________________ 310 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 13 कारिकाव्याख्यायां तथाच्याकाङ्क्षादिमद्भिः पदैः स्मारितत्वाद् गामभ्याजेतिपदार्थवदिति स्यात् / न च विशेषासिद्धिर्दोषः, संसर्गस्य संमृज्यमानविशेषादेव विशिष्त्वात् / यदाएतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारकत्वात् गामभ्याजेति पदवत् / न चैवमासिद्धिः। ज्ञानावच्छेदकतयैव तत्सिद्धेः / तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति // अत्रोच्यते अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः // आकाक्षा सत्तया हेतुर्योग्यासत्तिरबन्धना // 13 // - - - बोधनी। नसंभव इत्याह तथापि इति / नन्वेतावता संसर्गमानं सिध्यन्नत द्विशेष इत्यत्राह न च इति / पदस्मारितान् पदार्थ विशेषान् पक्षीकृत्य तेषां संसर्गे साध्यमाने तद्विशेष एव सिध्यतीति / यद्वा इति / तथा ज्ञानपूर्वकत्वस्य साध्यत्वान्न साध्याभावः, न चानैकान्तिकता आकाक्षादिमत्वेन विशेषणात् / तदितिपदार्थपरामर्श इति / नन्वेवं कुतः संसर्गवत्ता सिध्येत् कुतो वा तद्विशेष इत्यत्राह न चैवम् इति / तत्र प्रथमप्रयोगे दोषमाह अनैकान्त इति / यद्यत्र संसर्गवन्त एवेति परिच्छेदो नियमः प्रकाशः। तथापीति // अते पदार्थास्तात्पर्यविषयमिथःसंसर्गवन्त इति साध्यमतो नानभिमतसंसगंसिया अर्थान्तरम् / नन्वेवं सर्गमात्रसिद्धावपि व्यवहारोपयिकस्तद्विशेवो न सिद्धयेदत आह न चेति // संसृज्यमानपदार्थव्यापकत्वेनागृहीतस्यापि संसर्गविशेषस्य पक्षधर्मताबलात् सिद्धिरि. त्यर्थः। ननु संसर्गज्ञानपूर्वकत्वसिद्धावपि कुतो वाक्यार्थसिद्धिरित्यत आह न चैवमिति // संसर्गविशेषसिद्धयर्थमाह तस्य चेति // तस्य संसर्गस्य पदार्थ विशेषोपहितस्यैव ज्ञानावच्छेदकत्वाज्ज्ञानज्ञानस्य च तद्विषयविषयकत्वात् संसर्गे च सम्बन्धिन एव विशेषत्वादत्रापि पक्षधर्मताबलाद्व्यापक त्वेनाज्ञातस्यापि संसर्गविशेषस्य सिद्धिरित्यर्थः // नन्वेवं भ्रान्तिज्ञोऽपि भ्रान्तः स्यात् , न चेष्टापत्तिः, ईश्वरस्याऽपि भ्रान्तत्वापत्तेः, भ्रान्तस्येव भ्रान्तिस्यापि भ्रमात् प्रवृत्त्यापत्तेश्च / अत्राहुः। न भ्रमविषयविषयकत्वेन भ्रमत्वं, किन्तु विशेव्यावृत्तिप्रकारकत्वेन / न च शुक्तौ रजतत्वप्रकारकज्ञानवानयमित्यत्र विशेष्यावृत्तिः प्रकारः, रजतस्वप्रकारकत्वस्य भ्रमे सत्वात् / न च प्रतारकवाक्ये व्यभिचारः / तत्र योग्यताविरहात् , तस्या प्याहार्यसंसर्गज्ञानवत्त्वाच / तथापि संसर्गज्ञानं विना शुकस्यान्यस्य वा वाक्ये भ्रान्तप्रतारकवाक्ये च व्यभिचारः / कथञ्च तत्र संसर्गप्रमा ? वक्तुमा॑नानुमानासम्भवादिति चेन्न / तत्र वेदवदीश्वरसंस गज्ञानपूर्वकत्वादित्युक्तत्वात् // अनेकान्त इति // परिच्छेदेऽवधारणे। द्वितीयं दूषयति // श्राकाङ्केति // आकाक्षायाः प्रकाशिका। त्यादौ योग्यताया अन्वयप्रयोजकरूपवत्त्वात्मिकायाः सत्त्वादिति भावः / प्रमापकत्वं प्रमोपहितस्वम् / तथा चानुपजातफले व्यभिचार इत्यन्ये / निराकात इति / तत्र तात्पर्यघटितसाध्या मकरन्दः। झापकत्वेऽपि व्यभिचारः, तथापि खणान्तरस्यैव सम्भवादयं नोद्भावित इति भावः / निराकाङ्क्ष