________________ - तृतीयस्तवके ]. शब्दस्य बाधकत्वखण्डनम्। 403 यत्वाभिमानिनो गौडमीमांसकस्यार्थनिश्चयः। न चासौ भ्रान्तिा, पौरुषेयत्वनिश्चयदशायामपि तथा निश्चयादिति // 14 // स्यादेतत् , नाप्तोक्तत्वमर्थप्रवीतेरङ्गमिति ध्रुमा, किन्त्वनान्तोक्तत्वशङ्कानिरासा, स च क्वचिदपौरुषेयत्वनिश्चयात् , क्वचिदाप्तोक्तत्वावधारणादिति चेत् / तत् किमपौरुषयत्वस्याप्रतीतो सन्देहे वा वेदवाक्याद्विदितपदार्थसङ्गतेरर्थप्रत्यय एव न भवेत् , भवन्नपि वा न श्रद्धेयः ? / प्रथमे सत्यादय एव प्रमाणम्। न चासंसर्गाप्रहे तदानीं संसर्गव्यवहारो, बाधकस्यात्यन्तमभावात्। तथापि तत्कल्पनायामन्ययोच्छेदप्रसङ्गात्। द्वितीये श्रद्धा प्रत्यानिमित्तान्तरान्निवय॑तीति वेदे यदि, लोकेऽपि तथा स्यादविशेषात् // अन्यथा वेदस्याप्यनुवादकताप्रसङ्गः। बोधनी। पौरुषेयत्वाग्रहणकृतोऽयं निश्चयो भ्रान्तिरित्यत आह न चासौ इति / यदि हि तथा स्यात्पौरुषेयवाहे सति बाध्येत तदप्रहकृतस्य भ्रमस्य तद्ग्रहणे निवर्तनीयत्वात् , न बाध्यते चायं निश्चय इति // 14 // . ___ स्यादेतत् इति / शानिराकरणे अङ्गमित्यनुषः, तत् किमिति न श्रद्वेयः प्रमाणत्वेनेति शेषः / सत्यादय इत्यर्थः / प्रत्ययस्याभावः शपयादिभाव्यः, सद्भाव एव प्रतिपत्तणां संसर्गव्यवहारदर्शनादवगम्यत इति भावः / व्यवहारस्यान्ययासिद्धिमाशङ्कयाह न च इति / यदि बाधकामा. वेऽपि असंसर्गाप्राहक इति कल्प्येत तर्हि सर्वत्रापि तथात्वापत्तेः संसर्गप्रत्यय एवोच्छियेत, तथा च शब्दप्रामाण्यमेव दत्तजलाज्वलि स्यादित्याशयवानाह तथापि इति / भवन्नेवार्थप्रत्ययः केवलमश्रद्धेय इति पक्षे कथमियमश्रद्धा वेदे निवर्तनीयेति पृच्छामः / यदि ब्रूयात् यथा प्रत्यक्षे बाधदर्शनादश्रद्धा निवर्तते तथैवापौरुषेयत्वनिश्चयादिति, तर्हि लोकवाक्येऽपि पूर्वमेवार्थप्रत्ययो जायते तदश्रद्धा चाप्तो. कत्वनिश्चयानिवर्तत इत्यभ्युपगच्छेत्याह द्वितीये तु इति / लोके पूर्वमर्थप्रत्ययानङ्गीकारे बाधकमाह अन्यथा इति / यद्वा वेदेऽप्यपौरुषेयस्वनिधयोत्त. प्रकाशः। वाधकस्येति // न चाप्तोक्तत्वकारणबाध एव बाधक इत्ति वाच्यम् / व्यभिचारात् तद्धेतुता. यामेव बाधात् / नापि लौकिकत्वेन ज्ञाते तद्धतुः। मानाभावात्, प्राप्तोत्तत्वस्य च ज्ञातुमशक्यत्वात् / वाक्यार्थस्यापूर्वत्वादिति भावः। यथोत्पन्न प्रत्यक्षज्ञानप्रामाण्यग्राहकादप्रामाण्यशङ्कात्मकाऽश्रद्धापगमः, तथा वेदवाक्यजेऽपीत्याह द्वितीये विति // यदि चापौरुषेयत्वनिश्चये सत्येव वेदार्थधीः, तदैते पदार्या मिथः संसृष्टाः दोषवत्पुरुषाप्रणी. ताकाक्षादिमत्पदस्मारितत्वादिति वेदेऽन्वयधोरस्त्विति वेदोऽप्यनुवादकः स्यादित्याहअन्यथेति // तथा च शब्दः प्रमाणमेव न स्यात् , सर्वत्रानुमानादेव वाक्यार्थप्रमोत्पत्तरिति प्रकाशिका। दोषवदिति / अत्र च दोषवत्पुरुषाप्रणीतपदस्मारितत्वमात्रे तात्पर्यमन्यथा वयया॑त् / मच विसंवादिशुकोक्तवाक्ये व्यभिचारः / तादृशसतात्पर्यकपदस्मारितत्वस्याहेतुत्वात् / न च सतात्पर्य कत्वं मन्मते वेदस्यासिद्धमिति वाच्यम् / स्वमतेनैव हेतुत्वात् , दोषवत्सदेन संवादिवाक्य. - मकरन्दः / दोषवदिति / अत्र हेतुथे तात्पर्य्यम् / न चायहेतोविसंवादिशुकवाक्ये व्यभिचारः, दोष