________________ तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखनम् / 375 भावात् / तस्मात् , तपिण्डस्मरणसहायमेतत्पिण्डवृत्तिसादृश्यज्ञानमेव तथाविधं शानमुत्पादयदुपमानं प्रमाणमिति / एतदपि नास्ति // साधर्म्यमिव वैधयं मानमेवं प्रसज्यते // अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् // 9 // यदा हि एतद्विसदृशोऽसौ इति प्रत्येति, तत्रापि तुल्यमेतत् / न हि तत्प्रत्यक्षमसनिकृष्टविषयत्वात् / न स्मरणम् / विशिष्टस्याननुभवात्। नोपमानमसादृश्यविषयत्वात् / नन्वेतद्धर्माभावविशिष्टस्वमेव तस्य वैधये, तथाभावगम्यमेवेष्यते / न च प्रकृतेऽपि तथाऽस्तु / सादृश्यस्य भावरूपत्वादिति चेन्न / इतो व्यावृत्तधर्मविशिष्टताया अपि वैधर्म्यरूपत्वात् / तस्य च भावरूपत्वात् // बोधनी। विषयं विज्ञानं जनयत्तदुपमानं नाम प्रमाणान्तरमास्थ्यमित्युपसंहरति तस्मात-इति / सदेतदतिप्रसङ्गापादनेन दूषयति एतदपि-इति / ___तयसंनिहितपिण्डवत्तिवैसादृश्यज्ञानं जनयत्तत्प्रतियोगिकसंनिहितपिण्डवत्तिवैतादृश्यज्ञानं सप्तमं प्रमाणं प्रसज्येत, तुल्यन्यायस्वात् / अथ तद्वधर्म्यमेतस्य प्रत्यक्षसिद्धमन्यथानुपपद्यमानं तस्यैतद्वैधयं कल्पयतीति न तत्र प्रमाणान्तरप्रसक्तिरिति चेत् तर्हि तत्सादृश्यविशिष्टत्वमेतस्य प्रत्यक्षसिद्धं तस्यैतत्सादृश्यं विनानुपपन्नं तस्यैतत्सादृश्यं करण्यदापत्तिरेव स्यादिति व्यावष्टे यदा हि-इति / ननु संनिहितपिण्डगतधर्माभावविशिष्टत्वमेव सन्निहितस्य तद्वैधयं तत्राभावरूपत्वादभावप्रमाणस्यैव विषयः, सादृश्यस्य तु भावरूपत्वात्प्रमाणान्तरमन्वेषणीयमित्याशयादाह न चेति / न इति / प्रकाशः। तादृशी धीः प्रत्यक्षायफलमप्यर्थापत्तिफलमिति नैतत्करणमुरमानं मानान्तरं सिद्धयति / अन्यथा तद्विधर्मायमिति बुद्धयनन्तरमेतद्विधर्माऽसाविति धीकरणं मानान्तरं स्यादित्याह / साधर्म्यमिति / गवि करभवैधयं हि करभवृत्तिधर्माभाववत्वम् / तच स्मृते गवि प्राइनास्तितावदनुपलब्धगिम्यमेवेति न तत्र मानान्तरापत्तिरित्याह / नन्वेतदिति / करभावृत्तिधर्मवत्वं गवि तद्वैतयं, तच भाव एवेति नानुपलब्धिगम्यमित्याह / इत इति / / नन्विदमप्युपमानमेव / तथाहि, सप्रतियोगिकपदार्थज्ञानेन तत्प्रतियोगिकपदार्थज्ञानमुपमानम् / अन्यथैतद्विधर्मा स एतस्मादीर्घ इति प्रतीतिः कुतः। न तावदनुमानात् / विशेग्थासन्निकर्षे तद्गतैतनिष्ठसादृश्यप्रतियोगित्वादेल्लिङ्गस्याज्ञानात् / नाप्यर्थापत्तेः, तस्या व्यतिरेक्यनुमानरूपत्वात् / न च तत्प्रतियोगितनिष्ठसादृश्यादौ भासमाने समानसंविसंवेद्यतया एतत्प्रतियोगिकतन्निष्टसादृश्यादिरपि भासते इति वाच्यम् / विशेषणविशेष्यप्रतियोगिमेदेन समानसंविद्वेयत्वासिद्धेः। एतत्सदृश एतद्विधर्मा स इति तद्विशेष्यकज्ञानानुदयाच / तद्विशेष्यकप्रत्यक्षे तत्सन्निकर्षस्य हेतुत्वात् / न च प्रत्यक्ष विशेष्यसभिकर्षों हेतुः, न तु यावद्विशेष्यसन्निकर्षो गौरवात् / अन्यथा अतीतानागतव्याप्यविशेष्यक व्याप्तिप्रत्यक्षं न स्यादिति वाच्यम् / अतीतानागतविशेष्ये सामान्यलक्षणायाः प्रत्यासत्तेः सत्वात् / प्रकाशिका। अतीतानागतविशेष्य इति / यद्यपि गौरवमेतातापि नापाकृतम् / तथापि तद्विषयकप्रत्यक्षे तदिन्द्रियसन्निकर्षत्वेन कारणत्वमवश्यं वाच्यम् / अन्यथा घटसभिकर्षमात्रेण घटापटोभयविशेष्यकसमूहालम्बनापत्तेरिति गौरवं प्रामाणिकतया न दृषणमिति भावः // 9 // मकरन्दः। अतीतानागतेति / यद्यप्येवमपि गौरवं नापाकृतं तथापि प्रमाणिकं तदिति भावः। अन्यथा घटसन्निकर्षात् पटविशेष्यकस्यापि समूहालम्बनस्यापत्तेः। तथा च तत्तद्विशेष्यकप्रत्यक्षे तत्तविशेष्यसन्निकर्षों हेतुः, अत एव सामान्यलक्षणाभ्युपगमोऽसीति // 9 //