________________ तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् / 387 प्रकाशिका। प्रवृत्तिनिमित्तकत्वं गृयते / सामान्यतोदृष्टमेव वा गवयत्वप्रवृत्तिनिमित्तकत्वप्रकारकमुक्तलाघवसहकारादिति / तदयुक्तम्-लाघवस्य विशेषविषयीकरणमात्रे सामर्थेन इतराप्रवृत्तिनिमित्तकत्ववि. षयतायां मानाभावात् तस्य व्यापकताच्छेदकानाक्रान्तत्वात् / अत एव गवयत्वप्रवृत्तिनिमित्तप्रकारकत्वमपि, सामान्यतोदृष्टस्यासंभवितस्य व्यापकतानवच्छेदकतया प्रकारत्वासम्भवात् , ईश्वरानुमानेsप्येकमात्रकर्तृकत्वं प्रमाणान्तरगम्यमेव / यत्तु इतरन्न प्रवृत्तिनिमित्तं गुरुत्वादित्यनुमानेनेतराप्रवृत्तिनिमि. तकत्वावधारणमिति / तत्तुच्छम् / जात्यात्मकस्याप्यन्यस्य पक्षीकरणे हेतोरसिद्धः। अपक्षीकरणे च तस्यैवाव्युदासात् / न चैवमुपमानेनापि कथं गवयत्वस्य प्रवृत्तिनिमित्तपरिच्छेदः, अनुपस्थितानां तत्त्वेनोपस्थितानाञ्चातिप्रगौरवादिना निरासात् / न च त्वन्मते तथा घटेत, तदप्रवृत्तिनिमित्त कस्य लिङ्गीभूतस्यानिश्चयात् / अस्तु वा इतराप्रवृत्तिनिमित्तकत्वपरिच्छेदो यथातथा, तथापि म व्यतिरेकि प्रवृत्तिः, गवयत्वप्रवृत्तिनिमित्तकत्वसाध्याप्रसिद्धः / न च गवयत्वं किञ्चित्पदप्रवृत्ति मकरन्दः। तत्र लिङ्गविशेषगजीविस्वानिश्चये अर्थापत्तिर्लब्धावकाशा स्यात् / तस्मात् त्यज वोपमानं मानान्तरं, स्वीकुरु वाऽर्थापत्ति संशयकरणिकामन्यामिति / वस्तुतस्तु संज्ञसंक्षिपरिच्छेद उपमानार्थ इत्याकर एव स्फुटं, न तु प्रवृत्तिनिमित्तपय॑न्तपरिच्छेदोऽपि, तस्य शक्यत्वे शक्यवृत्तित्वे इत्यादिघटितस्य नियमत उपस्थितौ मानाभावात् , तद्वहस्य व्यवहारानङ्गत्वेनानुद्देश्यत्वाच, तथा च गवयत्वविशिष्टवाच्यत्वसिद्धिरेवो द्देश्या / तदिदमुक्तम्-पिण्डवाचकत्वसिद्धावपि गवयत्वसिद्धावपि गवयत्वविशिष्ट. वाच्यत्वासिद्धेननॊपमानपरिच्छेयस्य मानान्तरात् प्रतीतिरिति / एवञ्च शब्दाद्विशेष्यवाच्यत्वावगमेऽपि गवयत्ववाच्यत्वपरिच्छेदार्थमुपमानस्वीकार इति परमार्थः / तदिदमुक्तमाकरे 'सामान्यविशेषवाचकस्वेऽस्य मानान्तरमनुसरणीयमिति / तत्र ब्रमः / एवं व्यवहारादेरपि शक्तिप्राहकस्य व्यक्तिप्राहकस्य व्यक्तिमात्रविषयत्वात् घटत्वादिवाच्यत्वग्रहार्थ मानान्तरमनुस्रियेत, यदि च लाघवादिसहकृतं व्यक्तिशक्तिप्राहकमेव तद्वाहक, तदा प्रकृतेऽपि तुल्यम् / तदिदमुक्तं गङ्गेशेन-'शक्तिप्राहकमेव लाघवादिसहकृतं निमित्तमप्यवधारयति, यथा शित्यादौ कर्तृग्राहकं कर्तुरेकतामिति' / ननु प्रकृते विशिष्टशक्तिप्राहकं नास्ति शब्दस्य गवयत्वोपस्थितिकाले पर्य्यवसितत्वादिति चेत् / न / गवयत्वविशिष्टोऽयं गवयपदवाच्यः गोसदृशत्वादित्यादेर्लाघवसहकृतस्य सत्त्वात् लिङ्गाभासादिनाप्यनुमित्यविरोधाच्च / अन्यथा व्यवहारादिना घटत्वादिविशिष्टशक्तिग्रहोऽप्यशक्यः / यद्वा धम्मिवाच्यत्वे शब्दादेव सिद्धे गवयत्वं गवयपदवाच्यं गवयत्वादिति व्यतिरेकिणा लाघवसहकृतेन तवाच्यत्वसिद्धिः। तस्मात् पिण्डादेः सपक्षाद्यावृत्तावसाधारण्यं, तस्य सत्प्रतिपक्षोस्थापकतया दोषत्वादस्य च तर्कसहकारेणाधिकबलत्वात् / अस्तु वा गवयपदप्रवृत्तिनिमित्तस्वमेव साध्यम , तथा च सपक्षाभावान्नासाधारण्यम् / न च साध्याप्रसिद्धिः, गवयपदं किञ्चित्प्रवृत्तिनिमित्तकमिति सामान्यतोदृष्टादेव सामान्यतस्तत्सिद्धेः / न च व्याप्यायप्रतिसन्धानदशायामपि तत्परिच्छेदान्नैवमिति वाच्यम् , माना. भावात् / अन्यथा मूलप्रकाशयोरनुमानदृषणप्रयासस्यासङ्गतत्वापातात् / तददुष्टत्वेऽपि तदनवतारे उपमानावतारसम्भवात् / तथा च यत्र यत्परिच्छेदस्तत्र क्लुप्तप्रमाणभावस्यैवावतारः कल्प्यते, लाघवात् , अतीन्द्रियादिलिझे व्याप्यत्वपरामर्शवदुपनयसहकृतेन मनसा विशिष्टवाच्यत्वपरिच्छेदसम्भवाच / न चोपमिनोमीत्यनुव्यवसायबलाद्विजातीयप्रमासिद्धौ तत्करणसिद्धिरिति वाच्यम् / संज्ञासंझिसम्वन्धबुद्धौ ताशानुव्यवसायासिद्धः / गवा गवयमुपमिनोमोत्यनुव्यवसायस्य सादृश्यबुद्धिविषयत्वात् , अत एवान्यत्रापि मुखचन्द्रादिसादृश्यप्रतीती तथेति विद्वद्भिः परिचिन्तनीयमिति / नन्विदमुपमितावेवातिव्याप्तं लिझोपहितलैङ्गिकभानवत् साहश्यज्ञानोपनीतस्य तत्र भानसम्मवादित्यरुचेराह वस्तुतस्विति // 12 //