________________ 402 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 14 कारिकाव्याख्यायां न ह्यपेक्षणीयान्तरमस्ति, लिङ्गे तु परिपूर्णेऽन्यवगते व्याप्तिस्मृतिरपेक्षणीयाऽस्तीति विलम्बेन किं निर्णयम् ? / अन्वयस्य प्रागेव प्रतीतेः॥ लोके वक्तुरातत्वनिश्चयोऽपेक्षणीय इति चेन्न / तद्रहितस्यापि स्वार्थप्रत्यायने शब्दस्य शक्तरवधारणात् / अन्यथा वेदेऽप्यर्थप्रत्ययो न स्यात् , तदभावात् / न च लोके अन्यान्येव पदानि, येन शक्तिवैचित्र्यं स्यात्। अनातोक्तौ व्यभिचारदर्शनात् तुल्याऽपि सामग्री सन्देहेन शिथिलायते इति चेन्न / चक्षुरादौ व्यभिचारदर्शनेन शङ्कायामपि सत्यां ज्ञानसामग्रीतस्तदुत्पत्तिदर्शनात् // __शायमानस्यायं विधिर्यत्सन्देहे सति निश्चायकं यथा लिङ्गं, चक्षुरादि तु सत्तयेति चेन्न। वाक्यस्य निश्चितत्वात , फलप्रामाण्यसन्देहम्य च फलोत्तरकालीनत्वात् / प्राप्तोक्तत्वस्य चार्थप्रत्ययं प्रत्यनङ्गत्वात् / लोकेऽपि चाप्तत्वानिश्चयेऽपि वाक्यार्थप्रतीतेः। भवति हि वेदानुकारेण पठ्यमानेषु मन्वादिवाक्येषु अपौरुषे बोधनी। व्युत्पत्तिकाले तस्यातन्त्रीकृतत्वादित्याह लोके तु इति / आप्तेरपि शक्तयवधारणोपयोगित्वे तद्विरहिणि वेदे वाक्यार्थप्रत्ययो न स्यादित्याह अन्यथा इति / न च इति / लौकिकवेदाधिकरणसिद्धा. न्तव्याकोपप्रसन्मादिति / ननु तुस्यापि सामग्री अनाप्तवाक्येषु इष्टव्यभिचारपौरुषेयत्वसाधर्येण सर्व. त्रापि व्यभिचारशहायां नार्थप्रतिपादनसमर्था भवतीत्याह अनातोक्तौ इति / न इति / न हि दृष्टव्यभिचार चक्षानं न जनयतीति / ननु ज्ञायमानतया ज्ञापकत्वाद्वाक्येन लिङ्गस्य रीतिरनुसतव्या न तु चक्षुरादेरित्याह शायमानस्य इति / किमत्र वाक्यस्य स्वरूपसंदेहो वाक्यार्थशानजननं प्रतिबघ्नाति, किं वा वाक्यफलस्य ज्ञानस्य विसंवादात् प्रामाण्यसंदेहः / तत्र वाक्यं तावन्निचितमेव, ज्ञानप्रामाण्यसंदेहस्तु कथं ज्ञानोत्पत्तेः पश्चा. प्रवन् पूर्वभाविनी तदुत्पत्ति प्रतिबनीयादित्याह न वाक्यस्य इति / नन्वाप्तोक्तत्वसंदेह एव वाक्यस्य प्रत्यायकत्वं प्रतिबन्नातीत्यत आह प्राप्तोतत्वस्य इति / वेदे तदभावेऽप्यर्थप्रत्यायकत्वदर्शनाद. नात्वमिति मा भूवैदे, लौकिके तु तदर्श भविष्यतीत्यत्राह लोकेऽपि इति / वेदानुकारः स्वर विशेषस्तेन सादृश्याद्वेदत्वाभिमानालम्बनमुक्तं, मन्वादिवाक्येष्वत्यर्थसादृश्यात् / गौडो मीमांसकः पश्चिकाकारः। गौडो हि वेदाध्ययनाभावादवेदत्वं न जानातीति गौडमीमांसकस्येत्युक्तमिति / ननु प्रकाशः। भावः / प्रत्युतानुपाने व्याप्तिस्मृत्यादिविलम्बादनुमितिबिलम्बेन तस्यैवानुवादकत्वमित्याह व्याप्तिस्मृतीति / लोके इति / स च न वक्तृज्ञानानुमानं विनेति भावः / तं विनाऽपि वेदादन्वयवोधाव्यभिचारात् स न तत्र हेतुरित्याह तद्रहितस्याऽपोति / य एव लौकिकास्त एव वैदिकास्त एवामीषामा इत्याह न चेति / यथा स्थाणुपुरुषसंशये चक्षुर्न निधायक, तथाऽऽप्तोक्तत्वानाप्तो. क्तत्वसन्देहे तुल्याऽपि सामग्री न निवायिकेत्याह अनातोक्ताविति / यथा समानविषयकसन्दे हस्यैव प्रतिबन्धकत्वान्निविषयकोऽप्रमाजनकत्वसंशयो न चाक्षुषनिश्चयप्रतिबन्धकः, तथाऽऽप्तोक्तस्वसन्देहोऽपि न शाब्दनिश्चयप्रतिबन्धक इत्याह चक्षुरादाविति / सन्देहः किं वाक्यस्वरूपे, तबनितज्ञानप्रामाण्ये वा, आप्तोक्तत्वे वा ? / आये वाक्यस्येति / द्वितीये फलेति / अन्त्ये प्राप्तोक्तत्वस्येति / न चाप्रमाजनकत्वे सन्देहः, तत्प्रतिबन्धक वे मानाभावादिति भावः / ननु लोके आप्तोक्तस्वसन्देहे वाक्यार्थज्ञानानुदयात् तन्निश्चयस्तद्धेतुः, तथा च वाक्यार्थगोचरपदार्थज्ञानक. न्यत्वप्राहकात् तदुपजीविनोऽनुमानाद्वाक्यार्थधोरित्यत आह लोकेऽपीति // 14 //