________________ तृतीयस्तवके] उपमानस्य प्रमाणान्तरत्वखनम् / . . 383 च यद्योगप्राथम्याम्यां तस्यैव व्याप्यत्वं, ततः किं तेन 1 प्रकृतानुपयोगात्। अथ किंलक्षणकोऽसाविति प्रश्नार्थः / तदा व्यतिरेकपरं स्यात् , लक्षणस्य तथाभावात् / तथा च गोसदृशो गवय इत्यस्यार्थो यो गवय इति 'न व्यवहियते नासौ गोसदृश इति / एवञ्च प्रयोक्तव्यम्-अयमसौ गवय इति व्यवहर्त्तव्यः गोसदशत्वात् , यस्तु न तथा, नासौ गोसदृशो यथा हस्ती / न च हस्त्याऽऽदीनां विपक्षत्वे प्रमाणमस्ति, सर्वाप्रयोगस्य दुरवधारणत्वात् , कतिपयाव्यवहारस्य चानकान्तिकत्वात् // बोधनी। गोसदृशः स गवयपदवाच्य इति, ततः श्रोतुरनुमानप्रवृत्ते वकाशः प्रमाणान्तरस्य इति / न इति / व्याप्यव्यापकयोर्विपर्ययादिति / तमेवाह न हि इति / अस्तु तर्हि यो गवयपदार्थः स गोसदृश इति वाक्यार्थः, तत्राह ततः किम् इति / न हि गवयपदार्थ जिज्ञासमानस्य व्याप्यत्वेन तस्य निर्देश उपयुज्यत इति। अथ इति / असौ-गवयपदार्थवाच्य इति / तदा इति / लक्षणप्रश्ने सत्युत्तरवाक्यं केवलव्यतिरेकिहेतुप्रतिपादनपरं स्यात् लक्षणस्य केवलव्यतिरेकित्वात् / तदुक्तं तार्किकरक्षायां-"असा. धारणधर्मत्वात् व्यतिरेक्येव लक्षणम्' इति / विवृतश्च सारसंग्रहेऽस्यार्थ इति / व्यतिरेकिपरत्वे चातिदेशवाक्यस्यायमर्थः स्यादित्याह तथा च इति / एवं वाक्यावगतव्यतिरेकव्याप्तिना च नाग. रिकेण लक्षणशानार्थमेवमनुमानप्रयोगः कार्य इत्याह एवं च इति / तथा नाम प्रयुक्तम् इत्यत्राह न च इति / येन विपक्षाव्यतिरेकः सिध्यदिति / हस्त्यादिषु गवयपदाप्रयोगस्तेषां विपक्षत्वे प्रमाणमित्याशझ्याह सर्वेति / मा भूत्तर्हि व्यतिरेकिरूपलिङ्गविशेषप्रश्नः, सामान्यप्रश्नस्तु भविष्यति प्रकाशः। न हीति // येन सादृश्यस्य व्याप्यत्वं स्यादिति शेषः / यदि गोसशः किंशब्दवाच्य इति पृच्छेत् , तदा तमुद्दिश्य गवयशब्दवाच्य इति विदध्यादपि तु कीदृग्गवय इति पृष्टः, तथा च यो गवयशब्दवाच्यः स गोसदृश इति उत्तरयतो विपरीत एव व्याप्यव्यापकभाव इत्यर्थः / यद्योगेति / व्याप्यं यच्छब्देन पूर्वमुद्दिश्यते यथा यो धूमवान् सोऽग्निमानित्यर्थः // * यद्योगप्राथम्याभावेऽपि गन्धवती पृथिवीत्यादिवद्यतिरेकिरूपलक्षणपरत्वं स्यादित्याहअथेति // हस्त्यादीनां गवयव्यवहाराविषयत्वं तत्राप्रयोगेण निश्चेयं, तत्राह सर्वति। न चैवं व्यवहारसाध्ये सर्वत्र लक्षणोच्छेदः स्यादिति वाच्यम् / यथा पृथिवीत्वेन पृथिवीपदवाच्यत्वं साध्यते, तथा गवयत्वेन निमित्तेन गवयपदवाच्यत्वस्य साधयितुमशक्यत्वात् , गवयत्वस्यातिदेशवाक्यादप्रतीतेः। प्रकाशिका। प्रमेयपदे व्यभिचार इति धम्मिवाचकत्वमात्रं साध्यम् , तथा च तत्सिद्धावपि न विशिष्टवाचकरवसिद्धिरित्यर्थः / विदध्यादिति / तथा सति च विधेयस्य गवयशब्दवाच्यत्वस्य व्यापकता प्रतीये. तेति भावः। कीदृग गवय इति / गवयपदवाच्यः कीदृगित्यर्थः / तथा चेति / न तु यो गोसदृशः स गवयपदवाच्य इत्युत्तरम् येन यद्योगादिना गोसादृश्यस्य व्याप्यत्वं प्रतीयेतेति भावः। पृथिवीवेनेति / पृथिवीत्वनिमित्तकपथिवीपदवाच्यत्वेनेत्यर्थः। एवमग्रे गवयत्वेनेत्यत्रापि धम्मिमात्रवाव्यापकत्वं प्रतीयते इति भावः / कीदृग् गवय इति / गवयपदाच्यः कीगित्यर्थः / गवयत्वविशिष्टत्ववाच्यत्वमेवमपि न सिद्धथतीत्यपि बोध्यम् / तथा चेति / न तु यो गोसदृशः स गवयपदवाच्य इत्युत्तरं, येन गोसादृश्यस्य वाच्यत्वं यद्योगादिना लभ्येतेति भावः / पृथिवीत्वेनेति / पृथिवीरवनिमित्तकपृथिवीपदवाच्यत्वमित्यर्थः / गधयत्वेनेति / गवयत्वनिमित्तकगवयपदवाच्यत्व मकरन्दः।