क्रियायां सङ्गतिरतो प्रकाशः। प्रतीतिप्रयोजनकत्वस्याभिहितान्वयपक्षेऽप्युपगमादित्यर्थः। संगतिः-शक्तिप्रहः / सा कि प्रत्याय्ये वाक्याथै पदार्थमात्रे वा ? / आये, धाक्यार्थस्येति / उपस्थिते हि शक्तिग्रहः, न च शब्दानुभवात् पूर्व वाक्यार्थस्योपस्थितिरिति कुत्र शक्तिर्गधेतेत्यर्थः / अन्त्यमाशङ्कय निराकरोति नापीति / पदार्थशक्तथा तन्मात्रमुपस्थापयेन्न स्वन्वितमित्यर्थः / न च स्वार्थसङ्गतिरेव स्वार्थतदन्वितयोः प्रति. पादिकत्याह नापीति / अपेक्षणीयाभावात् पदार्थस्मृतिकाल एवान्वितमपि प्रतिपादयेदित्यर्थः / न चेष्टापत्तिः, पदार्थस्मृत्यनन्तरं तेषां योग्यतादिज्ञानापेक्षयाऽन्वितानुभवोत्पादात् , तदनपेक्षायाश्चातिप्रसङ्गादिरगाह योगपद्येति / ननु पदार्थे सातिरन्वितज्ञाने कर्तव्ये पदार्थस्मृतिमपेक्षत इति क्रमः स्यादित्याह नापीति / तस्या इति / करणानामवान्तरव्यापारयोगः। न च सङ्गतिः करणं, किन्तु पदानि, तेषामन्वयायनुविधानादित्यर्थः / तथापोति / करणमित्यनुषज्ज्यते। तया च सातेः करणकोटावन्तर्भाव इति तस्या अवान्तरव्यापारयोग इति भावः / समतेर्वाक्यार्थज्ञानानुकूलत्वं साक्षाद्वाक्यार्थधोजनकत्वं, वाक्यार्थज्ञानानुकूलव्यापारवत्त्वं, तदनुकूलपदार्थस्मृतिहेतुत्वं वा ? तत्र नाय इत्याह न तावदिति। अस्य पदस्येदं वाच्यमिति पदार्याश्रयत्वेन सातेर्ग्रहान वाक्यार्थी श्रयत्वमित्यर्थः / न चान्याश्रया सातिरन्यद् बोधयत्यतिप्रसङ्गादिति भावः / सामान्यतन्मात्रेति मतमेदेन द्रष्टव्यम् / द्वितीयमाशश्य निराकरोति नापोति / विशिष्टस्य करणत्वेऽपि विशेषणमात्रस्यातत्त्वादिति भावः / अन्त्ये तु विवादपर्यवसानमित्याह तदनुगुणेति / ननु वृद्धव्यवहारादन्वित एव पदानां शक्तिरित्याशश्योकयुक्त्या निराकरोति अन्धित एवेति / नम्वन्वयविशेषे न शक्तिर्येनोक्तदोषः स्यात् , किन्तु क्रियाकारकयोरन्योन्याविनाभावादन्वयसामान्यम उपस्थितमिति तत्रैव शक्तिग्रह इत्याह स्मृतेति / कियाकारकान्वयविशेषस्य च वाक्यार्थत्वान्न तदपूर्वत्वभन्न इत्यर्थः / नन्वेवं क्रियाकारकपदयोः पर्यायताऽऽपत्तिः, ताभ्यां कारकक्रिययोरप्युपस्था. प्रकाशिका। विशिष्टस्येति / विशिष्टस्यापीत्यर्थः। तथा चाभ्युपगमवादोऽयमिति ध्येयम् / मकरन्दः / विशिष्टस्येति / विशिष्टस्यापीत्यर्थः। तथा चाभ्युपगमवादोऽयमिति भावः। टिप्पणी। धानद्वारेति। अन्वितस्वं यिशेषणं तेन तत्र शक्तिस्वीकारेऽपि न क्षतिः / पदार्थाश्रयत्वेन