________________ तृतीयस्तवके] शब्दस्य बाधकत्वखण्डनम् / 386 पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणं, पदार्थत्वादिति चाऽनैकान्तिक, पदैः स्मारितत्वादित्यपि तथा। यद्यपि चैतानि पदानि स्मारितार्थसंसर्गन्ति तस्पारकत्वादित्य दौ साध्याभावः। नात्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणशेियभावो वा सम्भवति / शायज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भाक्वादिभिनष्यत / न च लिङ्गतया ज्ञापकत्वं, योल्लङ्गस्य विषयस्तदेव तस्य, परस्पराश्रयप्रसङ्गात् - तदुपलम्मे हि व्याप्तसिद्धिस्तत्सिद्धौ च तदनुमानमिति / बोधनी। मत्वर्थः साध्यः स्यादित्याह न च लिङ्ग या इति। प्रसङ्गमेवाह तदुपलम्मे इति / तस्य लिङ्गतया ज्ञापकत्वस्य साध्यस्योपलम्मे हि सति तेन सह शब्दलिङ्गस्य व्याप्तिनिश्चयः तन्निश्चये च ज्ञापकत्वानुभानमिति प्रकारान्तरासंभवेऽनतिरेक एव, पदार्थपक्षीकारेण तु तेषां मिथः संसर्गस्यैवमनुमा प्रकाशः। पदानां तदर्थानां वाऽऽकाक्षादिमतां वाक्यार्थप्रत्यायने लिङ्गभावेनैव करणत्वमस्तु, किं शव्देनातिरिक्तमानेनेत्यभिप्रेत्य पदाऽर्थकरणत्वपक्षेऽनुमानाभेदं साधयति यद्यपीति // अनेकान्तिकमिति // निराकाङ्क्षादिभिरित्यर्थः // तथेति // तैरेवान कान्तिकमित्यर्थः / पदकरणत्वमाधिः त्याह यद्यपि चेति // समवाय इति // न पदार्थसंसर्गाणां पदेषु समवाय इत्यर्थः // विशेषोति / स हि पदार्थानां मिथोऽन्वयो नं पदधर्म इत्यर्थः ॥नचेति // लिमतया ज्ञापकत्वं यच्छब्दस्य, तदेव तस्य लिङ्गस्य तत्स्मारकत्वादित्यर्थस्य विषयः कर्मति न चेति योजना / परस्पराश्रयत्वं स्पष्टयति तदुपलम्मे हीति // लिङ्गतया ज्ञापकत्वोपलम्भे होत्यर्थः / मानान्तरेण शब्दस्य लिमत्वसिद्धौ ततोऽनुमित्या लिङ्गतया ज्ञापकत्वे व्याप्तिः सिद्धयेत् , इत्थञ्च ज्ञापकत्वे लिमत्वसिद्धिरिति भावः / यद्यपि पूर्वपूर्वविषयानुमितिजनकत्वेनाजादित्वान्न परस्पराश्रयत्वं, तथापि ज्ञापकत्वसिद्धावपि नार्थसिद्धिः, प्रमापकत्वे तु साध्येऽनै कान्तिकमिति भावः // प्रकाशिका। तथापोति / तथा च शब्दो नेश्वरे वाधको अबाधकत्वव्यवस्थितानुमानाभिन्नत्वादिति हेत्वर्थ इति भावः / पञ्चम्या हेतुत्वार्थत्यागाद्धत्वन्तरं पूरयति प्रकृतेरिति / हेत्वध्याहारगौरवेणारुचि विभावयति अन्य इति / निराकाङ्क्षादिभिरिति / अतद्गुणसंविज्ञानबहुव्रीहिणाऽयोग्यरित्यत्र तात्पर्यम् योग्यतासत्त्ये आकाक्षादिविरहेण व्यभिचार(भावादिति ध्येयम् / पदपक्षकप्रयोगे मुले आकाक्षासत्वादित्येव हेतुरधिकस्य व्यर्थत्वादित्यवधेयम् / प्रमापकत्व इति / पयसा सिञ्चती. मकरन्दः। एवं सति हेतुं पूरयति प्रकृतेरिति / निराकालादिभिरिति / अयोग्यरित्यत्रैव तात्पर्य्यम् / योग्यतासत्त्वे आकाङ्क्षाविरहे व्यभिचाराभावादिति ध्येयम् / शेष शब्दप्रकाशे विपश्चितम् / द्विती. यप्रयोगे मूले आकाक्षादिमत्त्वादित्येव हेतुः तत्स्मारकत्वादित्यस्य व्यर्थत्वात् / प्रमापकरवे इति / श्राकारक्षादिमतोऽपि सहकारिविरहेण कदाचित् प्रमानुत्पादकत्वादिति भावः / यद्यपि टिप्पणी। - ज्ञापकरवे लिङ्गत्वसिद्धिरित्यर्थ इति। न मानान्तरेणेति शेषः। तथा चान्योन्याश्रयदोवसङ्गतिः। प्रमापकत्वे साध्येऽनेकान्तिक इति। पदार्थस्मारके सहकारिविरहेण प्रमाया अज. नके योग्यताश्रमेण भ्रमजनके व्यभिचारः //