________________ 386 व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जली [12 कारिकाव्याख्यायां लक्षणन्त्वस्य - अनवगतसङ्गतिसंज्ञासमभिव्याहृतवाक्यार्थस्य संशिन्यनुसन्धानमुपमानम् / वाक्यार्थश्च क्वचित् साधर्म्य क्वचिद्वधर्म्यमतो नाव्यापकम् , तस्मान्नि. यतविषयत्वादेव न तेन बाधो, न स्वनतिरेकादिति स्थितिः // 12 // बोधनी। एवमुपमानस्य प्रमाणान्तरेभ्यो विषयभेदाद् मेदं दर्शयित्वा लक्षणतोऽप्याह लक्षणं तु इति / अनवगतस्वार्थसंबन्धया गवयादिसंज्ञया समभिव्याहृतं यद्वाक्यमतिदेशवाक्यमिति यावत् , तस्य योऽर्थस्तस्य संज्ञिनि गवयादिपिण्डे यदनुसंधानमयमसौ गोसदृश इत्यादि प्रत्यभिज्ञानं तदुपमानमिति। नन्वव्यापकमेतत् , कोहगश्व इति हि प्रश्ने गवयादिविलक्षणः केसरादिमानश्व इति चैधर्म्यरूप. वाक्यार्थप्रत्यभिज्ञानस्याप्युपमानत्वेनेटस्वादित्यत्राह वाक्यार्थश्व इति / ननु तथाप्यव्यापक 'कीटकरम' इति पृष्टेनोदीच्येनोदीरितं 'दीर्घग्रीवः प्रलम्बोष्टः कठोरतीक्ष्णकण्टकाशी पशुः करम' इति वाक्यं श्रुतवतो दाक्षिणात्यस्योत्तरापथे पुनस्तादृशपिण्डे तांस्तान् धर्मान् प्रत्यभिजानानस्यायं करभशब्दवाच्य इति / यथोक्तं तार्किकरक्षायाम् अत्रातिदेशवाक्यास्त्रिविधः परिगृह्यते / साधर्म्य धर्ममात्रं च वैधयं चेति भेदतः // इति / परमप्रकृतमुपसंहरति तस्मात्-इति / नियतविषयत्वात्संज्ञासंशिसंबन्धमात्रविषयत्वादिति // 12 // प्रकाशः। एवमुपमानस्य क्लृप्तमानातिरेकं प्रसाध्याव्याप्ति परिहतुं लक्षणमाह लक्षणन्त्यिति // श्रनवगतसा तिवासी संज्ञा चेति कर्मधारयः / न च गोविसदृशो न गवयपदवाच्य इत्यत्र अर्थादापयते गोसदृशो गवयपदवाच्य इति, तथा च नात्र वाक्यार्थानुसन्धानमस्तीति वाच्यम् / परम्परया तत्रापि वाक्यतात्पर्यात् / वस्तुतस्तु उपमितिकरणत्वमुपमानत्वम् , उपमितित्वञ्च जातिः / न च तदसिद्धिः॥ सामप्रीविशेष कार्यवैजात्यमावश्यकमिति कारणव्यङ्ग्यत्वात् , सैव सामग्री अनवगतसङ्गतीत्यादिना दर्शिता। क्वचिद्वैधय॑मिति // धिक्करभमतिदीर्घग्रीवमित्यादौ // प्रकृतमुपसंहरति तस्मादिति // 12 // प्रकाशिका। तदनवतारदशायां सामान्यतोदृष्टे पर्यवसिते यत्रोत्तरकालं तर्कावतारः, तत्रोपमानं मानान्तरं सामान्यतोदृष्टपुनरनुसन्धानस्यानुभवकलहप्रस्तत्वादिति भावः / वस्तुतोऽनुमितेापकतावच्छेदकप्रकारकेत्यादिपूर्वोक्तबाधकमेव सम्यगिति / अत्र वदन्ति-प्रमाणान्तरकस्सनापेक्षया सामान्यतोदृष्टानुसन्धानकरुपनमेव लघु, अन्यथा प्रास्नास्तितास्थले लिङ्गानुसन्धानकरुपनं न स्यादित्यनुपलब्धेर्मानान्तरतापत्तिः / न चानुमितेयापकतावच्छेदकप्रकारकत्वनियमः, क्षित्यादौ लाघवेनैकमात्रकर्तृकत्वानुमानाभावापत्तिः / न चेष्टापत्तिः, एकानेककर्तृकत्वसंशयापत्तेः, तस्मात् सप्रवृत्तिनिमि. त्तिकत्वानु ( रोधेन ) मानमेवेतरप्रवृत्तिनिमित्तकत्वं विषयीकरोति, पश्चादुक्तव्यतिरेकिणा गवयत्व मकरन्दः। यदि च गवयत्वं किञ्चित्पदप्रवृत्तिनिमित्तं जातिविशेषत्वादित्यादिना तस्य तुल्यवित्तिवेद्यतया किश्चित्पदे तत्प्रसिद्धिसम्भवात्तथास्वं, तदा प्रकृतेऽपि तुल्यम् / व्यतिरेक्यन्तरेऽपीयमेव गतिः / किच यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टं तर्कसहकृतं पुनरनुसन्धीयमानं जीवित्वप्रकारकं ज्ञानं जनयति, तथा गवयपदं गत्रयत्वतदितरान्यतरप्रवृत्तिनिमित्तकं पदत्वादिति सामान्यतोष्टं तर्कसहकृतमनुसन्धीयमानं गवयत्वप्रवृत्तिनिमित्तकत्वं परिच्छिनत्त, कृतं मानान्तरेण / तदाह गङ्गेशः-'विचित्रसहकारिवलेनैकस्यापि विचित्रफलजनकत्वादिति / अन्यथा टिप्पणी। क्षेण परत्वोपस्थितौ तर्कसाम्राज्ये पुनः परिच्छेदकत्वासम्भवादिति भावः /