________________ 370 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलो [7 कारिकाव्याख्यायां प्रकाशः। अथ हेतुतः साध्यसिद्धिसम्भावनायाम कान्तिकत्वासिद्धेः पक्षाभिमते धर्मिणि साध्याभावप्रमितेः साधनाभिमतात् साध्यसिद्धिसम्भावनाविरह एवानकान्तिकावतार इत्युपजीव्यत्वाद् बाधः पृथक् / अन्यथा हेतोरसाधकत्वे सिद्धे साध्यसिद्धिसम्भावनाविरहादनकान्तिकत्वबुद्धिस्तस्यां च सत्यां हेतोरसाधकत्वधीरित्यन्योन्याश्रयः। मैवम् / साध्यसिद्धथुन्मुखहेतुज्ञानस्य प्रमितसाध्याभावसहचरितहेतुविषयत्वेनानकान्तिकत्वज्ञानतया दूषकत्वात् / यद्यप्यनैकान्तिकस्वेऽपि साध्याभावप्रमैव प्रयोजिका तां विना तदभावादिति तस्या एव दोषत्वमहे, तथापि तस्याः साध्याभावसमानाधिकरणहेतुज्ञानत्वेन दूषकत्वं, क्लृप्तत्वात् / न तु साध्याभावप्रमात्वेन, तस्यावश्यकत्वेऽपि तेन रूपेण दूषकत्वाकरसनात् / अत्रोच्यते / गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादित्यत्र बाधः पृथक, न च तत्राप्यनैकान्तिकमेव दोषः / साध्यात्यन्ताभावववृत्तित्वस्य तत्वात् / अन्यथा द्रव्यत्वेन गुणाननुमाना. पत्तेः / पाद्यक्षणे साध्याभाववद्वृत्तित्वात् / न च वस्तुतो यो गन्धप्रागभावावच्छिन्नस्तत्र साध्यमस्त्येवेति सिद्धसाधनमेव तत्र दोषः / पक्षतावच्छेदकधर्मविशिष्टे साध्यवैशिष्टयस्यानुमेयत्वात् / प्रकाशिका। साभ्याभावप्रमिताविस्यस्य पूर्व युज्यत इति प्राहुः। गन्धप्रागभावावच्छिन्न इति / यद्यपि धम्मिणि गन्धासिद्धाविष्टापत्तिः, गन्धप्रागभावसमयावच्छेदेन च न गन्धसिद्धिः साधकाभावात् / नव पक्षधर्माताबलमेव साधकं पक्षधर्मता हि हेतोः पक्षवृत्तिता सा च साध्यसामान्यव्याप्तस्य तस्य पक्षीयं साध्य विना नेति तादृशं साध्यं सिद्धयति, न तुपक्षतावच्छेदकावच्छिन्नं तेन विनापि पृथिवीत्वे व्याप्तिपक्षधर्मतयोरुपपत्तेः / तथापि सामान्यत एव विना बाधकं विशिष्टवैशिष्टयज्ञानजनकत्वं प्रमाणानां स्वभाव इति गन्धप्रागभावावच्छेदेनैव गन्धमनुमितिविषयीकर्यादित्यादि न बाधो दूषणमित्यत्र तात्पर्यम् / केचित्तु शब्दे तात्पर्यस्येव सिषाधयिषाया अनुमितौ विषयतानियामकतया तदवच्छिन्नसिषाधयिषायां तथानुमितिः स्यादेव यदि न बाधो दूषणमिति तात्पर्यमित्याहुः / तन्न / सिषाधयिषाया अनुमित्यकार मकरन्दः। प्रमितावित्यस्य पूर्व युज्यते इति प्राहुः। गन्धप्रागभावावच्छिन्न इति। यद्यपि गन्धप्रागभावसमयावच्छेदेन गन्धसाधकाभावादेव न गन्धानुमितिनं तु बाधात् ,न च पक्षधर्मताबलात् तथा, पक्षधर्मता हि लिनस्य पक्षे वृत्तिरेव, सा च साध्यसामान्यव्याप्तिमतस्तस्य पक्षीय साध्यविशेषं विनाऽनुपपन्नेत्यतो व्याप्स्या सह परामृश्यमाना पक्षसम्बन्धं साध्यं साधयति, न तु पक्षतावच्छेदकत्वेन यदुपादीयते तदवच्छेदेन साध्यस्य पक्षे सम्बन्ध, बीजाभावात् , तं विना तस्या अनुपपत्त्यभावात् / तदवच्छेदेन पचे साध्यसम्बन्ध विनाऽ पि प्रकृते पृथिवीत्वादिहेतोर्व्याप्तिपक्षधर्मताया उपपन्नत्वात् / तथापि प्रमाणस्यायं स्वभावो यद्बाधकं विना विशिष्टवैशिष्टयज्ञानमेव जनयति, तथा च ज्ञानसामान्यसामग्रीबलादेव तदवच्छेदेनानुमितिः स्यात् , यदि न बाधो दोष इति प्राहुः। यत्तु यथा शब्दतात्पर्यवशेन व चिदेकस्य द्वयं क्वचिद्विशिष्ठवैशिष्टयश्चेत्यन्वयबोधदैविध्यं, तथा सिषाधयिषावशादनुमितिद्वैविध्यमपोति, तन्न, सिषाधयिषा टिप्पणी। प्रामाण्यज्ञानम बलं तस्य साधकत्वदूषकत्वयोरनुपयोगात् अप्रामाण्यज्ञानाभावे सति गृहीतव्याप्तिपक्षधर्मतैव बलन्तदुभयत्र तुल्यवदेवास्तीति सत्प्रतिपक्ष इति समाधत्ते नेति / तथाचकत्राप्रामाण्यझाने बाघोऽपि न स्यात् साध्यव्याप्यवत्त्वपरामर्षे तद्ग्रहे तत एवानुमित्यनुत्पत्तेर्बाधस्य दषकत्वकल्पने मामाभावात् / बाधाहे च तद्प्रहे दृषकत्वासम्भवादुभयत्र तद्महे सत्प्रतिपक्ष एव दोष इति भावः / साध्यसिद्ययन्मुखहेतुशानस्येति। साध्यवत्तया साधनीये धर्मिणि हेतोर्वत्यवगाहित्वं साध्यसि युन्मुखत्वम् / शानत्वेन दूषकत्वं कृतवादिति / पक्षादन्यत्र साप्याभावसामानाधिकरण्यप्रहे दृषकत्वेन क्लृप्तत्वादिति // 7 //