________________ 404 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 15 कारिकाव्याख्यायां तदुच्यते ब्यस्तपुंदूषणाशङ्कः स्मारितत्वात् पदैरमी // अन्विता इति निर्णीते वेदस्यापि न तत् कुतः // 15 // .यदा ह्यपौरुषेयत्वनिश्चयात् प्राग वेदो न किञ्चिदभिधत्ते इति पक्षा, तदाऽऽतोक्तत्वनिश्चयोत्तरकालं लोकवद् वेदेऽप्यपौरुषेयत्वनिश्चयात् पश्चादनुमानावतारः। इयांस्तु विशेषो-यदत्र पदार्थानेव पक्षीकृत्य निरस्तपुंदोषाशङ्कराकासादिमद्भिः पदैः स्मारितत्वादाप्तोक्तपदकदम्बकस्मारितपदार्थवत् संसर्ग एवाहत्य साध्यो बुद्धिव्यवहितस्त्वितरत्रेति फलतो न कश्चिद्विशेष-इति / तथा चान्विताभिधानेऽपि अघन्यत्वाद्वेदस्यानुवादकत्वप्रसङ्गः। न चैवं सति तत्र प्रमाणमस्ति / विशिष्टप्रतिपत्त्यन्यथानुपपत्त्या हि शब्दस्य तत्र शक्तिः परिकल्पनीया, सा चानुमानेनैवोपपन्नेति वृथा प्रयासः / तस्माल्लोके शब्दस्यानुवादकतेति विपरीतकल्पनेयमायुष्मताम् // बोधनी। रकालमेवाभिधायकस्वे दोषमाहेति / तदुच्यते इति / यथानुवादकत्वं वेदस्य प्रसज्यते तथोच्यत इत्यर्थः / व्यस्त इति / अमी पदार्या मिथः संसर्गवन्तः निरस्तसमस्तदोषशः पदैः स्मारितत्वात् इत्यनुमानेन निर्णीते संसर्गे पश्चात्प्रवर्तमानस्य तदनुवादकत्वं कुतो. न स्यादिति // 15 // प्रकाशः। भावः / बुद्धोति वक्तृज्ञानावच्छेदकतयेत्यर्थः / इतरत्र-लौकिकवाक्ये / किञ्चैवं लोकवेदसाधारणादनुमानादेव वाक्यार्थप्रमोत्पत्तौ वेदस्य तत्र सामर्थ्यानवधारणादन्विते शकावपि न मानमित्याह न चैवमिति।तत्रेति।अन्विते शक्तावित्यर्थः / सा-विशिष्टप्रतीतिः / विपरीतेति / लोके सम्भृ. तसामग्रीकत्येन शब्दस्यैव पूर्व बोधकत्वाद्याप्तिस्मृतिविलम्बेन लिङ्गमेवाऽनुवादकमित्यर्थः / यद्वा अन्विते पदानां शक्तिोंके चानुवादकः शब्द इति विरुद्धकल्पनेत्यर्थः // नवीनास्तु-अप्रमाणशब्दव्यावृत्तं प्रमाणशब्दानुगतं प्रामाण्यप्रयोजक किञ्चित् कार्यवैलक्षण्यान्यथानुपपत्त्या कल्प्यम् / तच्च ज्ञातं तत्प्रयोजकं, झायमानकरणे ज्ञानोपयोग्यप्रमाणवैलक्षण्यत्वात् , व्याप्त्यादिवत् / न चाप्तोक्तत्वदोषाभावौ तथा, भ्रान्तप्रतारकवाक्यजे ज्ञाने तदभावात् / किन्तु यथार्थतात्पर्यकत्वम् / तच्च यथार्थवाक्यधीप्रयोजनकत्वं लोकवेदसाधारणं, तदभावाच्चाप्रमा, स एव दोषः। तत एव भ्रान्तप्रतारकवाक्यं संवादिशुकादिवाक्यञ्च प्रमाणम् / तच्च ज्ञातमुपयोगि, शायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्यत्वादित्युक्तम् / अन्यथा, अन्यपरस्यान्वयबोधो न स्यात् / न स्याच्च यष्टीः प्रवेशयेत्यत्र लक्षणा नानार्थ विनिगमना च, तयोस्तात्पर्यग्रहमूलकत्वात् / न च तात्पर्यप्राहकप्रकरणादेः प्राथम्यादावश्यकत्वाच्च शब्दसहकारित्वमिति वाच्यम् / तेषामननुगमेनाहेतु प्रकाशिका। प्रयोक्तुरभिधानेन सर्वसामजस्याद्वेति / नवोना इति / प्राभाकरनवीना इत्यर्थः / सामान्यतः सिद्धस्य शातोपयोगित्वं साधयित्वा विशेषतः सिद्धस्य तत्साधयति तच्च बातमुपयोगीति / तयोरिति / लक्षणाविनिगमनयोरित्यर्थः। मकरन्दः। वत्पुरुषाप्रणीतसतात्पर्यकपदस्मारितत्वस्यायहेत्वर्थत्वात् / तच्चेति / न च पौनरुक्तथं, विशेपतः साधनात् / तयोरिति / लक्षणविनिगमनयोरित्यर्थः / टिप्पणी। तेषामननुगमेनाहेतुत्वादिति / न च प्रकरणादेस्तात्पर्यप्रहं प्रति कारणत्वेऽप्यननुगमाद