________________ तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखनम् / 377 एवं प्राप्ते अभिधीयते. सम्बन्धस्य परिच्छेदः संज्ञायाः सज्ञिना सह // प्रत्यक्षादेरमाध्यत्वादुपमानफलं विदुः // 10 // यथा गौस्तथा गवय इति श्रुतातिदेशवाक्यस्य गोसदृशं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयमसौ गवयशब्दवाच्य इति भवति मतिः। सेयं न तावद् वाक्यमात्रफलम् , अनुपलब्धरिण्डस्यापि प्रसङ्गात् / नापि प्रत्यक्षफलम् , अश्रुतवाक्यस्यापि प्रसङ्गात्। नापि समाहारफलम् , वाक्यप्रत्यक्षयोर्मिन्नकालत्वात् / पाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बन्धेनापोन्द्रियेण तद्गतसाह. श्यानुपलम्मे समयपरिच्छेदासिद्धः। फलसमाहारे तु तदन्तर्भाव अनुमानादेरपि प्रत्यक्षवप्रसङ्गः। तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव 1, अन्तर्भावे वा कियती सीमा ? / तत्तदसाधारणेन्द्रियादिसाहित्यम् / बोधनी। अथ सिद्धान्ती प्रमाणान्तरत्वमङ्गीकृत्योपमानस्य नियतविषयत्वादबाधकत्वं वक्तुमुपक्रमते एवम्-इति / गवयादिसंज्ञायाः संज्ञिना गवयादिना सह संज्ञासंशिलक्षणस्य संबन्धस्य प्रमितिरुपमानस्यैव फलं प्रत्यभिज्ञानादिना तदसिद्धेरिति संज्ञासंज्ञिसंबन्धप्रतीतिस्तावदस्तीत्याह यथा गोरिति / तस्याः प्रत्यक्षादिभिरसाध्यत्वमाह सेयम्-इति / ननु नगरस्थस्य गवये नेन्द्रियसन्निकर्ष इति भिन्नकालतया तयोः स्वरूपतः समाहाराभावेऽपीन्द्रियसंनिकर्षसमये वाक्यतदर्थयोः स्मर्यमाणत्वेन समाहारसंभवात्तत्फलमेवास्त्वित्यत्राह वाक्यतदर्थयोरिति / न ह्यसत्येवेन्द्रियसंबन्धे उत्पयमानं प्रत्यक्षेऽन्तर्भवतीति / ननु साहश्योपलम्भे तावदुत्पयते, तच प्रत्यक्षफलं, तेन वाक्यफलस्य वाक्याथेस्मरणस्य प्रत्यक्षफलस्य सादृश्यज्ञानस्य च समाहारादुत्पयमानः समयपरिच्छेदस्तयोरेवान्तर्भवेदित्यत्राह फलसमाहार इति | अनुमेयादिज्ञानमपि हि प्रत्थक्षफललिझादिज्ञानहेतुकमेवेति / ननु यदि समयं परिच्छिन्दतः सादृश्यज्ञानस्य समाहारादुत्पद्यमानप्रत्यक्षफलस्यापि प्रत्यक्षेऽनन्तर्भावः, तर्हि विकस्पजनकं निविकल्पकमपि प्रत्यक्षे नान्तर्भवेत् अनुमानादिकमपि तथा स्यादिति नियमहेतुर्वाच्य इति पृच्छति तत्किम् इति / नियमहेतुमासाक्षात्कारादिरूपस्य यस्य ज्ञानविशेषस्य यदसाधारणं - उपमानफलं विदुरित्यनयोर्मध्ये, इतिरध्याहार्य इति सम्प्रदायविदः / ननु प्रत्येक व्यभिचारेऽपि समुदितयोस्तयोः फलं स्यादित्यत आह नापीति // नन्विन्द्रियसम्बद्धे गवये वाक्यतदर्थस्मृती च सत्यां प्रमाणसमाहारः स्यादित्यत आह वाक्येति // गवयगतगोसादृश्यावेदने समयपरिच्छेदो न भवत्येवेत्यर्थः / फलसमाहारमाशङ्कथ निराकरोति फलेति // प्रत्यक्षफलं हि प्रायशो लिङ्गपरामर्शोऽनुमितिकरणम् , श्रौत्रानुभवजनितपदज्ञानश्च वाक्यार्थप्रमायां प्रत्यक्षं स्यादित्यर्थः / ननु तत्कलस्य तदनन्तर्भावे विकल्पोऽप्यालोचनफलं प्रत्यक्षं न स्यात्, अन्तर्भावे वा लिङ्गसादृश्याध्यक्षयोः कः प्रद्वेष इति पृच्छति तत् किमिति // उत्तरं-तत्तदिति // यत्र व्यापारिण इन्द्रि प्रकाशिका। फलमित्यस्य प्रथमान्तत्वे विदुरिति कर्ताख्यातानुपपत्तिः, द्वितीयान्तत्वे च परिच्छेद इत्यनेन प्रथमान्तत्वेन सामानाधिकरण्यानुपपत्तिरत आह इतिरिति / तथा चेति विदुरित्यन्वये इतिकिमित्याकाक्षायां शुद्धप्रातिपदिकोपस्थितस्य परिच्छेदः, फलमित्यस्यान्वय इति भावः / सम्प्रदाय विद इति। इदमरुचिविभावनम् , तद्वीजन्तु फलमिति द्वितीयान्तमेव, किन्तदिति शुद्धप्रातिपदिकार्याकाक्षायां परिच्छेद इत्यर्थेति वाक्यार्थ एव वा कर्मेति // 10 // 48 न्या० कु० प्रकाशः।