________________ 372 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [8 कारिकाव्याख्यायां परस्परविरोधे हि न प्रकारान्तरस्थितिः॥ नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः॥८॥ न हि भावाभावाभ्यामन्यः प्रकारः सम्भावनीया, परस्परविधिनिषेधरूपत्वात् / न भाव इति भावनिषेधमात्रेणैवाभावविधिः। ततस्तं विहाय कथं स्ववचनेनैव पुनः सहृदयो निषेधेनाभाव इति / एवं, नाभाव इति निषेध एवं भावविधिः। ततस्तं विहाय स्ववाचैवानुन्मत्तः कथं पुनर्निषेधेन भाव इति / अत एवम्भूतानामेकताग्यशक्यप्रतिपत्तिः। प्रतिषेधविध्योरेकत्रासम्भवात् / तस्माद्भावाभावावेव तत्त्वम् // भावत्वेऽपि गुणवन्निर्गुणं वेति द्वयमेव पूर्ववत् / पूर्व द्रव्यमेव / उत्तरश्चाश्रितमनाश्रितं वेति द्वयमेव पूर्ववत् / तत्रोत्तरं समवाय एव / अनवस्थामयात् / श्राश्रि. बोधनी। परस्पर-इति / भावाभावयोः परस्परप्रतिक्षेपत्वलक्षणस्वरूपत्वाद्भावनिषेधोऽभावविधिः स्यात् तनिषेधश्च भावविधिः, तेन ताभ्यामन्यः प्रकारः संभवति न कस्यापीति शेषः / हि यस्मात्तस्माद्रे साहश्यस्य विशेषस्य प्रकारान्तरस्थितिवार्तेति भावः / न च क्वापि विरुद्धानामैकात्म्यं विरुद्धत्वादेव अन्यथा विरोध एव न स्यात् / तथा च कथं परस्परविरुद्धभावाभावात्मकं भवेत्सादृश्यमिति भावः / किं च आस्तां तावद्वस्तुगतो विरोधः, वचनमात्रस्यैव विरोधात् भावाभावात्मता निरस्तेत्याह उक्ति-इति // एतेनैव भावत्वेऽपि षट्पदार्थातिरेको निरस्तः। परस्परविरोधिसगुणनिर्गुणादिव्यतिरेकेण प्रकारान्तरासंभवादुभयात्मकत्वासंभवाच्चेति व्याचष्टे न हि-इति / भवतु भावात्मकमेव तत्त्वान्तरमित्यत्रापि श्लोकं व्याचक्षाण आह भावत्वेऽपि-इति / पूर्ववत्-इति / भावाभावयोरिव परस्परविधिनिषेधरूपत्वात्सगुणनिर्गुणयोरित्यर्थः / एवमुत्तरेष्वपि द्रष्टव्यम् / समवायस्यात्रितत्वे बाधकमनवस्था इति / आश्रितस्वं नाम समवायस्य समवामित्वमेवाद्रव्यत्वेन संयोगासम्भवात् / तत्र च सम प्रकाशः। परस्परेति // विरोधोऽत्र न परस्पराभावव्याप्यत्वम् / नीलपीतयोरन्यतरनिषेधेऽप्यन्वतरस्याविधेः / किन्तु परस्पराभावरूपत्वम् / पूर्वधदिति। परस्परविरोधे प्रकारान्तराभावादित्यर्थः / एवमप्रेऽपि / " नन्वेताशविकल्पेन परिशेषे सामान्यविशेषसमवायानामपि द्रव्यादित्रयसाधात्तदन्तर्भावः स्यात् / अथानुगतव्यवहारान्यथानुपपत्या तेषां तबहिर्भावः। तुस्य सादृश्येऽपि। न हि तत् सामान्यं, तत्रोत्कर्षादिव्यवहारानुपपत्तेः सामान्यस्यैकरूपत्वात् / सामान्यस्याश्रयभेदेऽप्यभेदात् / सादृश्यस्य च प्रत्याश्रयं भेदात् / अथ तद्भेदे सति तद्गतभूयःसामान्यवत्त्वं सादृश्यं, भेदश्च प्रत्याश्रयं भिन्नः सप्रतियोगिकश्चेति चेन्न / सादृश्यस्य भेदघटितत्वेन सावधित्वे तस्मात् सदृश इति प्रतीत्यापत्तेः / प्रकाशिका। मिति द्रष्टव्यम् / तदन्तर्भाव इति / गुणन्निर्गुणं वा, अन्तेऽपि कर्मभिन्नं कर्म वा यथाक्रम द्रव्यगुणकर्मान्तर्भाव इत्यर्थः / व्यवहारान्यथानुपपत्तिमेवाह / न हीति।भेदघटितत्वेनेति / भेदो मकरन्दः। व्यवहारान्यथानुपपत्तिमेवाह न हीति / भेदघटितत्वेनेति / यद्यपि भेदोऽन्योन्याभावः, स च न सावधिः, किन्तु सप्रतियोगिका अन्यथा घटो नेत्यत्र घटान्नेति प्रतीत्यापत्तेः, तथापि भेदपदमत्र टिप्पणी। द्रव्यादित्रयसाधादिति / द्रव्यं द्विविधं स्पन्दनवन्निःस्पन्दश्च निःस्पन्देष्वन्तर्भवतु सामान्यादिकमित्यर्थः / अणुव्यवहारान्यथानुपपत्तेरिति / अनुगतव्यवहारान्यथानुपपत्त्या सिद्धं सामान्यं न द्रव्यं न गुणो न कर्म गुणकर्मणोरनुगतव्यवहाराभावप्रसङ्गादिति सामान्यस्य द्रव्यादिबहिर्भाव इति भावः / मेदश्च प्रत्याश्रयं भिन्न इति / पृथक्त्वञ्चेत्यर्थः / तेन