________________ तृतीयस्तवकें] शब्दस्य बाधकत्वखण्डमम् / कन्वखण्डनम। 363 गुणक्रियाधशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा / पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा। तत्र भवतीत्युक्ते किं करोतीत्येव पदस्मारितविषया, न तु किंरूप इत्यादिरपि / यदा तु रक्त इत्युच्यते, तदा किंरूप इत्येषाऽपि स्मारितविषया स्याद् , इति न किञ्चिदनुपपन्नमिति चेत। ___ एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान् / किमस्यां जातायामन्धयप्रत्ययोऽथ ज्ञातायामिति / तत्र प्रथमे नानया व्यभिचारव्यावर्त्तनाय हेतुर्विशेषणीयः, मनःसंयोगादिवत् सत्तामात्रेणोपयोगात् / श्रासत्तियोग्यतामात्रेण विशि. टस्तु निश्चितोऽपि न गमकः। अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभि. चारात् / द्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत्तत्सद्भावेऽपि तज्ज्ञानौधुर्यादन्य बोधनी। तामात्रस्य च इति / प्रागसिद्धौ दोषमाह अन्यथा इति / उत्तरमधं व्याचक्षाणः पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणीति प्रयोगं दूषयति एवं द्वितीयेऽपि इति / एतच्च पूर्वत्रापि द्रष्टव्यम् / स एव संभविनः साक्षादुपन्यस्य निरस्यति न तावत् इति / साध्यत्वादिति / न साध्यमेव हेतुविशेषणमाकाङमा भवतीति / अस्तु तर्हि विशेषणविशेष्यभावयोग्यतैवाकाङ्क्षा तत्राह नापि इति / तस्याः प्रागेव हेतुविशेषणत्वेनोपादानादिति / तर्हि पदस्मारितानां पदार्थानामन्योन्याविनाभाव आकाक्षेत्यत्राह नापि इति / नन्वस्ति तावद् गुणद्रव्यविशेषाभ्यां नीलसरोषाभ्यामाक्षिप्तयोः गुणद्रव्यसामान्य. योरविनाभावः, सोऽप्याकाङ्केत्याह विशेष इति / यद्यविनाभाव आकाङ्क्षा तीही विमलं जलं नद्या इत्येतद्वाक्यगतस्य नदीपदस्य कक्षे महिषश्चरतीति वाक्यान्तरगतस्य कक्षपदस्य स्वार्थाविनाभावल. क्षणं साकाङ्क्षत्वमस्तोत्यनयोर्वाक्यभेदो न स्याद्विभागे साकाङ्क्षाणामेकवाक्यत्वादित्याह न इति / ___ ननु श्रोतुर्जिज्ञासा आकाङ्क्षा, तस्याश्च विमलं जलं नया इत्येतावतैव पर्यवसानाद्वाक्यमेदो. पात्तिरित्यत्राह-नापि इति / ननु न वयं जिज्ञासामात्रमाकाक्षेति ब्रूमः किन्तु पदस्मारितविशेषविषयम् , अतो नातिप्रसङ्ग इत्याह-गुणक्रिया इति / सत्यमियमेवाकाङ्क्षा तथापि नैष हेतुविशेषणं संभवतीत्याह-एवं तर्हि-इति / जातायां जातमात्रायामज्ञातायामेवेति / नानया इति / न ह्यज्ञातमेव विशेषणं हेतोर्विपक्षाद् व्यावृत्ति बोधयतीति मा भूदाकाक्षा विशेषणमित्यत्राहप्रासत्ति-इति / अयमेति पुत्रो राज्ञ इति एक वाक्यं, पुरुषोऽसार्यतामित्यपरं, तत्र राज्ञः पुरुष इत्यनयोर्योग्यतासत्ती स्तः तथापि नैकवाक्यत्वं क्रियान्तरसंबन्धेन निराकाङ्क्षत्वादिति / ताका झापि ज्ञातैव विशेषणं भविष्यतीत्यत्राह द्वितीयस्तु इति / यथा हि सविशेषणेष्वनुमानान्तरेषु प्रकाशः। गुणक्रियेति / पट इत्युक्ते किंगुणः? किंक्रियः ! इति जिज्ञासा / तत्र यदा भवतीत्युच्यते, तदा जिज्ञासाविषयस्य क्रियाविशेषस्य पदेन स्मारणात् सैव जिज्ञासा आकाङ्क्षा / रक्त इत्युक्ती किंगुण इत्यपि सेत्यर्थः। सत्तामात्रेणेति // स्वरूपसदाकाङ्क्षायोग्यतादिसाचिव्याच्छन्द एव ज्ञानजनने सम्भृतसामग्रीको लिजमेव विलम्बितमिति भावः। व्यभिचारादिति / राजपदा. प्रकाशिका। थेति / यद्यपि योग्यतासत्व ईश्वरसंसर्गज्ञानपूर्वकतया साध्यसत्त्वान्न व्यभिचारः / तथापि मकरन्दः। राजपदार्थेति / यद्यपि योग्यतासत्त्वे ईश्वरसंसर्गज्ञानसत्वान व्यभिचारः,तथाप्यजनितान्वयबोधे टिप्पणी। .लिङ्गमेव विलम्लितमितिभाव इति / स्वविशेषण ज्ञानापेक्षणादिति / प्रतिपदार्थान्विता. 50 न्या० कु०