________________ 378 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 10 कारिकाव्याख्यायां अस्ति तर्हि सादृश्यादिज्ञानकाले विस्फारितस्य चक्षुषो व्यापारः। न / उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमतः कालान्तरेऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्त / // 10 // ननु च वाक्यादेवानेन समयः परिच्छिन्नः-गोसदृशस्य गवयशब्दः संक्षेति, केवलमिदानी प्रत्यभिजानात्ययमसाविति / प्रयोगाद्वाऽनुमितः यो यत्रासति वृत्त्यन्तरे वृद्धः प्रयुज्यते स तस्य वावको यथा गोशब्द एव गोः, प्रयुज्यते चायं गोसदृशे, इति किमुपमानेनेति / न बोधनी। कारणमिन्द्रियादि तदनुवृत्तौ जायमानं ज्ञानं तस्य प्रमाणस्य फलं भवति, तन्निवृत्तौ तु ततो बहिर्भवतीति / यदीन्द्रियव्यापारानुवृत्तावुत्पद्यमानं प्रत्यक्षफलं तर्हि समयं परिच्छिन्दतःसादृश्यहानस्य कालेऽप्यस्ति चक्षुर्व्यापार इति समयपरिच्छेदोऽपि प्रत्यक्षफलं स्यादित्याह अस्ति तर्हि इति / नइति / न खलु तत्र सन्नपि चक्षुर्व्यापारः कारणं व्यभिचाराद्-भवति हि वाक्यार्थस्मरणाभावेन केवलं सादृश्यविशिष्टतया पिण्डमनुभूतवतः पश्चादुपरतेन्द्रियव्यापारस्यैव वाक्यार्थस्मरणे. सति गोसदृशपिण्डस्मरणादेव समयपरिच्छेदः, यो गवयपदवाच्यः स गोसदृश इति // 10 // ___अत्र जरन्नयायिक आह ननु इति / नगरस्थेनैव वाक्यमात्रात्समयः परिच्छिन्नः, वनस्थेन तु केवलं प्रत्यभिज्ञायते सोऽयं गवयशब्दवाच्य इति, तेन शब्दप्रमाणक एव समय इति / आधुनिकस्त्वाह प्रयोगादा इति / गोसदृशो गवय इत्यत्र गोसदृशे वस्तुनि गवयशब्दप्रयोगमुपलभ्य तस्मादेव हेतो!सदृशस्य गवयवाच्यत्वमनुमीयत इति / तदेव दर्शयति यो यत्र इति / गौण. लाक्षणिकप्रयोगे व्यभिचारो मा भूदित्युक्तं असति वृत्यन्तरे इति / पक्षद्वयमप्युपसंहरति ततः किम्(१ इति। यसन्निकर्षादेरवस्थितिस्तत्र तत्कलस्यावान्तरव्यापारता, यत्र तु तस्यानवस्थितिस्तत्र प्रमाणबहिर्भूतत्वमित्यर्थः / इममेव विशेषमादाय शहते अस्तीति // उक्तयुक्त्या परिहरति उपलब्धेति // इन्द्रियव्यापारोपरतो लिङ्गशब्दानुसन्धानस्येव वाक्यार्थस्मृतिसचिवस्य सादृश्यज्ञानस्यापि मानान्तरत्वादित्यर्थः // 10 // निमित्तम्-प्रवृत्तिनिमित्तम्(२) // समय इति // गवयत्वप्रवृत्तिनिमित्तकगवयपदवाच्योऽयं पिण्ड इत्याकार इत्यर्थः / गवयपदस्यागृहीतसमयत्वेनाप्रत्यायकत्वाद्गोसदृशपदस्य च सादृश्यमात्रबोध. कत्वादिति भावः॥ अयमसाविति // यो गोसदृशो धर्मी गवयशब्दवाच्यतयाऽवगतस्तं साक्षात्करोमीति प्रत्यभिजानातीत्यर्थः // प्रकाशिका। कर्मणि सङ्केतः पूर्ववाक्यादेव गृहीत इत्यत आह / गवयत्वप्रवृत्तनिमित्तकेति / ननु गवयपदादेव गवयत्वप्रतीतिरस्त्वित्यत आह गधयपदस्येति / तति लाघवेत्यर्थः // 10 // मकरन्दः। धर्मिणि समयस्य पूर्व गृहीतत्वादाह गवयत्वप्रवृत्तिनिमित्तकेति / ननु गवयपदादेव गव. यत्वं प्रतीत्य तद्विशिष्टे समयं प्रहीष्यत्यत आह गवयपदस्येति / प्रकाशः। (1) एतन्मतेनात्र तत्किमुपमानेति' मुले पाठो द्रष्टव्यः / (2) एतद्व्याख्यानमूलं 'निमित्त मिति पदं मूले नोपलभ्यत इति द्रष्टव्यम् /