________________ 368 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखली [ 13 कारिकाव्याख्यायां संसर्गो न सिद्धयेत् / प्राप्तवाक्येषु सेत्स्यतीति चेन्न / सर्वविषयाऽऽतत्वस्यासिद्धेः। यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात् / प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्धयभ्युपगमादित्युक्तम् // . न च सर्वत्र जिज्ञासा निबन्धनम् , अजिज्ञासोरपि वाक्यार्थप्रत्ययात् / श्राकासापदार्थस्तर्हि कः ? / जिज्ञासां प्रत योग्यता / सा च पदस्मारिततदाक्षिप्तयोरविनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः। न चैषोऽपि शानमपेनते, प्रतियोगिनिरूपणाऽधीन'नरूपणत्वात् , तदभावनिरूणस्य च विषर्यानरूप्यत्वादिति॥१३॥ बोधनी। असंसर्ग इति / यदि यावत्समभिव्याहृतत्वविशेषणविधुरस्य संसर्गज्ञानपूर्वकत्वाभावो न दोषाय विशिष्टस्य हेतुत्वात् तर्हि तद्विशेषितेऽपि हेतावनैकान्तिकत्वं सुवचमित्याह तर्हि इति / नन्वनाप्तवाक्यस्याप्यसंसर्गाग्रहपूर्वकत्वात्तावन्मात्रसाधने न व्यभिचार इत्याह असंसर्गाग्रह इति / एवं हि न कुतश्चिदपि वावयात संसर्गावगतिः स्यादित्याह एवं तर्हि इत्ति / नन्वाप्तप्रणीतत्वेनापि हेतुं विशेषयिष्यामः, तथा च तस्य न व्यभिचार इत्याह प्राप्तवाक्येषु इति / तदेतत्प्रथमानुमान एवाशक्य निरस्तमित्याह न इति / ___एवमाकाङ्क्षा नाम जिज्ञासेत्यङ्गीकृत्य तस्याः सत्तया वाक्यार्थज्ञानहेतुस्वालिङ्गविशेषणत्वं न संभवतीत्युक्तम् , इदानीं तु सत्तयापि हेतुत्वं नास्तीत्याह न च सर्वत्र इति / न हि प्रथममेव पूर्णवाक्यप्राविणो जिज्ञासापूर्वकः संसर्गप्रत्यय इति / यदि न जिज्ञासा का तहिं वाक्यार्थप्रतीतिहे. तुराकाक्षे याह कर हि इति / जिज्ञासाम् इति / अयमर्थः दस्मारितस्य स्मारिताप्तस्य वा स्मारितेन तदाक्षिप्तेन वाऽविनाभावे सति श्रोतरि तत्पदार्थोत्पायस्य संसर्गावगमस्य प्रागभावो जिज्ञासां प्रति योग्यता, सा चात्राकाक्षेति / पदार्थाविनाभाव आकाक्षेत्युक्ते पटो भवतीतिवाक्यपदपदार्थस्य गुणाविनाभावेन तत्साकाक्षत्वात् रक्तः पटो' भवतीति वाक्यैकदेशवन्न पर्यवस्येदत उक्तं पदस्मारित इति / तर्हि नीलं सरोजमित्यत्र पदस्मारितयोर्नीलसरोजयोरविनाभावाभावादेकवाक्यता न स्याद र उक्तं तदाक्षिप्तस्य इति / तत्र च विशेषयोविनाभावेऽपि तदाक्षिप्तगुणत्वद्रव्यत्वसामा प्रकाशः। कत्वात् प्रवर्तकं संसर्गज्ञानं न स्यादित्यर्थः / सर्वेति / प्राप्तोक्तत्वस्य च लिजविशेषणतया ज्ञातस्यैव हेतुत्वादित्यर्थः / सिद्धयभ्युपगमादिति / सिद्धयभ्युपगमसमादित्यर्थः / तथा च शब्दस्यानुवा दकत्वेनाप्रामाण्यापत्तिरिति भावः / तदेव पदस्मारितपदार्थविषया जिज्ञासेत्यशोकृत्य उक्तं, सम्प्रति तामप्यव्यापकतयाऽऽस्कन्दितुमाह न चेति / अथ योग्यतैव केत्यत आह सा चेति। शब्दस्मारितयोरविनाभावो, ययौदनं पचतीत्यत्र क्रियाकारकयोः / तदाक्षिप्तयोरविनाभावो यथा नीलं सरो. जमस्तीत्यत्र विशेषाक्षिप्तयोर्द्रव्यगुणसामान्ययोः / प्रतिपादके संसर्गज्ञानप्रागभावो नास्तीत्यत उक्त श्रोतरीति / वाक्यान्तरोचारणेन तत्रापि सोऽस्तीत्यत उक्तं तदुत्पाद्यति / तद्वाक्योच्चारणजन्य इत्यर्थः / प्रतियोगीति / संसर्गाऽवगमप्रागभावो हि प्रतियोगिान तदवगमे ज्ञाते ज्ञातव्यः, स च स्वविषये संसर्गे ज्ञाते बोद्धव्य इति संसर्गस्य प्रागेव ज्ञानाद्वाक्यस्याऽनुवादकत्वादप्रामाण्यापत्तिरित्यर्थः / प्रकाशिका। इति / संसर्गेबाधकाच्चेति / संसर्गज्ञाने समस्ताश्रवणमेव बाधकमिति भावः। चकारोऽ. नभ्युपगमादिति हेतुमाश्रयस्थं समुचिनोति / तहीं।त मूलम् असंसर्गाप्रहेणापि व्यवहारस्वीकारेण शब्दप्रयोगात्मकोऽपि व्यवहारोऽनाप्तस्यासंसर्गाप्रहादेव स्यादिति यावत् / समभिव्याहा टिप्पणी। धया प्रमाणं धूमः, दोषवति व्याप्स्यादिप्रतिसन्धान विना ह्रदो वह्निमानिति भ्रमन जनयति जनयति च चक्षुरतो धूमजातीयपर्वते वहिबोधे न लिङ्गविधयेव प्रमाणं न चक्षुः, प्रकृते च भ्रान्तिजनकत्वेना