________________ 362 व्याख्यात्रयोपेतप्रकाशवोधनोयुते न्यायकुसुमाञ्जली ! 13 कारिकाव्याख्यायां शेषमप्रतीत्य शक्यम् / बुद्धरर्थभेदमन्तरेण निरूपयितुमशक्यचात् / पदार्थमाने चा. भ्रान्तत्वसिद्धी न किश्चित् / अनाप्तसागरण्यात्। एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेन्न / एतेषां संसर्गे इन्य एव बुद्धरसिद्धः। अननभूतचरे स्परणायोगात् , तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति / नापि द्वितीयः, योग्यतामात्रसिद्रावपि संसर्गाऽनिश्चयात , वाक्यस्य च तदेकफलत्वात् , योग्यतामात्रस्य प्रागेव सिद्धेः। अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्व हेतुः स्यात् / तथा चाऽग्निना सिदित्यादिना स्मारितैरनैकान्तः। तथाविधानां सर्वथा संसर्गायोग्यत्वादिति // द्वितीयेऽपि प्रयोगे हेतराकाङ्क्षादिमत्त्वे सतीनि / तत्र केयमाकाङ्क्षा नाम ? न तावद्विशेषणविशेष्यभावः तस्य संसर्गरभावतया साध्यत्वात् / नाऽपि तद्योग्यता, योग्यतयैव गतार्थत्वात्। नाप विनाभावः। नीलं सरोजमित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् / तत्रापि विशेषाक्षिप्तसामान्ययोरविनाभावोऽस्तीति चेन्न / हो विमल जलं नद्याः कच्छे महिषश्चरती'त्यादी वाक्यमेदानुपपत्तिप्रसङ्गात् / नापि प्रतिपत्त जिज्ञासा / पटो भवतीत्यादौ शुक दिजिज्ञासायां, रक्तः पटो भवतीत्यस्यैक्रदेशवत् सर्वदा वाल्यापर्यवसानप्रसङ्गात् / / बोधनी। किमित्यत्राह न चैतत् इति / क्वचिदाप्तत्वमवधार्य सर्वत्रायमीश इत्यनुमास्यामह इत्यत्राह यत्र क्वचित् इति / वाक्यार्थप्रतीतेः प्रागाप्तत्वासिद्धिमुपसंहरति ततोऽस्मिन् इति / ननु पदार्थास्ता. वत्तागेव प्रतीयन्ते तेषां सत्यत्यात्तत्राप्तिरप्यवधार्यत इत्यत्राह पदार्थमानेच इति / नन्वनवगतेऽपि वाक्यार्थे पदस्मारितानां पदार्थानां परस्परसंसर्गयोग्यतावदागमादेतत्संसर्गेऽयमभ्रान्त इति निश्चेतुं शक्यमित्याह एतेषाम् इति / न इति / नहि तदानीमेषां संसर्ग इत्यनुभवात्मिका बुद्धिा सिध्यति कारणाभावादिति / तत एव न स्मरणात्मिकापीत्याह अननुभूत इति / / द्वितीयं पादं व्याचष्टे नापि द्वितीयः इति ! न परं साध्यासिद्धिः सिद्धसाधनं चेत्याह योग्य प्रकाशः। स्वादित्यर्थः // प्रागेवेति / / योग्यतया लिङ्गविशेषणेन सिद्धेरित्यर्थः // तस्येति // एकत्र पदार्थे पदार्थान्तरवैशिष्ट्यस्यैव संसर्गरूपत्वादित्यर्थः // विशेषे त // नीलेन गुगसामान्यमाक्षिप्यते, सरोजेन द्रव्यमानं, तयोश्वाविनाभावोऽस्त्येवेत्यर्थः // अहो इति // जलान्वितन या श्राश्रयीभूतकच्छे साकाशतापत्तावेकवाक्यतापातादित्यर्थः // रक्त इति // यथा रक्तः पटो भवतीत्यत्र रक्तपदार्थान्वयं विना पटो भवतीत्येकदेशो न पर्यवस्यति, तथा रक्तपदं विना यत्र पटो भवतीत्येव वाक्यमुद्भा. वितं, तत्रापि तन्न पर्यवस्येदित्यर्थः / अजिज्ञासोरपि वाक्यार्थशानाच्चेति भावः // प्रकाशिका। हितत्वात् परामर्षभ्रमं वारयति / निश्चयकेति / योग्यतयेति / इदञ्च सम्भावितपदस्य योग्यपरत्वे दूषणम् , सन्दिग्धपरत्वे तु संसर्गाशिद्विरेव दोष इति स्मर्त्तव्यम् / राजपदा मकरन्द तया इति / सम्भावितपदस्य लिङ्गविशेषणयोग्यतापरत्वे दूषणमिदम् / सन्दिग्धारत्वे संसर्गानिधयादित्येव दूषणं बोध्यम् / टिप्पणी चिन्त्यम् / यथा वाक्यवाचकाभावेनाभ्रान्तेनोक्तानां पदानापर्थेन यथा न वाच्यवानकभावसंसर्गस्तथा योग्यताम्रान्तेनोक्तपदार्थानां संसर्गः, वाकारः सादृश्य इतितु कथञ्चिद् व्याख्येयः //