________________ 400 व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [ 12 कारिकाव्याख्यायां प्रकाशः। स्वमाकाक्षा / घटमानयतीत्यत्र हि घटमित्युक्ते किमानयति पश्यति वा, आनयतीत्युक्ते कि घटमन्यद्वेति जिज्ञासा भवति / गौरव इत्यत्र नामेदेनान्वयोऽयोग्यत्वात् / राज्ञ इति पुत्रेण जनितान्वय बोधत्वान्न पुरुषमाकाङ्क्षति। मैवम् / नामविभक्तिधात्वाख्यातार्थानां घटकर्मत्वानयनकृतीनां स्वरूपेणोपस्थितिर्नान्वयप्रकारकजिज्ञातानुकूलेति तत्राकाङ्क्षाविरहापत्तेः। घटः कर्मत्वमानयनं कृतिरित्यत्र घटमानयतीत्यत्रैवान्वयबोधापत्तेश्च / अत्राहुः-अभिधानापर्यवसानमाकाक्षा / येन विना यस्य न स्वार्थान्वयानुभावकत्वं, तस्य तदपर्यवसानम् / नामविभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना न स्वार्थान्वयानुभावकत्वम् / घटः कर्मत्वमानयनं कृतिरित्यत्राभेदेन नान्वयज्ञानमयोग्यत्वात् / योग्यता च बाधकमाना. भावः / अन्यत्र यद् बाधकं तदभावस्यायोग्येऽपि सत्त्वात् / प्रकृतसंसर्गे च न तदभावः, सिद्यसिद्विव्याघातात् / न च प्रकृतसंसर्गेऽन्यत्र सिद्धवाधकमानाभावः, प्रकृतसंसर्गस्य प्रागप्रतीतेः / स्वबाधकप्रमाणविरहस्यायोग्येऽपि सत्त्वात् / सकलतदभावस्य च ज्ञातुमशक्यत्वात् / न च स्वरूपसन्नेवायं हेतुः / योग्यताक्रमादन्वयबोधानुपपत्तेः / नापि सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्याव्या. वर्तकत्वात् / पदार्थतावच्छेदकरूपेण च तस्य वाक्यार्थापूर्वतया निरासात् / नापि समभित्र्याहत. पदार्थसंसर्गाभावव्यायधर्मशून्यत्वं, प्रमेयमभिधेयमित्यादौ संसर्गाभावाप्रसिद्धया तदनिरूपणात् / नापि समभिव्याहतपदार्थसंसर्गव्याप्यधर्मवत्वं, वाक्यार्थस्यानुमेयतापत्तेः / कि वितरपदार्थसंसर्गे टिप्पणी। वाक्यघटके यत्साकाङ्क्षत्वं रक्षणीयं तत्पदार्थान्वययोग्यतत्पदोपस्थाप्यं ज्ञाप्यम् , ज्ञाप्यतदितरयोरवयस्य यः प्रकारो विशेषस्तस्य जिज्ञासेत्यर्थः / राज्ञ'इति पुत्रेण जनितेति / अयमेतीत्यादौ राजपदार्थस्य पुत्रपदार्थेनान्वयबोधे जाते पश्चात् पुरुषपदार्थेनान्वयबोधवारणाय विशेष्यम् स्वरूपेणा। न्वयप्रकारकेति / परस्परासंसृष्टतया च ज्ञानमपूर्ववाक्यार्थस्थलेप्यसम्भवकिमिति न विवक्षितुं शक्यम् सम्भवन्ती चोपस्थिति नुकूला अनुकूलत्वे च तस्याः स्वीकृते घटः कर्मत्वमित्यत्रापि स्यादिति भावः / येन विना यस्य न स्वार्थेति / यत्पदव्यतिरेकप्रयुक्तो यत्पदार्थान्वितस्वार्थानुभावकत्वाभावो यस्य तस्य स एव तत्पदसाकाङ्क्षत्वम् , अर्थात्तत्तत्प्रकृतिप्रत्ययक्रियाकारकपदानां तत्तदर्थान्व. यबोधानुकूलः समभिव्याहार आकाक्षेति पर्यवसितम् / अन्यत्र यदाधकमिति / अन्यत्र प्रकृतसंसर्गभिन्ने योग्यस्थलेऽपि प्रकृतसंसर्गान्वयत्किञ्चिद्गोचरवाधकप्रमाविरहोऽस्त्येव क्वचिद्बाधकप्रमासत्वेन योग्यस्थलेऽपि बाधकप्रमासामान्यविरहासम्भवेन तस्य विवक्षितुमशक्यत्वादिति / बाधकमानाभाव इति / विषयत्वसम्बन्धावच्छिन्नप्रतियोगिताका / बाधप्रमासत्वेऽपि काव्यस्थले चमत्काररूपेष्टसाधनत्वप्रहादिच्छया बाधकप्रमाविरहज्ञानमाहार्यमुपजायमानश्चमत्कारहेतुं शाब्दं जनयति स्वरूपतो बाधकप्रमाविरहस्य हेतुत्वे तन्न स्यात् / नचेच्छया शाब्द एव भवत्विति वाच्यम् / परोक्षं हि झानमनाहार्यमिति प्रवादादिति / योग्यताज्ञानाभावप्रत्यक्ष शाव्दसामग्रीप्रतिबन्धकत्वाकल्पनेन लाघवान्न तज्ज्ञानस्यैव हेतुत्वं वाच्यमित्यभिप्रेत्याह प्रकृतसंसर्गस्येति / प्रागप्रतीतेरिति / तत्रोक्तयोग्यताया प्रत्येतु मशक्यत्वादिति / स्वबाधकेति / स्वं प्रकृतान्वयबोधाश्रयः श्रोता। प्रकृतसंसर्गे च न तदभाव इति / प्रकृतकपदार्थविशेष्यप्रकृतावरपदार्थसंसर्गाभावस्य यन्मना प्रमितिस्तदभावेत्यर्थः / योग्यस्थले बाधप्रमासिद्धौ न तदभावः तदसिद्धौ अलीकप्रतियोगिकत्वान्नाभाव इत्युभयथा योग्यताव्याधात इत्यर्थः। अयोग्येऽपि सावादिति / स्वस्य बाधज्ञानाभावकाले तत्र च तज्ज्ञानस्य प्रमात्वात् प्रमाशाब्दबोधापत्तिरिति भावः / सकलतदभावस्येति / स्वपरनिष्ठतदभावस्येत्यर्थः। ज्ञातुमशक्यत्वादिति। , परज्ञानाभावस्य