________________ तृतीयस्तबके ] उपमानस्य प्रमाणान्तरत्वखनम् / सांश्यस्यानिमित्तत्वानिमित्तस्याप्रतीतितः॥ . समयो दुर्ग्रहः पूर्व शब्देनानुमयाऽपि वा // 11 // __ न हि गवयशब्दस्य सादृश्यं प्रवृत्तिनिमित्तम् , अप्रतीतगूनामव्यवहारप्रसङ्गात् / न चोभयमपि निमित्तम् , स्वयं प्रतीतसमयसंक्रान्तयेऽतिदेशवाक्यप्रयो गानुपपत्तेः / गवयत्वे ह्ययं व्युत्पन्नो वृद्धव्यवहारान्न सादृश्ये / कथमेतन्निर्धारणीयमिति चेत् / वस्तुगतिस्तावदियं, तदापाततः सन्देहेऽपि न फलसिद्धिः / गन्धवत्त्वमिव पृथिवीत्वस्य, गोसादृश्यं गवयशब्दप्रवृत्तिनिमित्तस्योपलक्षणमिदमेव वा निमित्तमित्यनिर्धारणात् // 11 // स्यादेतत् / पूर्व निमित्तानुपलब्धेर्न फलसिद्धिरिदानीन्तु तस्मिन्नपलब्धे तदेव बोधनी। सादृश्यस्य इति / प्रतीते हि प्रवृत्तिनिमित्त संबन्धमहस्तदत्र वाक्ये शक्यप्रहः प्रतीतं साहस्यं च निमित्तं, निमित्तितु गवयत्वं न प्रतीतं, तस्मान्न तावद्वाक्यमात्रेण सम्बन्धप्रहः, नाप्यनुमानेन तद्वाचकत्वज्ञानमन्तरेणासति वृत्त्यन्तर इति विशेषणस्यासिद्धेरिति / नहि इति / यदि गोसादृश्यं निमित्तं स्यात् तदा नित्यवनवासिनां गवयपदेन व्यवहारो न स्यात् , तेषां गोरप्रतीतो तत्प्रतियोगिकस्य साद श्यस्य गवयेऽवगन्तुमशक्तेरिति / तर्हि तेषां गवयत्वं नागरिकाणां तु गोसादृश्यमित्युभयं विकल्पेन निमित्तमस्स्वित्यत आह न चोभयम् इति / तदा हि कथमारण्यकस्तेनाप्रतोतं गोसादृश्यविषय समयं परस्मै प्रतिपादयितुमतिदेशवाक्यं प्रयुञ्जीतेति / कथमेतत् इति / गवयत्व एव न सादृश्येऽपीत्येतत्तत्राप्रतीतगुत्वेन तस्य सादृश्ये व्युत्पत्तिन संभवतीत्युत्तरमुक्तप्रायमेवेति मन्वानोऽन्यथा परिहरति वस्तुगतिरिति / ननु वस्तुगतिरित्येतावता न तत्प्रतिपादनमन्तरेण निर्धारणा सिध्यतीत्यत्राह तदापाततः इति / तत्रापाततः प्रतिपानं यावन्निमित्तसंदेहेऽपि न पराभिमतस्य बाक्यादेव समयपरिच्छेद इत्यस्य फलस्य सिद्धिरिति कुत इत्यत आह गन्धवत्वम् इति / यथा हि गन्धवती पृथिवीत्यत्र गन्धवत्वं पृथिवीशब्दप्रवृत्ति निमित्तस्य पृथिवीत्वस्योपलक्षणं, तथा गोसादृश्यं निमित्तस्योपलक्षणम् / यद्वा इदं सादृश्यमेव निमित्तमिति निर्धारणाधीनध वाक्यादेव संबन्धग्रह इति न पराभिमतसिद्धिरिति // 11 // स्यादेतत् इति / मा भूत् सादृश्यं निमित्तं मा च भूनिमित्तस्य गवयत्वस्याप्रतीतेः पूर्व सम प्रकाशः। अप्रतीतेति / गवयत्वस्य जातितया लघुत्वात्, सादृश्यस्य चोपाधितया गुरुत्वादिति भावः / उभयं समुच्चितं निमित्तं विकल्पो वा / आयोऽप्रतीतगूनामव्यवहारापातादेव निरस्तः / द्वितीये स्वाह स्वयमिति / स्वयं यत्र प्रवृत्तिनिमित्ते व्युत्पत्तिर्गृहीता, तत्र परस्यापि सा भवत्पिति धियाऽत्रारण्यको वाक्यं प्रयुक्ते, तेन च सा गवयत्व एव ज्ञातेति तदेव प्रवृत्तिनिमित्तं बोधयेदित्यर्थः / वस्तुगतिरिति / तर्कादिपुरस्कारादित्यर्थः / सन्देहेऽपीति / गोसादृश्य प्रवृत्तिनिमित्तं तदुपलक्षितं वा धर्मान्तरमिति संशये सति न प्रवृत्तिनिमित्तविशेषनिश्चय इत्यर्थः / सन्देहाकारमाह गन्धवत्वमिवेति // 11 // पूर्वमिति / गवयपिण्डदर्शनादित्यर्थः / फलसिद्धिः प्रवृत्तिनिमित्तविशेषनिश्चय इत्यर्थः / इदा प्रकाशिका। पूर्वस्वस्य कितिनिरूप्यत्वमित्यत आह गवयपिण्डेति। लक्षणयेति वाक्य एव लक्षणेति तर्कादीति / लाघवपुरस्कारादित्यर्थः //