________________ तृतीयस्तवके। उपमानस्यप्रमाणान्तरत्वखण्डनम् / 373 तन्तु सामान्यन्निसामान्यश्चेति पूर्ववत् द्वयमेव / तत्र प्रथममपि स्पक्तोऽस्पन्द इति द्वयमेव / एतच्च यथासङ्ख्यं कर्म गुण इति व्यपदिश्यते / निःसामान्यं निर्गुणमाश्रितन्वेकाश्रितमनेकाश्रितं वेति प्रागिव द्वयमेव / एतदपि यथासंख्यं विशेष: सामान्यञ्चत्यभिधीयते / तदेतत्सादृश्यमेतास्वेकां विधामासादयन्नातिरिच्यते / अनासादयन्न पदार्थीभूय स्थातुमुत्सहते // एतेन शक्तिसंख्यादयो व्याख्याताः। ततोऽभावेन सह सप्तैव पदार्था इति नियमः। अतो नोपमानंविषयोऽर्थान्तरमिति // 8 // बोधनी। वायस्याश्रितत्वाभ्युपगमेऽनवस्था स्यात् / इह पटे रूपसमवाय इति प्रतीतिस्तु विशेषणविशेष्यमात्रनिबन्धनेति, तदेवं पदार्थव्यवस्थितौ यदि सादृश्यं सगुणत्वादिविधास्वन्तर्भवेत् पदार्थषटकानातिरि. च्येत् , अनन्तर्भावे वा पदार्थ एव न स्यादित्याह तत्-इति / शक्तिसंख्यादीनामपि षट्पदार्थान्तरत्वमनेनैव मार्गेण निराकृतमिति प्रसादाह एतेन-इति / उपसंहरति ततः-इति / ततश्वाप्रमाणस्वादेव न बाधकमिति // 8 // तदेवं तत्त्वान्तरभूततत्रान्तर्भूतसादृश्यविषयमुपमानं पृथक्त्रमाणमिति गुरुपतं निराकृत्य प्रकाशः। पदार्थान्तरत्वे च सप्रतियोगिकत्वेऽपि सावधित्वाभावेन तदभावोपपत्तेः / न च सप्रतियोगित्वमेव सावधित्वं, घटान्नेति प्रतीत्यापत्तः।। अत्राहुः। असाधारणान्यतद्गतबहुधर्मवत्त्वं तत्सादृश्यं जात्यादिसाधारणं, मेदाघटितत्वाच निरवधि / तद्गतबहुधर्मवत्वं च तन्निरूप्यमितीतरनिरूप्यत्वमेव तस्य सप्रतियोगिकत्वम् / तवापि सादृश्ये तदेव सप्रतियोगिकत्वं, न तु भेददीर्घादिवत् सावधिकत्वम् / तस्मात्सदृश इति प्रतीत्यापत्तेः। किञ्च यादृशं तद्गतबहुधर्मवत्त्वमनतिप्रसक्तं तव सादृश्यव्यञ्जकं, तदेव सदृशब्यवहारनिमितमस्तु, किमधिकेनेति सक्षेपः। एतेनेति // षटपदार्थानतिरेयोत्यर्थः। तत इति // भावरूपपदार्थाः षडभावस्यापि मानसिद्धतया पदार्थत्वोपगमादिति भावः। प्रत्यक्षादिविषयद्रव्यादिपदार्थातिरिक्तं सादृश्यमुपमानपरिच्छेद्यमित्यसिद्धमित्याह / अत इति // 8 // ___मा मूत् सादृश्यं पदार्थान्तरं, तयापि तदेवोपमानपरिच्छेयम् , प्रत्यक्षायपरिच्छेद्यत्वात् , इन्द्रियसनिकर्षेऽपि तदशानात् , लिमाद्यज्ञानेऽपि ज्ञायमानत्वाच्चेति जरन्मीमांसकमतमाह प्रकाशिका। ऽत्र पृथक्त्वं न त्वन्योन्याभावः, तस्य सावधित्वाभावात् , अन्यथा घटान्नेति प्रतीत्यापत्तेः / असाधारणेति / तदसाधारणधाभावे सति तस्य तद्गतबहुधर्मवत्त्वमित्यर्थः। तेन नामेदे साहश्यप्रसङ्गः / तत्र चेष्टापत्तावसाधारण्येऽन्यपदवयऱ्यांपत्तेरिति ध्येयम् // 8 // मकरन्दः।। पृथक्त्वपरम् / अत एवं भेदापटितत्वादिति सिद्धान्तोऽपि सङ्गन्छते / अन्यथा तस्याप्यन्योन्याभावघटितत्वे विरोधापत्तेः / असाधारणेति / असाधारणान्यमानेत्यर्थः। एतच्च स्वस्मिन्नपि स्वसहशत्वप्रसङ्गवारणाय // 8 // टिप्पणी। भेदघटितत्वेन सावधित्व इति प्रन्थस्य नासङ्गतिः। भेदस्य सप्रतियोगिकत्वेऽपि सावधित्वाभावात् / सावधित्वाभावेनेति / ताहशव्यवहाराभावेन निरवधितयैव कल्पनात् // 8 // 9 // 10 // 11 //