________________ 374 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [8 कारिकाव्याख्यायां स्यादेतत् / भवतु सामान्यमेव सादृश्य, तदेव तस्य विषयः स्यात् / तस्सहशो. ऽयमिति हि प्रत्ययो नेन्द्रिजन्या, तदापातमात्रेणानुत्पत्तेरिति चेन्न / पूर्वपिण्डानुसन्धानरूपसहकारिवैधुर्येणानुत्पत्तेः / सोऽयमिति प्रत्यभिज्ञानवदिति // नन्वेतस्सदृशः स इति नेन्द्रियजन्यम् / तेन तस्यासम्बन्धात्। न चेदं स्मरणम् / तस्पिण्डानुभवेऽपि विशिष्टस्याननुभवात् / न चैतदपि, अयं स इति विपरीतप्रत्यभिज्ञानवदुपपादनीयम् / तत्तेदन्तोपस्थापनक्रमविपर्ययेऽपि विशेष्यस्येन्द्रियेण सन्निकर्षाविरोधात् / तस्य सन्निहितवर्तमानगोचरत्वात् / प्रकृते तु तद् बोधनी। भाहमतं निराचिकीर्षुः शकते स्थादेतत्-इति / पदार्थान्तरावयवादिवर्तीनि सामान्यान्येव पदार्थान्तरस्यावयवादिषु वर्तमानानि सादृश्यं न तु तत्त्वान्तरम् , तथाहुः-"सामान्यान्येव भूयांसि गुणवयवकर्मणाम् / भिन्न प्रधानसामान्यवर्ति सादृश्यमुच्यते' इति / न च तत् प्रत्यक्षविषयः संभवतीत्याह गोसहशोऽयम्-इति / न पूर्व-इति / प्रतियोग्यनुसंधानस्येन्द्रियसहकारिणो वैधुर्येणेन्द्रियसंनिपातमात्रात्सादृश्यज्ञानानुपपत्तिः / न च तावतेन्द्रियजन्यत्वहानिः प्रत्यभिज्ञानवदिति / तस्मिन्सन्निहितपदार्थप्रतियोगिकसादृश्यविशिष्टासन्निहितपदार्थविषयमेतत्सदृशः स इति ज्ञानमुपमानफल भवि. ध्यति / न ह्येतदिन्द्रियेण जन्यते व्यवहितस्पेन्द्रियेण संबन्धाभावादित्याह ननु-इति / न चेदं स्मरणं व्यवहितस्य पिण्डस्य सादृश्यविशिष्टतयाननुभूतत्वादित्याह न चेदम्-इति / ननु तत्सदृशो. ऽयमिति ज्ञानं तावदैन्द्रियक, तस्माच्चैतत्सदृशः स इति ज्ञानस्य तत्तेदन्ताक्रमविपर्यय एव विशेषः / न च तावता प्रत्यक्षत्वहानिः सोऽयमिति प्रत्यभिज्ञानवदयं स इति विपरीतप्रत्यभिज्ञानस्याप्यन्द्रिकत्वेनेष्टत्वादित्यत्राह न चैतत्-इति / उभयमपि प्रत्यभिज्ञायां विशेष्यस्यैकत्वात्तस्य च संनिहितवर्तमा. नत्वादिन्द्रियसंनिकर्षे न कवि द्विशेषः, एतत्सदृशः स इस्यत्र तु विशेष्यस्यासंनिहितत्वेनेन्द्रियसंनि. कर्षासंभवात्तत्सदृशोऽयभित्येतस्मान्महान्विशेष इति / तस्मादसंनिहितपिण्डस्मरणसहायं तत्प्रतियोगिकसंनिहितपिण्डवतिसादृश्यज्ञानमेव तथाविधसंनिहितपिण्डप्रतियोगिंकासंनिहितपिण्डवत्तिसारश्य प्रकाशः। स्यादेतदिति / तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वस्य सादस्यत्वानेदांशस्य च प्रतियोगिज्ञानज्ञेयत्वात् सहकारिवैधुर्यादापाततः प्रत्यक्षेणाज्ञानेऽपि तत्समवधाने तत एव तद्भानोत्पत्तिरित्याह। पूर्वति / यथा तत्तास्मरणाभावादारातत्तः प्रत्यभिज्ञानाभावेऽपि तत्समवहितादिन्द्रियादेरेव तदुत्पत्तिरित्याह / सोऽयमिति / / सादृश्यमानत्योपमानापरिच्छेद्यत्वेऽपि गोप्रतियोगिकगवयनिष्ठसादृश्यज्ञानकरणकगवयप्रतियोगिकगोनिष्ठसादृश्यधीरुपमानफलमिति शाबरमतमाह / नन्विति / न च सा प्रत्यक्षफलम् / विशेप्यस्य गोरसन्निकर्षादित्याह / नेन्द्रियेति / गत्यन्तरमाशय निराकारोति। न चेति / गोपिण्डानुभवेऽपि गवयस्याज्ञानात् तत्प्रतियोगिकसादृश्यवैशिष्टयाननुभवादित्यर्थः / न चेति / ऋजुप्रत्यभिज्ञाने तत्ताविशिष्टे इदन्ताविशिष्टामेदो भासते अयं स इत्यत्र तु इदन्ताविशिष्टे तत्ताविशिष्टामेद इति तत्तदन्तयोरनुयोगित्वप्रतियोगित्वावच्छेदकभेदात् , प्रत्यभिज्ञानयो देऽपि तत्र विशेष्यसन्निकर्षा दत्र तु तदभावादित्यर्थः। प्रकाशिका। तद्भिन्नत्वे सतीति / तदन्यत्वे सतीत्यर्थः / ऋजु प्रत्यभिज्ञान इति / उद्देश्यतावच्छेदकविशष्टे विधेयवैशिष्टयप्रतीतेव्युत्पत्तिसिद्धत्वात् प्रथमप्रतीतस्यैव चोद्देश्यतावच्छेदकत्वादिति भावः / मकरन्दः। तद्भिन्नत्वे इति / तदन्यत्वे सतीत्यर्थः /