________________ तृतीयस्तवके ] उपमानस्य प्रमाणन्तरत्वखनम् / घोष इतिवत् पदाऽर्था एवान्वयायोग्याः, येन प्रमाणान्तरोपनीतेनाऽन्वयः स्यात् / प्रतीतवाक्यार्थबलायातोऽप्यर्थो यदि वाक्यस्यैव, दिवाभोजननिषेधवाक्यस्यापि रात्रिभोजनमर्थः स्यात् / तस्माद्यथा गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयोगादिति सामान्यतो निश्चितेऽपि विशेषे मानान्तरापेक्षा, तथा गोसदृशस्य गवयशब्दो वाचक इति वाक्यानिश्चितेऽपि सामान्ये विशेषवाचकत्वेऽस्य मानान्तरमनुसरणीयमिति // अस्त्वनुमानम्-तथाहि-गवयशब्दो गवयस्य वाचकः, असति वृत्त्यन्तरेऽभियुक्तैस्तत्र प्रयुज्यमानत्वात् , गवि गोशब्दवदिति-चेन्न, प्रसिद्धः / न ह्यसति बोधनी। वगत्युत्तरकालं तदन्वयमपि प्रतिपादयेत् तदा वाक्यभेदः स्यादित्याह भन्यथा इति। गमायां घोष इत्यत्र मुख्यार्थस्यान्वयायोग्यत्वात्तीरलक्षणयैवान्वयप्रतीतिः, नैवमत्र सामान्यस्यवान्वययोग्यत्वा. दिति विशेष इत्याह न च इति / ननु पर्यवस्यतां नाम वाक्यं, तथापि तत्प्रतिपादितार्थंबलायत्तः समयपरिच्छेदस्तस्यैव वाक्यस्यार्थः स्यादित्यत्राह अथ इति / यथा हि भवतः साधुत्वादेव गव. यपदस्य सामान्यतोऽर्थवत्वे सिद्धेऽपि विशेषज्ञानार्थं वाक्यार्थापेक्षा तथा गोसशस्य वाचक इति वाक्यावगतेऽपि तद्विशेषार्थ मानान्तरमित्युपसंहरति तस्मात्-इति / ____ अस्तु तर्खनुमानं प्रमाणं संज्ञासंज्ञिसम्बन्धे इत्याह अस्तु इति / नासिद्धेरिति / विशेष. णासिद्धिमेवाह न हि इति / संगतिप्रहे हि सति मुख्यवृत्त्यवगमेन वृत्त्यन्तरासत्त्वं ज्ञातुं शक्यते, प्रकाशः। तेऽपि वाक्ये तत्तदाकांक्षायां तत्तद्वाक्याऽर्थज्ञानं स्यात्तदा वाक्यमेद इत्यर्थः। यत्र तु लक्षणा, तत्र नैवं वाक्यपर्यवसानमित्याह न चेति। ननु प्रतीत्यपर्यवसानाभावेऽपि प्रतीताऽपर्यवसानाद् येन विनाऽनुपपत्तिः, सोऽपि वाक्यार्थः स्यादित्याह प्रतीतेति / यदि कस्पनागौरवाद् गोसादृश्यस्य प्रवृत्तिनिमित्तत्वानुपपत्तौ गवयवस्य तथात्वकल्पनाऽपि वाक्यार्थः स्यात्, तदा दिवाऽभोजिनः पीनत्वानुपपत्त्या रात्रिभोजनकस्पनापि वाक्याऽर्थः स्यादित्यर्थः / तस्मादिति / ननु सामानाधिकरग्यमात्रेणान्वयोपपत्तावपि तात्पर्यानुपपत्त्या यष्टीः प्रवेशयेति. वल्लक्षणाऽस्तु, गवयपदव्युत्पित्सुं प्रति व्युत्पत्तो हि वाक्यमाप्तेनोक्तम् , तच न प्रवृत्तिनिमित्तप्रतिपादन विना, न च गोसादृश्यं तथेति तात्पर्यतो गोसदृशपदेन गोसादृश्यसमानाधिकरणं गवयत्व. मुपलक्षितमिति कम्प्यते / न च यथा धूमोऽस्तीत्यत्राग्नी तात्पर्यमनुमानेन निर्वहतीति न लक्षणा, तथाऽत्र मानान्तरमस्ति, येन तन्निर्वाह्यम् / उपमानस्यासिद्धेः / न च वाक्ये न लक्षणा, तस्या वृत्तित्वेन शक्तिवच्छब्दधर्मत्वादिति वाच्यम् / एकपद एव लक्षणा, पदान्तरं तनियामकमित्युपगमात् / न च गोसदृशपदस्य गवयत्वे साक्षात्तात्पर्यग्रह एव लक्षणा, स च मानाभावानास्ति, अन्यथा धूमोऽ. स्तीत्यत्रापि सा स्यादिति वाच्यम् / उपस्थापकान्तराभावे सति तत्तात्पर्यस्यैव साक्षात्तात्पर्यरूपत्वात् / .. अत्राहुः / यत्र प्रवृत्तिनिमित्तविशेषषोधने न तात्पर्य, किन्तु यो गोसदृशः स गवयशब्दवाच्य इति स्वरूपाख्यानमात्रं तत्राप्युक्तसामप्रीतः प्रवृत्तिनिमित्तविशेषपरिच्छेदः / न च तत्र तात्पर्य, यदनुपत्तिर्लक्षणाबीजं स्यात् / यत्र वा करभनिन्दातात्पर्यकं धिक्करभमित्यादिकं, तत्रापि ताशं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयकरभशब्दवाच्य इति धीः / न च प्रवृत्तिनिमित्तविशेषे तत्र तात्पर्यम् / प्रकाशिका। मात्रमित्येवमित्याकार एवाने व्यक्तम् / शक्यसम्बन्धमाह गोसाडश्यसमानाधिकरणमिति / मकरन्दः। वाक्यं, तत्र च न लक्षणा तस्याः पदुधर्मत्वात् , तथाप्येकपद एव लक्षणा पदान्तरश्च नियामकमिति