________________ तृतीयस्तषके ] शब्दस्य बाधकत्वखण्डनम् / प्राभाकरास्तु-लोकवेदसाधारणव्युत्पत्तिबलेनाऽन्विताभिधानं प्रसाध्य वेदस्यापौरुषेयतया वक्तज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमा स्थिषत। लोके त्वनुमानत एव वक्तृज्ञानोपसर्जनतया संसर्गस्य सिद्धरन्धिताभिधानबलायातेऽपि प्रतिपादकत्वेऽनुवादकतामात्रं वाक्यस्येति-निर्णीतवन्तः। तदतिस्थवीयः - निर्णीतशक्तेर्वाक्याद्धि प्रागेवार्थस्य निर्णये // व्याप्तिस्मृतिविलम्बन लिङ्गस्यैवानुवादिता // 14 // यावती हि वेदे सामग्री, तावत्येव लोकेऽपि भवन्ती कथमिव नार्थ गमयेत् , बोधनी। संप्रति ये वैदिकस्य पृथक्प्रमागत्वमङ्गीकृत्य लौकिकस्यानुमानान्तर्भावमातिष्ठन्ते तेषां मतमुपन्यस्य निरस्यति प्राभाकरास्तु इति / स्थूलतामेवाह निर्णोतशक्तेरिति / लोकवेदसाधारणव्युत्पत्तिबलेन वाक्यार्थप्रतिपादने निर्णीतशक्तेर्वाक्यादेव वेदवल्लोकेऽपि वक्तृज्ञानानुमानात् प्रागेव वाक्यार्थनिर्णये जाते सति व्याप्तिस्मृतिसव्यपेक्षत्वेन विलम्बितप्रवृत्तेः वक्तृज्ञानस्यैवानुवादत्वं भवेन्न वाक्यस्येति ब्याचष्टे यावती इति / आकाक्षादिमत्प्रतियोग्यन्वितस्वार्थाभिधानशक्तिप्रतिसन्धानमेव हि वेदवाक्यार्थप्रतिपादनसामग्री, सा च लौकिकानामप्यविशिष्टेति कथमिव तानि न वाक्याथ प्रतिपाद: येयुः / वक्तृज्ञानलिने तुं वाक्ये सति स्वार्थविषयज्ञानानुमानायार्थाभिधानशक्तिं तावत् प्रतिसंधाय वाक्यस्य वक्तृज्ञानेन व्याप्तिरनुसंधातव्या / ततश्च विलम्बकारिणो लिङ्गस्य निर्णेतव्यं नावशिष्यते / यथाहुः 'अश्वैरुपहतं को हि गर्दभैः प्रार्थितुं क्षमः' इति / लोके वक्तुराप्तिनिश्चयः सामप्रीति वाच्य प्रकाशः। अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावो योग्यता / प्रमेयमभिधेयमित्यत्र प्रमेयनि छात्यन्ताभावप्रतियोगिप्रमाविशेष्यत्वं गोत्वे प्रसिद्धम् , अभिधेयत्वसंसर्गे च तदभावः। आसत्तिवाव्यवधानेनाऽन्वयप्रतियोगिस्मृतिरिति सक्षेपः // 13 // प्रसङ्गसमतेराह-प्राभाकरास्त्विति / लोकेति / य एव लौकिकास्त एव वैदिका इति भावः / व्युत्पत्तिबलेनेति / व्यवहारेणेतरान्वितपदार्थज्ञानस्पैव स्वकारणस्यानुमितेरित्यर्थः / __ वेदे क्लृप्तसामग्रीतो लोकेऽपि संसर्गानुभवादन्यथा त्वनुवादकताऽपि न स्यादित्याह निर्णीतेति। आकाङ्क्षादिमत्तया ज्ञानात् प्राग् लिङ्गज्ञानाभावात् तद्वत्तया च इाने वेदतुस्यतया:न्वयबोधे विलम्बाभावादन्यथा वैदिकवाक्यादपि स न स्यात् , तस्य लौकिकोपजीवकत्वादिति प्रकाशिका। लौकिकोपजीवकत्वादिति / लोकस्थल एव व्यवहारैण शक्तिप्रहादित्यर्थः। लौकिकतु स्यत्वात् य एव लौकिका इति न्यायादित्यर्थ इत्यन्ये // 14 // मकरन्दः। उपजीवकत्वात् तुल्यत्वात् / य एव लौकिकास्त एव वैदिका इत्याशयात् / लोके व्युत्पत्तिप्रहो व्यवहारादिति तस्योपजीव्यत्वमित्यप्याहुः // 14 // टिप्पणी। परायोग्यत्वात् / प्रतियोगित्वप्रमाविशेष्यत्वाभावो योग्यतेति / न च योग्यताबानकारण स्वमुक्वा पदार्थ तत्र तद्वत्वरूपाया योग्यताया एवास्तु ज्ञानधारणत्वं लाघवादिति वाच्यम् / अपूर्वबाक्यार्थस्थले तदसम्भवात् / नचानिश्चयेऽपि संशय एवास्तु कारणं, सर्वत्र तत्सामग्रीसम्पत्तौ मानाभावात्तथात्वे च स्यादेव तस्याहेतुस्वमुच्यते च तत् कैश्चिदिति // 13-14 // 1 न्या०कु०