________________ 368 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलो [7 कारिकाव्याख्यायो भावोऽसिद्धिः / इयञ्च व्याप्तिपक्षपक्षधर्मतास्वरूपाणामन्यतमाऽप्रतीत्या भवन्तो यथा सङ्ख्यमन्यथासिद्धिराश्रयासिद्धिः स्वरूपासिद्धिरित्याख्यायते / मध्यमाऽध्याश्रयस्वरूपाप्रतोत्या तद्विशेषणपक्षत्वाप्रतीत्या वेति द्वयी / तत्र चरमा सिद्धसाधनमिति व्यपदिश्यते / व्याप्तिस्थिती पक्षस्वस्याहत्य विघटनात् / न त्वेवं बाधे, व्याप्तेरेव प्रथम विघटनादिति विशेषः॥ बोधनी। सिद्धसाधनमिति, तत्र कालातीतविलोपप्रसङ्ग उक्त इति चेत्तत्राह व्याप्तिस्थिती-इति / सिद्धसाधने हि सत्यामेव व्याप्तौ पक्षत्वमात्रविघटनादाश्रयासिद्धिरेव, बाधितविषये तु व्याप्ते रेवाहत्य भङ्गः, पश्चात्तु साध्यविपर्ययनिर्णयात् पक्षत्वातिपात इत्यनयोविशेष इति अप्रयोजकस्य व्या. प्रकाशः। त् / अन्यथा शास्त्रे परिभाषोच्छेदापत्तेः / सव्यभिचारादेव एवंरूपत्वेऽप्युपजीव्यत्वेन पार्थक्यम् / उपधेयसबरेऽप्युपारसकरात् // इयं चेति / विशिधभावस्य विशेषणाद्यभावव्यापकत्वादित्यर्थः / अन्यथासिद्धिः -- सोपाधित्वम् / स्वरूपासिद्धिा-अपक्षधर्मत्वम् / मध्यमाऽपीति / आश्रयासिद्धेः सन्दिग्धसाध्यधर्मवद्धर्म्यप्रमितिरूपत्वाद् यत्र विशेष्यस्य धर्मिण एवाज्ञानं तत्रैकाऽऽश्रयासिद्धिरन्या च तद्विशेषणसाध्यसन्देहाभावात् सिद्धसाधनमुच्यते इत्यर्थः। न च सिद्धसाधनं न हेत्वाभासोऽनैकान्तिकवदनुमितिकारणाविघटकत्वात् / सत्प्रतिपक्षवत् स्वत एवाप्रतिबन्धकत्वादिति वाच्यम् / लाघवात् कारणविघटकत्वेनैव प्रतिवन्धकतया तद्विशेषकरणत्वस्य व्यर्थत्वात् साध्यज्ञानस्य तद्विशेषितसाध्यानुमित्यविरोधित्वेऽपि साध्य मात्रानुमितिविरोधित्वमस्त्येवेति तस्य हेत्वाभासत्वमपि / साध्यसाक्षात्कारे सति लिङ्गज्ञानेऽप्यनुमिनोमीत्यनुव्यवसायाभावात् / न च केवलान्वयिनि संशयाभावः। तत्रापि साध्यं पक्षनिष्टात्यन्ताभावप्रतियोगि न वेति संशयात् / पक्षविशेष्यकत्वस्य चातन्त्रत्वात् // पक्षत्वस्येति। सन्दिग्धसाध्यत्वस्येत्यर्थः / व्याप्तेरेवेति / यद्यपि जलह्रदोऽग्निमान् धूमवत्वा दित्यत्र बाधेऽपि न व्याप्तिभाः / तथापि धर्मिणि यत्रं साधनाभिमतस्य वृत्तिस्तदभिप्रायकोऽयं प्रन्थः। प्रकाशिका। सव्यभिचारादेरिति / व्यभिवार्यादेरित्यर्थः / व्यभिचारादिहेत्वाभासोपाधिभिन्नहेत्वाभासोपाधित्वमेवानुगमकमिति केचित् / कारणविघटकत्वेनेति / यद्यपि सिद्धयभावरूपकारणविरह एव सिद्धसाधनं न कारणविघटकम् , तथापि सन्देह एव पक्षतेति मतमवलम्ब्येदमुक्तम् / तद्रि. शेषेति / सिषाधयिषाकालीनत्वविशेषितानुमित्यविरोधित्वेऽपि तदविशेषितसाध्यानुमितिविरो. धित्वमस्त्येवेत्यर्थः। तदेव दर्शयति / साध्यसाक्षात्कार इति / सिषाधयिषाविरहे सतीति शेषः। एवं च साक्षात्कारत्वमविवक्षितम् / ज्ञानमात्रमेव विवक्षितम् / एतच्च सर्वमनुमित्यसाधारणदोषत्वमेव हेत्वाभासत्वमिति मतमात्रियोक्तम् / व्यभिचारे पक्षभिन्नत्वस्येत्यादिका फक्किका मकरन्दः / एवंरूपत्वेऽपीति। परामर्शविषयाभावत्वेऽपीत्यर्थः। उपधेयेति। ननु यद्यपाध्यसकरमात्रेण पार्थक्यं, तदा आश्रयासिद्धयादीनामपि तथात्वे विभागव्याघात एव / यदि चोक्तानुगतरूपसंगृहीततया न तथात्वं, तदा व्यभिचारादावपि तुख्यम् / अत एव नोपजीव्योपजीवकभावोऽपि / अमेदे तदभावात् / अन्यथा आश्रयासिद्धयादेरपि तथात्वापत्तिरिति चिन्त्यम् / वस्तुतो व्यभिचारादिभिन्नपरामर्शविषया. भावत्वं, व्यभिचारादिचतुष्टयभिन्नहेत्वाभासत्वं वा विभाजकोपाधिरिति तत्त्वम् / तद्विशेषितेति / साध्यविशेषितसाध्यान्तरानुमित्यविरोधित्वेऽपि साध्यमात्रानुमितिविरोधित्वमस्त्येवेत्यर्थः / तदेव दर्श. वति साध्यसाक्षात्कारे इति / सिषाधयिषाविरहे सतीति द्रष्टव्यम् / एवञ्च साक्षात्कारत्वमविवक्षित बोध्यम् / एतच्च सर्व प्राचीनमतेनेत्यवधेयम् / व्यभिचारे पक्षभिन्नत्वस्येति फक्किका साव्याभाव टिप्पणी। दिशेषितसाध्यानुमित्यविरोधित्वेऽपीति / सिषाधयिषाकालीनत्वविशेषितेत्यर्थः /