________________ 384 व्याख्यात्रयोपेतप्रकाशबोधनीयुते व्यायकुसुमाअलौ [ 12 कारिकाव्याख्यायां __ ननु लिङ्गमात्रे प्रश्नो भविष्यति- कीदृक् किं लिङ्गमिति / न / न ह्यनेन लिङ्गमविज्ञाय गवयशब्दस्य वाचकत्वं कस्यचिद्वाच्यत्वं चाऽवगतं, येन तदर्थः प्रश्नः, स्यात् / प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नो, येन निमित्तन गवयशब्दः प्रवर्तते तस्य किं लिङ्गमिति चेन्न। न हि तवश्यमनुमेयमेवेत्यनेन निश्चितं, यत इदं स्यात् / ज्ञानोपायमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेन्न / अविशेषादिन्द्रियसन्निकर्षमध्युत्तरयेत् / पर्यायान्तरं वा, यथा गवयमहं कथं जानीयामिति प्रश्ने, वनं गतो द्रक्ष्यसीति / यथा वा का पिक इत्यत्र, कोकिल इति / तस्मानिमित्तभेदप्रश्न एवायं, गधयो गवयपदवाच्यः कीदृक केन निमित्तेनेति युक्तमुत्पश्यामः // बोधनी। केन लिजन गवयपदार्थ जानीम-इति तदेतदाह ननु इति / न इति / जिशासितविषयो हि प्रश्नः, ययनेन प्रष्ट्रा गवयपदप्रवृत्तिनिमित्तं ज्ञात्वा तस्य लिङ्गमात्रमेवाविज्ञातं जिज्ञास्येत तदा हि तदेव पृष्टं भवेदस्य तु प्रवृत्तिनिमित्तमेवावगतं जिज्ञासमानस्य तदेव प्रष्टं युक्तमिति / तर्हि प्रवृत्तिनिमित्तमेव जिज्ञासमानस्य तत्र ज्ञानोत्पादाय लिमप्रश्नो भविष्यतीत्याह * प्रवृत्तिनिमित्तति / न इति / स्पष्टम् / ननु ज्ञानोपायमात्र जिज्ञासुरप्राक्षीदितरस्तु लिङ्गस्य तदुपायत्वात् 'तेनैवोपायेनोदतीतरदित्याह ज्ञानोपायेति / तर्हि ज्ञानोपायत्वाविशेषात्प्रत्यक्षं पर्यायान्तरं वोत्तरयेदित्याह न इति / न हि तलिङ्गकवेद्यमिति भावः / गत्यन्तराभावादयमेव प्रश्नवाक्यार्थ इत्याह तस्मात् इति / तर्हि गवयत्वमेवोपदिशेत् न गोसादृश्यं तत्राह तस्य च इति / किमनेनोपमानस्य सिध्यतीत्यत्राह तच्च इति / तद्वाक्यं सादृश्यात्मकमुपलक्षणं वोपमानसामग्री वाक्यार्थस्मरणसह प्रकाशः। न ह्यनेनेति / अज्ञातसामान्यस्य विशेषजिज्ञासा न युक्तेति भावः। उपसंहरति / तस्मादिति / ननु यदि निमित्तप्रश्नस्तत् किं तदेव नोत्तरयप्तीत्यत आह तस्य चेति / व्युत्पाद्यस्याप्रती. तगवयत्वजातिकत्वादिति भावः / तच्चेति / सामग्न्युत्थानानुकूलमित्यर्थः // ननु सादृश्यप्रवृत्तिनिमित्ततायां गौरवानवतारे नोपमानस्याऽप्यवतारः, तथा च तक्र्केणेतरा. प्रवृत्तिनिमित्तकत्वे निश्चिते गवयपदं गवयत्वप्रवृत्तिनिमित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् , यन्नैवं तन्नैवमिति चेन्न / तर्कस्यानिधायकत्वात् / न चायं तर्को व्याप्तिमूलको येन विपर्ययानुमानादर्थसिद्धिः स्यात् / न च गवयपदं किञ्चित्प्रवृत्तिनिमित्तकमिति सामान्यतो {ष्टमेव तर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकतां परिच्छिनत्ति, न तु मानान्तरं कल्पयित्वा तर्कः सहकारो कल्प्यते इति वाच्यम् / इदं सप्रवृत्तिनिमित्तमन्यच्च न प्रवृत्तिनिमित्तमिति वुद्धावपि प्रकाशिका। चकत्वस्य शब्दादेव प्रतीतेरिति भावः / अज्ञातेति / धम्मितावच्छेदकविशिष्टधर्म्यज्ञानेन तद्धर्म: विशेषजिज्ञासेत्यर्थः / तथा च गवयपदवाच्यप्रतीतौ तल्लिङ्गमपि प्रतीतमेव प्रकारान्तरेण तदप्रतीतेरिति लिङ्गस्य तदप्रतीतत्वादेव न तत्र प्रश्नो गवयपदवाच्याज्ञाने च धर्मप्रतीतिरेव न तत्र प्रश्न इत्यर्थः। यद्वा गवयादवाच्यस्य किञ्चिलिझमस्तीति यदा न ज्ञानं तदा कथं निङ्गविशेषजिज्ञासा अज्ञातसामान्यस्य विशेषजिज्ञासाविरहादित्यर्थः / अत्र च पोऽविज्ञायेत्यस्य मूलस्य सामान्यतो ज्ञास्वेत्यर्थः / अयमिति / लाघवाख्य इत्यर्थः। अन्यच्च न प्रवृत्तनिमित्तमिति / विशेषत मकरन्दः / स्येत्यर्थः / धर्मिमात्रवाच्यत्वस्य शब्दादेव प्रतीतेरिति भावः / अज्ञातेति। गवयपदवाच्यस्य प्रतीतो स किंलिङ्गक इति प्रश्नः, तत्प्रतीतिश्च तस्य लिङ्गादेव जातेति लिङ्गस्य ज्ञातत्वान्न तत्र प्रश्न इति भावः / अयमिति / लाघवाख्य इत्यर्थः / अनुमितेरिति / तथा चेतराप्रवृत्तिनिमित्तकतां परिच्छिनत्ती