________________ तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् / - .385 तस्य च निमित्तविशेषम्य साक्षादुपदर्शयितुमशक्यत्वात् पृष्टस्तदुपलक्षणं किञ्चिदाचष्टे, तच्चोपमानसामग्रीसमुत्थापनमेव / तस्य च प्रमाणस्य सतस्तका सहायतामापद्यते, सादृश्यस्यैव निमित्ततायां कल्पनागौरवम् , निमित्तान्तरकल्पने च क्लुप्तकल्प्यविरोध इति तदेव निमित्तमवगच्छतीति // - बोधनी। कृतसादृश्यप्रत्यभिज्ञानरूपामुत्था रयतीति किमेतावता गवयत्वमेव प्रवृत्तिनिमित्तमिति सिध्यतीत्यत्राहतस्य च इति / तर्कस्वरूपमाह-लादृश्यस्य इति / प्रकाशः। गवयत्वप्रवृत्तिनिमित्तकं गवयपदमिति मानान्तरमन्तरेणाप्रतीतेः, अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वात् // . ननु यथेच्छायां सामान्यतोदृष्टेन विशेषबाधकसहकृतेनाष्टद्रव्यानाश्रयत्वं ज्ञायते, अन्यथा विशेषबाधकानां पृथिव्यायेकैकमात्रव्यतिरेकविषयत्वेनाष्टद्रव्यानाश्रयत्वं केन ग्राह्यम् , तथात्रापि गौरवाऽऽख्यतर्कसहकृतसामान्यतोष्टादितराप्रवृत्तिनिमित्तकत्वे निश्चिते पञ्चायतिरेकि स्यात् , कल्प्यमानान्तरसहकारित्वापेक्षया क्लृप्तप्रमाणसहकारित्वस्य युक्तत्वात् // मैवम् / इच्छायामेकैकबाधसहकृतापरापरबाधकैरेव तावद्विशिष्टवैशिष्ट्यरूपाष्टद्रव्यानाश्रयत्वप. रिच्छेदात् , न तु सामान्यतोदृष्टेन, विशेषणद्वयोपस्थित्यैव विशिष्टवैशिष्ट्यज्ञाननिर्वाहात् , तानवतारदशायां तस्य तदपरिच्छेदकत्वाचेति सङ्केपः // प्रकाशिका। उपस्थितं गोसादृश्यादित्यर्थः / मानान्तरमन्तरेणेति / सामान्यत इतराप्रवृत्तिनिमित्तकत्वज्ञानाभावेन व्यतिरेकिणोऽप्रवृत्तेरिति भावः / ननु सामान्यतोदृष्टादेवेतराप्रवृत्तिनिमित्तिकत्वसिद्धि. रित्यदूषितमेवेत्यत आह अनुमितेरिति / तथात्रापोति / उक्तान्यथानुपपत्याऽनुमितेापकतावच्छेदकमात्रप्रकारकत्वमसिद्धमेवेत्याशयः / व्यतिरेकोति / पूर्वोक्तव्यतिरेकीत्यर्थः / अनुमितेव्योपकतावच्छेदकप्रकारकत्वनियमभङ्गो यत्रानुपपत्या स्वीकरणीयः, तमेव खण्डयति इच्छायामिति / इदमुपलक्षणम् पृथिव्यनाश्रितत्वादिकं प्रत्येकमेव हेतुविशेषणमिति द्रष्टव्यम् / तर्कानवतारेति / सामान्यतोष्टस्येतराप्रवृत्तिनिमित्तकत्वापरिच्छेदकत्वादित्यर्थः / तथा च मकरन्दः / / त्यप्ययुक्तमिति / तथाऽत्रापीति / अनुमितेापकतावच्छेदकप्रकारकत्वनियमोऽसिद्ध एवेत्याशयः। व्यतिरेकीति / पूर्वोक्तव्यतिरेकीत्यर्थः / तस्य सामान्यतोदृष्टस्य / तदपरिच्छेदकत्वात् इतराप्रवृत्तिनिमित्तकत्वापरिच्छेदकत्वात् , तर्कसहकारेणैव तस्य तथात्वाभ्युपगमादिति भावः / यद्यपि तद्दशायां नोपमानस्याप्यवतारः, तथापि तर्कानवतारे सामान्यतोदृष्टस्य किञ्चित्प्रवृत्तिनिमित्तकत्वमात्रमनुमाय पर्य्यवसितत्वादने पुनस्तर्कावतारे उग्मानप्रवृत्तिरप्रत्यूहैवेति भावः / अत्रेदमालोचनीयम्-तृप्त प्रमाणभावस्य सामान्यतोष्टस्य पुनरनुसन्धानमात्रं कल्पयितुमहँ लाघवात् , न तु मानान्तरं, गौरवात् / न च पुनरनुसन्धीयमानादपि तर्कसहकृतादपि तस्मान्नेतराप्रवृतिनिमित्तकत्व. परिच्छेदोऽनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमादिति वाच्यम् / लाघवगौरवसहकारेण व्यापकतानवच्छेदकस्यापि भानाभ्युपगमात् , अत एवेश्वरानुमाने क्षित्यादावेकमात्रकर्तृकत्वानुमितिः, अस्तु वा तथा, तथापि इतरद् न प्रवृत्तिनिमित्तं गुरुत्वादिति मानान्तरादितराप्रवृत्तिनिमित्तकत्वनिश्चये उक्तव्यतिरेकिणा गवयत्वप्रवृत्तिनिमित्तकत्वसिद्धिरविकलैव / न च साध्याप्रसिद्धर्न तत्सिद्धिरिति वाच्यम् / तथा सत्युपमानादपि तद्विशिष्टबुद्धधनुदयापत्तेः, विशेषणज्ञानं विना तदभावात् / टिप्पणी। तर्कानवतारदशायां तस्य तदपरिच्छेदकत्वाञ्चेति / तदानीम्पर्य्यवसितस्य तस्य प्रत्य४६ न्या० कु०