________________ तृतीयस्तवके ) अनुमानप्रामाण्योपपादनम् / 367 प्रकाशः। ति। ननु व्याप्तिपक्षधर्मतयोः प्रत्येकमभावो नासिद्धिरननुगमादिति प्रत्येकाभावानुगतो व्याप्तिपक्षधर्मताविशिष्टाभावोऽसिद्धिर्वाच्या। तथा च यत्र विशिष्टाभावाज्ञाने व्याप्त्यादिप्रत्येकाभावज्ञानादनु. मितिप्रतिबन्धस्तत्राव्याप्तिः। तेषां हेत्वाभासान्तरत्वापत्तिर्वा / विशिष्टाभावस्य दोषतायामसाधकतानुमाने व्यर्थविशेषणत्वञ्च / प्रत्येकाभावस्य समर्थत्वेनैवान्यथासिद्धेः / न च व्याप्तिपक्षधर्मताsन्यतराभावोऽसिद्धिः, अन्यतरत्वाज्ञानेऽपि प्रत्येकाभावस्यैव दूषकत्वेन व्यर्थविशेषणत्वात् // यत्तु व्याप्तिपक्षधर्मताप्रमितिविरह आश्रयासिद्धयाद्यनुगतोऽसिद्धिः, तत् प्रमितिसत्त्वे तत्रानुमि. तिप्रमित्यापत्तेरिति / तदपि, व्यर्थविशेषणत्वात् तदभावेऽपि प्रत्येक ज्ञानस्यैव दोषत्वाच्च परास्तम् / किश्च, प्रकृतसाधनस्य व्याप्तिपक्षधर्मतावैशिष्टयतत्प्रमित्योरप्रसिद्धथा तदभावो दुरवधारणः / यत्किञ्चि द्विरहश्च सदसद्धेतुसाधारणः / स्वप्रमित्यभावो यत्किश्चित्प्रमित्यभावो वा सद्धतावपि / सकलतत्प्रमित्यभावच दनिरूपः / न च प्रमितिविरहः स्वरूपसन्नेव दूषणं कारणामावत्वादिति वाच्यम् / हेत्वाभासस्य ज्ञायमानस्यैवानुमितिप्रतिबन्धकत्वात् / व्याप्त्यादिभ्रमादनुमित्यनुत्पादापत्तेव // ___अथ व्याप्तिपक्षधर्मताभ्यां निश्चयः सिद्धिस्तदभावोऽसिद्धिः / अत एवाव्याप्तापक्षधर्मयोरपि तदारोपरूपा सिद्धिरित्यनुमितिर्न तु तदनिश्चये व्याप्तपक्षाधर्मादपि सा। न च व्याप्त्यादिप्रत्येकप्रमित्यभाव एव दूषक आवश्यकत्वादिति वाच्यम् / विशिष्टनिश्चयस्य हेतुत्वेन तदभावस्य कार्यानु. त्पादकत्वादिति / मैवम् / तथा सति सव्यभिचारादेरपि अत्रैवान्तर्भावापातात् / असिद्धेः स्वरूपस त्या एव दोषत्वे स्वज्ञानार्थ व्यभिचाराद्यनुपजीवनात् / यदि च तस्मात्तत्प्रमितिनोत्पद्यते इति तस्योपजीव्यत्वं तदाऽऽश्रयासियादिज्ञानात्तत्सिद्धिनेंति सैव पृथग्दोषः स्यादिति // अत्रास्मत्पितचरणाः। आश्रयासिद्धयादीनां प्रत्येकमेव दूषकत्वं, प्रत्येकज्ञानादुद्भावनाचानुमितिप्रतिबन्धात् / न तु विशिष्टाभावस्य, व्यर्थविशषणत्वात् / तज्ज्ञानं विनाप्यनुमितिप्रतिबन्धा. त् / अनुमितिकारणलिङ्गपरामर्शविषयाभावत्वेन अनुगतेन त्रयाणामसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधहेत्वाभासाधिक्ये / न चैवं साक्षादनुमितिप्रतिबन्धकत्वेन बाधप्रतिरोधयोव्याप्तिभङ्गलिङ्गत्वेन विरुद्धव्यभिचारयोरपि साहे विभागव्याघातः / स्वतन्त्राभिप्रायस्य निषेधुमशक्यत्वा प्रकाशिका। विशेषणाद्यभावात्मकस्वमिति मतमाश्रित्यअन्यथाविशिष्टाभावस्य भिन्नत्वेन व्यर्थविशेषणत्वानुपपत्तिरिति। वस्तुतः पूर्वमेव दूषणं द्रष्टव्यम् ज्ञप्तावनुपजीव्यत्वे स्वरूप एवोपजीव्यत्वं स्यादित्यत आह यदि चेति / सैवेति / आश्रयासिद्धिः स्वरूपासिद्धिाप्यत्वासिद्धिश्चेत्यर्थः / वस्तुतः स एवेति पाठस्तस्य चाश्रयासिद्धादावित्यर्थः / व्यर्थविशेषणत्वादिति / एतच्चातिरिक्तविशिष्टाभावानभ्युपगमेऽन्यतरत्वादिनानुगमे तदभ्युपगमे तु सोऽपि दोष एव परामर्षविषयाभावत्वाविशे. षात् / परामर्षविषयाभावत्वेनेति / यद्रूपोपस्थितयद्विषयतया परामर्षस्यानुमितिजन कत्वं,तद्रूपावच्छिन्नतदभावत्वेनेत्यर्थः / तेन न व्यभिचारविरोधबाधितेष्वतिव्याप्तिः / मकरन्दः। यदि चेति।सैवेति।आश्रयासिद्धिः स्वरूपासिद्धिाप्यत्वासिद्धिरित्यर्थः / ज्ञानगर्भहेत्वाभासानुरोधा. दिति भावः / वस्तुतः, स एवेति पाठः / आश्रयासिद्ध यादिरित्यर्थः / चिन्तामणिविरोधादेव नेति स्थाने नन्विति पाठः काचित्को हेयः, अर्थासातेश्च / व्यथेति / एतच्चाखण्डाभावानभ्युपगमेन' तदभ्युपगमे व्यर्थत्वाभावात् / विशिष्टस्यापि प्राह्यतया तदभावज्ञानस्यापि विरोधित्वाच्च / विशिष्टाभावोऽपि दोष एव / अत एव तत्साधारणमेव संप्राहकमनुपदं वक्ष्यतीत्यवधेयम् / टिप्पणी। व्यविशेषणत्वश्च प्रत्येकामावस्य समर्थत्व इति / उक्तविशेषणं विनापि साधनस्य लघुरूपेण साध्यसिद्धयनुकूलव्याप्तिमत्त्वे तद्विशेषणपटितत्वम्प्रकृते व्यर्थविशेषणत्वम् तेन स्वावच्छि. नाविषयकेत्यादेरसत्वेपि न क्षतिः /