________________ तृतीयस्तवके] शब्दस्य बाधकत्वखण्डनम्। बोधनी। न्ययोरविनाभावात्साकाङ्क्षत्वेनैकवाक्यतेति / तथाप्यहो विमलं नया जलं कच्छे महिषश्चरतीति वाक्ययो)दो न स्यात् नदीकच्छयोरविनाभावेन साकाङ्क्षवादत उक्तं तदुत्पाद्य इति / अत्र हि पूर्ववाक्यस्थनदीपदार्थोत्पायस्य जलसंसर्गावगमस्य न प्रागभावम्तथोत्तरवाक्यस्थकच्छपदार्थोत्पाद्यस्य महिपसंचरणसंसर्गावगमस्यापि न प्रागभावः, तेन तयोनिराकाङ्क्षत्वान्नैकवाक्यतेति / अस्त्वियमाकाङ्क्षा ततः किमित्यत आह न चैष इति / तेन हेतुविशेषणत्वायोगान्नानुमानत्वमिति / कुतो नापे क्ष्यत इत्यत्राह प्रतियोगि इति / संसर्गावगमप्रागभावोऽपि प्रतियोगिभूतसंसर्गावगमनिरूप्यः, स चाकाङ्क्षाधीननिरूपण इति इतरेतराश्रयत्वप्रसङ्ग इति / तदेवं शब्दमात्रस्यानुमानान्तर्भाव वदन्तो निरस्ताः॥ प्रकाशः। ननु निराकाक्षे तदुच्चारणजन्यसंसर्गज्ञानप्रागभावस्य सिद्धयऽसिद्धिभ्यां व्याघातः / प्रागभावस्य च कार्यमानहेतुत्वान्न शब्दासाधारण्यम् / प्रागभावाभावस्य च कारणान्तराभावव्याप्यत्वात्तत एव कार्याभाव इति आकाक्षा न हेतुः स्यात् / योग्यताऽऽसत्योरकारणत्वापत्तिश्च / अयोग्यानासन्नयोस्तदुच्चारणजन्यसंसर्गधीप्रागभावाभावादेवान्वयबोधानुत्पत्तेः / . अथ ज्ञाप्यतदिरान्वयप्रकारकजिज्ञासानुकूलोपस्थितिहेतुत्वे सत्यजनिततात्पर्यविषयान्वयबोधक प्रकाशिका। रविशिष्टोऽपि हेतुस्तत्र व्यभिचारी स्यादित्यर्थः / असंसर्गाग्रहेति / संवादिप्रवृत्तौ विशिष्टज्ञानस्य हेतुतयाप्तवाक्यादावपि संसर्गासिद्धौ प्रवृत्तिर्न स्यादित्यर्थः / एवं च संसर्गों न सिद्ध्येदिति मूले क्वचिदपीति शेषः / प्राप्तवाक्येष्विति मूलं, तथाचाप्तोक्तत्वेन हेतुविशेषणान व्यभिचार इति भावः / अभ्युपगमो वस्तुगत्या नास्तीत्यत आह सिद्धयभ्युपगमेति / तथा चेति / शब्दस्थानाभिषिक्तस्यानुमानस्याप्रामाण्यापत्तिरित्यर्थः / यथाश्रुते इष्टापत्तेः। स्मारितयोरिति / सत्यन्तं चाकांक्षालक्षणे स्वरूपनिर्वचनपरमित्यवसेयम् / नन्वेवं गौरश्व इत्यादेरप्यमेदान्वये साकाक्षातापत्तिरित्यत आह गौरव रति / तथाचेष्टापत्तिरिति भावः। पदार्थानां स्वरूपेणोपस्थितिरुकजिज्ञासानुकूना न वा, अन्त्ये दोषमाह नामेति / आये दोषमाह घटः कर्मत्वमिति / अभिधानेति / अन्वयबोधानिष्पत्तिरित्यर्थः। अन्वयाबोधापर्यवसानमात्रं स्वरूपायोग्येऽप्यस्तीत्यतः तद्विशेषणेति / येन विनेनि। स्वरूपायोग्ये च तत्प्रयुक्तमेवान्वयबोधापर्यवसानम् न तु पदान्तरव्यतिरेकप्रयुक्तमिति भावः // 13 // मकरन्दः। तस्येति / असंसर्गाग्रहस्येत्यर्थः / स्मारितयेरिति। एतच्च सत्यन्तं विशेषणं स्वरूपनिर्वचनम् / नन्वेवं गौरश्व इत्यादावभेदान्वयबोधे श्राकाङ्क्षा स्यादित्यत्र आह गौरश्व इति / तथा चेष्टापत्तिरिति भावः / यदि च स्वरूपेणैव तदुपस्थितिस्तदनुकूला, तत्राह घटः कर्मत्वमिति / अभिधानेति। अभिधानमन्वयानुभवः, तस्यापर्यवसानमनिष्पत्तिरित्यर्थः / एतच्च घटः कर्मत्वमित्यादावप्यस्तीत्यन्यमपर्यवसानपदार्थमाह येनेति / घटः कर्मत्वमित्यादेश्व नेतरव्यतिरेकप्रयुक्त क्रियाकर्मभावेनान्वयानुभावकत्वं, किन्तु स्वरूप योग्यत्वप्रयुक्तं, तत्समवधानेऽपि तदननुभाकत्वात् अभेदान्वये च तत्राप्याकाङ्क्षाऽस्त्येव, अयोग्यत्वाच्च नान्वयधीरित्यत आह घटः कर्भत्वमिति / आकाङ्क्षालक्षणादिकं शब्दप्रकाशे सम्यग्व्याख्यातमनुसन्धेयम् // 13 // टिप्पणी। न्यत्र प्रमाणत्वेन सम्प्रतिपन्नशब्दजातीय एव तथा स्वीकृतो न च तत्रास्ति लिङ्गतावच्छेदकनिश्चय इति न शब्दो निङ्गविधया प्रमाणमिति प्रकृते सङ्गतम् / व्याप्तिज्ञानविरहेऽपि ज्ञानजनकत्वमानपरत्वे. ऽदृष्टं सदा भ्रान्ति जनयेदित्यत्र किमिव सङ्गतं स्यात् , अत एव विपर्यायहेतुत्वादित्यस्य ज्ञानहेतुत्वादिदित्यत्र तात्पर्य्यमित्युक्तिः केषाश्चिदनादरणीयैव। सिद्धयसिद्धिभ्यांव्याधात इनि। घटः कर्मत्वमित्यादिवाक्यं निराकाक्षमिति व्यवहारवितोष इत्यर्थः। अथ शान्यतदितरान्वयेति / यत्पदे