________________ 2 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 12 कारिकाव्याख्यायां वृत्यन्तरे तद्विषयतया प्रयोगः सङ्गतिमविज्ञाय ज्ञातुं शक्यते / सामानाधिकरण्यादिति चेन्न / पिण्डमात्र सिद्धसाधनात् , निमित्ते चासिद्धेः, सादृश्यस्यानिमित्तस्वादित्युक्तम् // ननु व्याप्तिपरमिदं वाक्यं स्यात्-यो गोसदृशः स गवयपदार्थ-इति, तथा च वाक्यादवगतप्रतिबन्धोऽनुमिनुयात्-अयमसौ गवयो गोसदृशत्वादतिदेशवाक्यावगतपिण्डवदिति / न / विपर्ययात् , न हि गोसदृशं बुद्धावारोप्यानेन पृष्टः स किशब्दवाच्य इति, किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदगिति / तथा बोधनी। तदसत्त्वविशेषिताच च प्रयोगात्सतिग्रह इतीतरेतराश्रयप्रसङ्ग इति / अस्तु तर्हि गोसदृशपदेन सामानाधिकरण्यात् गवयपदत्य गोसद शविषयत्वसिद्धेगवयत्वस्य तत्सदृशत्वात्तद्वाचकत्वसिद्धिरित्याह सामानाधिकरण्यात् इति। न इति / सामानाधिकरण्येन गोसदृशपिण्डमात्रविषयताप्रयोगः स्यात् , लेन च तन्मात्रवाचकत्वमेव सिध्येत् नाभिमतं गवयत्ववाचकत्वमिति / न च निमित्तेन च गवयत्वेन सामानाधिकरण्यं सिद्धं गवयत्वस्याप्रतीतेः, प्रतीतेन तु सादृश्येन सामानाधिकरण्यसिद्धावपि नास्त्युपयोगस्तस्यानिमित्तत्वादित्याह निमित्त इति / नन्विति / गवयपदवाच्यं पृष्टः साक्षात्तत्प्रतिपादनाशक्तेः तदनुमानसामग्री व्याप्तिमेवावष्टे यो _ प्रकाशः। अस्मपितृचरणास्तु, सर्वत्रान्वयानुपपत्तिरेव लक्षणाबीजम् / यष्टीः प्रवेशयेत्यत्रापि प्रकरणादिना भोजनादिप्रयोजनकप्रवेशनस्य ज्ञानात् तादृशे च प्रवेशने यष्ट यारेरनन्वयात्, तात्पर्यग्रहार्थमपि प्रकरणादेरवश्योपजीव्यत्वादित्याहुः / __मानान्तरमिति / ततः प्रमाणसहकारी, न च तस्यां दशायां मानान्तरमस्तीत्युपमानं तक्कोपकार्यमास्थेयमित्यर्थः। प्रसिद्धरिति / वस्तुतो गवयव्यक्तिवाचकत्वसिद्धावपि गवयत्वस्य प्रवृत्तिनिमित्तत्वं न सिद्धयतीति भावः / गवयसामानाधिकरण्येन गोसदृशो गवय इतिवाक्यप्रतिपादनाद्गवयवाचकत्वं गवयपदस्य ज्ञायते इत्याह सामानाधिकरण्यादिति / गवयसामानाधिकरण्येनेत्यत्र यदि पिण्डसामानाधिकरण्यं विवक्षितं. तदा पिण्डवाचकत्वसिद्धावपि गवयत्वविशिष्टवाच्यत्वासिद्धे. नोपमानपरिच्छेयस्य मानान्तरात् प्रतीतिरित्याह पिण्डेति / गवयत्वजातिसामानाधिकरण्यं तु मानाभावादसिद्धमित्याह निमित्ते चेति // . प्रकाशिका। सर्वत्रान्वयेति / यद्यप्येवमपि प्रकृते लक्षणा स्यादेव प्रकरणसाचियेनैव प्रवृत्तिनिमित्तविशिष्टपरस्वनिश्चयात् तस्य धर्मिमात्रेऽनन्वयात् , तथापि तात्पर्यानुपपत्या लक्षणेत्येतावन्निराकरणपरोऽयं प्रन्थः / बाधकन्तु लक्षणायां ताशप्रकरणायभावेऽपि गवयत्वप्रवृत्तिनिमित्तत्वपरिच्छेद इत्येवेति हमतव्यम् / असिद्धिरिति, मूलं विशिष्टस्य हेतोरिति शेषः / अत एवाप्रे विशेष्यसिद्धये सामानाधिकरण्यादिति मूलम् / वस्तुत इति / गवयत्वविशिष्टवाचकत्वे च साध्ये साध्याप्रसिद्विरिति भावः / गवयवाचकत्वमिति / गवये प्रयुज्यमानत्वमित्यर्थः / एवमप्रेऽपि वाचकत्वपदं प्रयुज्यमानत्वपरम् / केचित्तु सामानाधिकरण्यादिति मूलं न पूर्वहेतोर्विशेष्यसिद्धिपरं किन्तु गवयपदस्य गवयत्ववाचकत्वे साध्ये हेत्वन्तरोपदर्शनपरमेवेति यथाश्रुतप्रकाश एव सम्यगित्याहुः / पिण्ड. सामानाधिकरण्यमिति / ताशहेतौ गवयत्वविशिष्टवाचकत्वे साध्ये द्रव्यं प्रमेयमिति वाक्ये मकरन्दः। भावः / वाक्येऽपि लक्षणेतिमतेन पदमिह वाक्यमेवोक्तमित्यन्ये / शक्यसम्बन्धमाह गोसादृश्यसमानाधिकरणमिति / सर्वत्रान्वयेति / ययप्येवमपि प्रकृते लक्षणा स्यादेव, उक्तप्रकरणादिना प्रवृत्तिनिमित्तवाच्यत्वज्ञानात् , तस्य च धर्मिमात्रेऽनन्वयात् , तथापि तात्पर्य्यानुपपत्या लक्षणेति परोक्तनिराकरणमात्रपरोऽयं ग्रन्थ इति प्रतिभाति / यदीति / उद्देश्यस्य व्याप्यत्वं विधेयस्य मकर