________________ 388 - व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 13 कारिकाव्याख्यायां शब्दोऽपि न वाधकमनुमानानतिरेकादिति वैशेषिकादयः। तथाहि--यद्यप्येते बोधनी। अथ प्रमाणान्तरस्यैव सतः शब्दस्याबाधकत्वं प्रतिपादयिष्यन्मतान्तरं तावदाह शब्दोऽपि इति / अनुमानानतिरेकात्तस्य चाबाधकत्वस्य स्थितत्वादिति शेषः / द्वयोरपि 'यद्यपि'शब्दयोः तथापीति वक्ष्यमाणेन संवन्धः / पदार्थत्वस्य घटपटादिभिरनै कान्तिकता, पदस्मारितत्वस्य तु गौरश्वः पुरुषो हस्तोत्यादिपदस्मारितैः, पदपक्षीकारेऽपि पूर्वोक्तदोषस्तावदस्ति, तनिस्तारेऽपि साध्याभावेन बाधितविषयत्वं पदानां पदार्थसंसर्गेण सह संयोगादिसंवन्धलक्षणस्य मत्वर्थस्याभावाजज्ञापकत्वलक्ष णस्य चानुमानप्रवृत्त्युत्तरकालीनत्वेन ततः पूर्व भवतामसिद्धत्वादिति / तर्हि लिङ्गतया ज्ञापकत्वमेव प्रकाशः। शब्दोऽपीति // यद्यपि शब्दस्याबाधकत्वेऽनुमानानतिरेकित्वं न हेतुरनुमानात्मकस्यैव शब्दस्य बाधकत्वसम्भवात् , तथाप्यनुमानबाधकत्वनिगसेनैव शब्दबाधकत्वमपि निरस्तमित्यर्थः / अनुमानानतिरेकादिति स्यब्लोपे पञ्चमी / अनुमानामेदं प्राप्य शब्दो न बाधकं, 'प्रकृतेः क्रियमाणानि-' इत्यादिशब्दस्य वक्तव्ययुक्तयाऽन्यपरत्वादित्यन्ये // प्रकाशिका। निमित्तम् द्रव्यवृत्ति जातिवादित्यनुमानेन पदेऽपि गवयत्वप्रवृत्तिनिमित्तकता समानसं वित्संवेय. तया विषयोकुर्वता साध्य सिद्धिरिति वाच्यम् / बाल्यादिभिन्नगवादिशरीर पत्तिजातौ व्यभिचारात् / उपमानेन तु गवयलत्यावच्छेदकत्वलक्षणः सम्बन्धः प्रथमं संसर्गविधया विषयीक्रियत इति न तज्ज्ञानापेक्षा तत्र / ननु तथापि यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टेन जीवित्वे निश्चिते तेन लिन बहिःसत्त्वनिश्चयेनापत्तिर्मानान्तरम् , तथा गवयादं गवयत्वतदितरान्यतरप्रवृत्तिनिमित्तकमिति सामान्यतोदृष्टं लाघवसहकृतं गवयत्वप्रवृत्तिनि मत्तकतां विषयीकरोतीति नोमानं मानान्तरम् , तथा च गङ्गेशः 'विचित्र सहकारिवलेनैकस्यापि विचित्रकार्यजनकत्वादिति, अन्यथा संशयकरणकार्थापत्तेरपि मानान्तरत्वप्रसङ्ग इति। मैवम् / आकाशपदे व्यभिः चारात् / नचतदपि सप्रवृत्तिनिमित्तमिति वाच्यम् / अस्तु तथा, तथापि हेतुसत्सन्देहदशायां व्यभिचारासंशयेनानुमानानवतारे उपमानस्यैव प्रमाणत्वात् / एतेन प्रत्यक्षवाचकपदत्वादिति हेतुरित्यपा. स्तम् / बाल्यादिभेदेऽप्यभिन्नमेव शरीरमित्यभिमानदशायां चैत्रादिपदे व्यभिचारसंशयात् / यत्तु व्यवहारेण शक्तिग्रहे यथा धर्मिमणि शक्तिप्राहकमेव धर्मस्यावच्छेदकतामवगाइते तथा प्रकृतेपीति मतम् , तन्न, तत्रानुमान वदत्र तादृश प्रमाणाभावात् शब्दस्य प्रागेव पर्यवसानात् / न च गवय. स्वविशिष्टोऽयं गायपदवाच्यो गोसहशत्वादतिदेशवाक्यावगतपिण्डवदित्यनुमानेन प्रवृत्तिनिमित्तपरिच्छेदः, लिङ्गस्य व्यभिचारात् , व्यभिचारास्फुरणदशायामुत्पन्नानुमितिरबाधेन प्रमेयमिति वाच्यम् / तत्स्फुरणदशायामपि सकेतपरिच्छेदात् / यत्त गवयत्त्वं गवयपदप्रवृत्तनिमित्तं गवयत्वस्वा. दित्यनुमानेन प्रवृत्तिनिमित्तत्वपरिच्छेद इति / तन्न / साध्याप्रसिद्धरित्यास्तां विस्तरः / यतूपमिनीमोत्यनुव्यवसायेन विजातीयज्ञानसिद्धौ तत्करणं मानान्तरमिति मतम् / तदयुक्तम् / सकेतहाने तादृगनुव्य. वसायाभावात् तस्य सादृश्यबुद्धिविषयकत्वात् , अत एव चन्द्रेण मुखमुपमीनोमीत्याकारकोऽनुव्यवसाय इति / अनवगतसतेतिपदस्य बहुव्रीह्यन्तस्य पुरुषारस्वभ्रमो मा भूदित्यत आह कम्मधारय इति / वाक्यार्थतात्पर्यादिात। तथा च लक्षणे वाक्यार्थानुसन्धानं वाक्यतात्पर्यविषयानुसन्धानमेव विवक्षितमिति भावः / ननु प्रसिद्धपदसामानाधिकरण्येन यत्र सहेतज्ञानं तत्रातिव्याप्तिः, किच लिमोहितलनिकभानवत् सादृश्योपहितसईतभानाभ्युपगमे उपमितावेवातिव्याप्तिरित्यरुबेराह वस्तुतस्विति // 12 //