________________ 376 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअखो [9 कारिकाव्याख्यायां स्यादेतत् / तद्धर्मा इह न सन्तीत्यवगते, अर्थादापद्यते इहाविद्यमानास्तत्र सन्तीति / न हि तद्विधर्मत्वमेतस्योपपद्यते, यद्येतद्विधर्माऽसौ न भवतीति चेत् / एवं तर्हि प्रकृतमध्यपत्तिरेव / न हि तत्सादृश्यविशिष्टरचं मतस्य प्रत्यक्षसिद्धमपि तस्यैतत्सादृश्यविशिष्टत्वं विनोपपद्यते // ___एतेन दृष्टासनिकृष्टप्रत्यभिज्ञानं व्याख्यातम् / तत्रापि तद्धर्मशालिरवं तस्य स्मरणाभिव्यक्तमनुपपद्यमानं तदिदन्तास्पदस्यैकतां व्यवस्थापयति / तस्मान्नोपमानमधिकमिति // // बोधनी। इतः पुरोवर्तिनः पिण्डाद्वथावृत्तधर्मयोगोऽपि वैधयं, तस्य च भावरवानाभावप्रमाणविषयतेति / ___ उत्तरार्ध व्याचष्टे स्यादेतत्-इति / व्यवहितपिण्डवत्तिधर्माभाववत्वं तत्राविद्यमानधर्मत्वं वा. संनिहितस्य तावत्प्रत्यक्षं, तच व्यवहितस्यैतद्धर्माभाववत्वेनात्राविषमानधर्मवत्त्वेन वा विनानुपपद्यमानं तत्कल्पयतीति न तदर्थं प्रमाणान्तरं मृग्यमिति / तर्हि सादृश्यमप्यर्थापत्तिरेव गमयेत् तुस्यन्यायत्वादित्याह एवं तर्हि-इति / एतेन इति / पूर्व मथुरायां पचायोजयिन्यां दृष्टस्य पुनः प्रत्यभिज्ञानसमये चाय संन्निकृष्टस्य यत्प्रत्यभिज्ञानं य एव मथुरायां दृष्टः स एवोज्जयिन्यां दृष्ट इति तदप्यर्थापत्तिरिति व्याख्यातं कथमिति तत्राह तत्रापि-इति / मथुरायां दृष्टपुरुषवर्तिस्वरवर्णादिशालित्वमुजयिनीदृष्टस्येदानी स्मयमाणमुभयत्रापि दृष्टस्यकतामन्तरेणानुपपयमानं तां कल्पयतीति / यद्वा, दृष्टस्यासंनिकृष्टस्य चैकगोचरं यत्प्रत्यभिज्ञानमयं स इति विपरीतप्रत्यभिज्ञानं तदप्यापत्तिरेव, तत्र संनिकृष्टस्य पिण्डस्य ये धर्मा उपलभ्यन्ते तद्धर्मशालित्वमसंनिदृष्टस्य स्मर्यमाणं तस्य संनिकृ. टस्य चकतामन्तरेणानुपश्यमानं तयोस्ता कल्पयति, इदन्ताश्रय एव तत्ताश्रय इति व्यवस्थापयति / न हि तत् प्रत्यक्षफलम् , अयं स इत्यसंनिकृष्टपर्यवसायित्वात्तेन चेन्द्रियसंनिकर्षाभावादिति / तस्मा. सामान्यरुपसादृश्यविषयत्वेऽप्युपमानस्य प्रमाणान्तरत्वाभावात् सिद्धं विषयानतिरेकादबाधकत्तमिति उपसंहरति तस्मात्-इति / // 9 // प्रकाशः। अथ गवयसारश्यं गवि गवयगतऋङ्गित्वादिधर्मवत्त्वं, तच्च गवये गोसादृश्ये भासमाने गवि भासत एव / सामान्यस्यैकत्वेनेन्द्रियसन्निकर्षादिति चेत् / न / तथापि गोविशेष्यकगवयगतक्षित्वादिक्षानस्य गोरसन्निकर्षेणेन्द्रियाजन्यत्वात् / मैवम् / अन्योन्यसदृशवस्तुप्रत्यक्षेण जानतो यो यत्सादृश्यप्रतियोगी स तत्सदृश इति सामा. न्यतो व्याप्तिज्ञाने सति गौर्गवयसदृशः तत्सादृश्यप्रतियोगित्वात् यथा भ्रात्रा भगिनी गवयगतसाहश्यप्रतियोगित्वञ्च गोर्गवयगतसादृश्यवित्तिवेयमेव / सादृश्ये गोः प्रतियोगित्वेनैव ज्ञानात् / यत्तद्वयां सामान्यतो व्याप्तिप्रहश्च विना गवयसदृशो गौरिति फलासिद्धेः / तादूप्येण व्याप्तिप्रहेऽस्माकं व्यति. रेकी; परेषामर्थापत्तिरित्यन्यदेतत् / / ननु प्रत्यभिशायमानस्य पूर्वापरकालमध्यावस्थानं नाध्यक्षगम्यम् / मध्ये इन्द्रियासम्बन्धात् / न लिङ्गादिगम्यम् / तदज्ञानेऽपि ज्ञानात् / तदिदमेवोपमानपरिच्छेद्यं स्यादित्यत आह / एतेनेति / साधर्म्यवैधर्म्ययोरापत्त्यन्तर्भावेनेत्यर्थः / दृष्टश्च तन्मध्येऽसनिकृष्टं चेति तत् तथा, तस्य प्रत्यभिज्ञानम् / तदेव म्फुटयति / तत्रापीति / तत्तेदन्ताविशिष्टामेदो मध्यासन्निकृष्टस्य .मध्यसत्त्वं विना अनुपपनो मध्यस्य सत्त्वं कस्पयतीत्यर्थः // 9 //