________________ तृतीयस्तवके ] उपमानस्य प्रामाणान्तरत्वखण्डनम् / 371 यत्वप्रयोजकः सन्दिग्धानकान्तिक इत्यनैकान्तिकेऽन्तर्भाव्यते / तदसत् / व्या. पश्यसिद्ध्या हि निमित्तेन व्यभिचारः शङ्कनीयः, अन्यथा वा ? / प्रथमे, असिद्धिरेव ठूषणमुपजीव्यत्वात् , नानकान्तिकम् , उपजीवकस्वात्। अन्यथा शङ्का स्वदूषणमेव निर्णीते तदनवकाशादिति // 7 // उपमानन्तु बाधकमनाशङ्कनीयमेव, विषयानतिरेकादिति केचित् / तथाहि / न तावदस्य विषयः सादृश्यव्यपदेश्य पदार्थान्तरमेव सम्भावनीयम् / बोधनी। 'त्यसिद्धावन्तर्भावं मन्यमानो मतान्तरमाशय दूषयति यत्तु-इति / प्रथमव्याप्त्यसिद्धिं निमितीकृत्य व्यभिचारशकेत्यत्र पूर्वसिद्धासिद्धिरेव दूषणं स्यान्न तु तदुपजीवनेन प्रवत्ता व्यभिचारशहा, अन्यथा व्याप्तिनिर्णये तुं व्यभिचारशात्मकं दूषणमेव नोदेतीति निर्णीते विषये शङ्काया निरवकाशत्वादिति // 7 // तदेवं प्रत्यक्षानुमानयोस्तदभावावेदकत्वं निराकृत्य संप्रत्युपमानस्य निराचिकीर्षुरेकेषां मतं तावदुपन्यस्यति उपमानं तु-इति / क्लुप्तप्रमाणविषयातिरिक्तविषयासंभवादुपमानस्य पृथकप्रामाण्यमेव नास्ति कुतस्तेन बाध प्राशयेतेति / विषयानतिरेकमेवाह न तावत्-इति / पदार्थान्तरं हि भवत् साहश्यं कि भावाभावाभ्यामन्यत्किं वोभयात्मकं किमुत भावात्मकमेव षट्पदार्थातिरेकेणेति विकल्पं हृदि निधाय सामान्येन कोटिद्वयातिरेकस्यापि न संभवतीत्याह / प्रकाशः। अथैवं विद्यमानेयं नदी, उपरि देशे वृष्टिमती, विशिष्टपूरवत्त्वादित्यत्र विद्यमानवृष्टयनुमानापत्तिः / न चेष्टापादनं, विद्यमानवृष्टेर्वर्तमाननदीपूरं प्रत्यहेतुत्वादिति चेन्न / तत्र समयभेदेनैव व्याप्तिप्रहात्तयैव साध्यसिद्धेः। किश्चैवं सिद्धसाधने प्रागभावतत्प्रतियोगिनोरेकदेशवृत्तित्वेनैककालवृत्ति त्वमपि स्यात् / यदि च तयोरेकसमयावच्छेदेनकत्रावृत्तेर्न तथात्वं, तर्हि तत्प्रागभावावच्छिन्ने धर्मिणि तत्प्रतियोग्यमितावपि न सिद्धसाधनमपि तु बाध एव / अधिकन्तु न्यायनिबन्धनप्रकाशे विपश्चितमस्माभिः / मतान्तरं विकल्प्य निराकरोति / यत्त्विति // 7 // अनुमानादिभ्यः फलव्यापारवेजात्याभावादुपमानं न मानान्तरमिति तन्नेश्वरबाधकमित्याह'उपमानं विति // ननु सादृश्यमेव तद्विषयः स्यात् / न हि तदिन्द्रियगम्यं, तदापातमात्रेणाहानात् / नापि लिङ्गादिगम्यं, तदभावेऽपि सादृश्यज्ञानात् / तच्च न द्रव्यमगुणत्वात् / न गुणः कर्म वा गुणेऽपि वृत्तः / न सामान्यं, सप्रतियोगिकत्वात् / न च विशेषसमवायौ, प्रत्यक्षत्वादि. त्याह। तथा हीति। - प्रकाशिका। णतया तद्विषयतानियामकत्वायोगादिति / विद्यमानेति / एतत्कालावच्छिन्नेत्यर्थः / तत्र समयेति / तथा च तत्तत्कालावच्छिन्नानुमितो व्याप्तिविरोध एव बाधक इति भावः / वस्तुतस्तत्रापि बाधादेव नानुमितिरितीदमपि बाधोदाहरणं द्रष्टव्यम् // 7 // .. प्रत्यक्षस्वादिति / समवायाप्रत्यक्षत्वे सतीत्यस्य हेतुरन्यथा तु समवायभेदसाधनेऽनेकत्वं लि. मकरन्दः। याः पक्षताशरीरानिस्पादकत्वेनान्यथासिद्धतया व्यभिचारेण चानुमित्यहेतुत्वात् / न चानुमितिविशेषे तद्धेतुत्वं, मानाभावात् , पक्षताया अहेतुत्वापाताचेति सहक्षेपः। विद्यमानेति / वर्तमानकालावच्छिनेत्यर्थः / तत्रेति / पूर्वकालीनवृष्यैव व्याप्तस्तस्या एवं सिद्धिरित्यर्थः / बाधादेव न तसिद्धिरबाधे चेष्टापत्तिरित्यपि बोध्यम् // 7 // प्रत्यक्षत्वादिति वैशेषिकमतेन / न्यायमते समवायमेदसाधनेऽनेकत्वादिकं लिमिति ध्येयम् /