________________ तृतीयस्तवके] अनुमानप्रामाण्योपपादनम् / 366 प्रकाशः। ननु साध्याभाववति पक्षत्वाभिमते हेतोः सत्त्वाज्ज्ञप्तावसिद्धिः। तज्ज्ञाने च व्यभिचारः / साध्या भावप्रमितो सन्देहाभावेन पक्षत्वाभावादाश्रयासिद्धिश्च / व्यभिचारे पक्षभिन्नत्वस्य व्यर्थत्वेनातन्त्रत्वात् / सर्वोपसंहारप्रवृत्तव्याप्तेः साध्याभाववति साधनभिति ज्ञानादेव भङ्गात् / न चोपजीव्यत्वादु बाधः पृथक् / तद्धि न तमब्रगम्यैवावगमः / एकत्र हेतुसाध्याभावावित्येकवित्तिवेयतया व्यभिचारज्ञानस्य तदनुपजीवकत्वात् / नाप्युद्भावितव्यभिचारनिर्वाहाथं तदुद्भावनम् / इदं व्यभिचारीत्युक्ते कथमिति परानुयोगस्यानावश्यकत्वात् / तथात्वेऽपि निर्वायमेव दूषणमस्तु वलृप्तत्वात् / अथ अर्थान्तरोपनायकस्मृत्यादिसहकारिता सामान्यत एव प्रमाणस्य क्लृप्ता प्रत्यभिज्ञानादौ, तदिह समीचीनव्याप्तिपक्षधर्मताकलिङ्गपरामर्शस्यासदर्थकाञ्चनमयत्वादिस्मृस्त्यादिसहकारिवशाद् यत्र आभासधीकारणत्वं तत्र बाधः पृथक् , न व्याप्तिपक्षधर्मतोपनीतादन्यस्यानुमितौ भाने मानाभावात् / प्रत्यभिज्ञानादौ प्रतीतिबलेन तत्कापनात् / अन्यथा पूर्वानुभूतसकलार्थभानेऽनुमितेर्याथार्योच्छे. दापत्तः / भानेऽपि तस्य विप्रतिपत्यविषयतया तेन हेत्वाभासत्त्वानिरूपणात् / अन्यथाऽतिप्रसङ्गात् / अथ प्रत्यक्षादौ प्रमामात्र प्रति स्वातन्त्र्येण बाधस्य दोषत्वेन क्लुप्तत्वादनुमितावपि स एव दोष इति चेत् / न तर्हि हेत्वाभासः / अनुमित्यसाधारणदोषस्यैव तत्त्वात् / - अथ पक्षाभिमते . साध्याभावप्रवत् सध्याभावव्याप्यग्रहोऽपि दूषक, विरोधित्वाविशेषात् / एवञ्च, साध्याभावसामानाधिकरण्यमनैकान्तिकत्वं, साध्याभावव्याप्यसामानाधिकरण्यं च बाधः। तादृशं चाग्नित्वायेवेति / मैवम् / पक्षाभिमते साध्यामावग्रहस्य दूषकत्वासिद्धौ दृष्टान्तत्वानुपपत्तेः, सिद्धौ वा तस्योक्तरूपबाधानन्तर्भावे षष्ठहेत्वाभासत्वापत्तेः। उक्तरूपश्च बाधः पक्षाभिमतविषयसाध्याभावबुद्धौ सत्यामसत्यां वा ? / श्रायेऽनै कान्तिकत्वमेव, साध्याभावसामानाधिकरण्यप्रहात् / अन्त्ये लिङ्गत्वाभिमतसा याभावव्याप्ययोरगृह्यमाणविशेषतया सत्प्रतिपक्ष एव दोषो न बाधः। तत्र तुल्यबलत्वं प्रयोगक, वाधे त्वधिकबलत्वमिति चेन्न / गमकताप्रयोजकरूपसम्पत्तरेव बलत्वेन तस्य द्वयोरपि ज्ञातत्वात् / टिप्पणी। प्रकृतसाध्यविशेषितसाध्यान्तरानुमितीत्यर्थ इति साध्यवत्पक्षविधेयकानुमितीत्यर्थ इति यावत् / तत्रापि.प्राचां साध्यव्यवहारादिति कश्चित्। वस्तुतः साध्यज्ञानं न पक्षे साध्यनिश्चयः, किन्तुसाध्यज्ञानमात्रम् तस्यापि व्यतिरेकिमात्रानुमितिविरोधित्वमस्त्येवेति तदपि संग्राह्यम् , तथाचतविशेषितेत्यस्याव्यवहितो. तरत्वसम्बन्धेन साध्यज्ञानविशेषितेत्यर्थः, अन्वयव्याप्तिज्ञानजन्येति तद / एतेन सिषाधयिषाकालीनस्वस्याप्रकृततया तत्पदेन तद्ग्रहणस्याशक्यत्वेऽपि न क्षतिः, साध्यविशेषितसाध्यानुमितेरप्रतिबन्धकत्व. कथनस्याप्रसक्तत्वेऽपि न क्षतिः साध्यमात्रानुमितीति। सिषाधयिषाकालीनत्वविशेषितानुमितीत्यर्थः। माध्यमात्रविषयकानुमितीत्यर्थ इति कश्चित् / वस्तुतो व्यत्तिरेकव्याप्तिज्ञानजन्यानुमितिरेव साध्यमात्रानुमितिः। साध्यस्य ज्ञानत्वेन तन्मात्रस्यैव तत्रानुमितिनिरूपितविलक्षणविषयत्वादन्वयव्याप्तिस्थले साध्यस्य झातत्वेन तन्मात्रस्यातथात्वात् पक्षसाध्यसम्बन्धस्यैव तथात्वादिति भावः / तादृशश्चानित्वादयेवेति अयोगोलके धूमसाधने तत्रधूमाभावनिश्चये वह्निःसाध्याभावसमानाधिकरणोव्यभिचारी धूमव्यापकत्वेन गृहीतार्दैन्धनसम्बन्धाभावस्य धूमाभावव्याप्यस्य पक्षे निश्चितस्य वहावपि निश्चितत्वेन तत्समा. नाधिकरणवह्नित्वं हेतुकृतं बाधितं तादृशं साध्याभावव्याप्यसमानाधिकरणत्वेन बाधितमित्यर्थः / तत्र तुल्यबलत्वम्प्रयोजकमिति। अगृह्यमाणविशेषत्वमात्रन सत्प्रतिपक्षत्वप्रयोजकमपि तु तुल्य बलत्वं गृह्यमाणमूलश्च प्रामाण्यमहणन्तच्चोभयत्र न समानम् यत्रकत्र दोषादपरत्र सत्तया प्रमामकाद् गृह्यते तत्र सत्प्रतिपक्षो यत्र साण्याभावव्याप्यमह एव तद्ग्रहणन्तत्र बाधः यत्र साध्यव्याप्ये प्रहणं यत्र न किमपीत्याशझ्यते अत्रेति।सत्प्रतिपक्ष इत्यर्थः। इति चेन गमकत्वप्रयोजकरूपसम्पत्तेरिति। 47 न्या०००