________________ 366 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखली ( 7 कारिकाव्याख्यामा ___ व पुनरप्रयोजकोऽन्तर्भवति ? / नक्वचिदित्येके / यथाहि, सिद्धसाधनं न बाधितविषयम् , / विषयापहाराभावात् / नापि निर्णये सति पक्षत्वातिपातादपक्षधर्मः / कालातीतविलोपप्रसङ्गात् / न चानैकान्तिकादिः / व्यभिचाराधभावात्। तथाऽय. मपि / सूत्रं तुपलक्षणपरमिति // तदसत् / विभागस्य न्यूनाधिकसंख्याव्यवच्छेदफलत्वात् / क तर्हि द्वयोरन्तनिवेशः। प्रसिद्ध एव / तथाहि व्याप्तस्य हि पक्षवर्मताप्रतीतिः सिद्धिः। तद. बोधनी। सत्त्वे बाधकाभावेन तद्विरहसंभवेन साधनं मैत्रतनयत्वं प्रति तस्या अव्यापकत्वात् श्यामिका प्रति च कारणत्वेन व्यापकत्वात्कारणातिपाते च कार्यासंभवप्रसङ्ग इति विपक्षे बाधकेन कार्य प्रति कारणस्य व्यापकत्वसिद्धेः / इदं च शङ्कितोपाधेः प्रयोजकस्योदाहरणं शाकादिपरिणतेमैत्रतनयत्वं प्रति व्यापकत्वानिश्चयात् निश्चयोपाधेस्त्वधर्मत्वसाधनं निषिद्धत्वोपाधिकं हिंसात्वं गमकमिति सव्य. भिचारादिषु कुत्रान्तर्भावो अप्रयोजकस्पेति प्रसझात् पृच्छति व पुन:-इति / तत्रैकदेश्युत्तरमाह न क्वचित्-इति / कथं सव्यभिचारादिषु पञ्चस्वनन्तर्भूतो हेत्वाभासः स्यादित्याशङ्कयाह यथा हिइति / सिद्धसाधनवदयमपि पृथगेव हेत्वाभास इति संदिग्धसाध्यधर्मविशिष्टस्य पक्षत्वात् साध्यनिर्णये सति तदभावादपक्षधमः सिद्धसाधनमिति सिद्धान्तदृष्टयाशक्याह नापि-इति / एवं कालातीतोऽपि न पृथक् हेत्वाभासः स्यात् तत्रापि विपर्यनिर्णयेन साध्यसन्देहामावात् सपक्षधर्मतोपपत्ते. रिति / न च-इति / विरुद्धत्वादेस्तत्संभावनैव नास्तीति भावः / दार्शन्तिके निगमयति तथायः मपि-इति / यद्यनयो न्यत्रान्तर्भावः कथं तर्हि "सव्यभिचारविरुद्धप्रकरणसमसाभ्यसमातीतकाला हेत्वाभासा" इति विभागोदे शसूत्रमित्यत आह सूत्रं तु-इति / विभागस्य-इति / अन्यया विभा. गोई शोऽनर्थकः स्यादिति / ययनयोर्हेत्वाभासान्तरत्वं न स्यात् तर्हि सबभिचारादिषु कस्मिन्नन्तर्भाव इस्याह व तर्हि-इति / असिद्ध एवं-इति तयोर्निवेश इत्यनुषः, सिद्धिनिरूपणपुरःस. रमसिद्धिप्रकारानभिधाय तत्रैवानयोरन्तर्भावमुपपादयति तथाहि- इति / तत्रान्यथासिद्धोऽप्रयोजकः, मध्यमाप्याश्रयासिद्धिर्द्विधा भवति / आश्रयस्य धर्मिणोऽभावात् / तद्विशेषणस्य सन्दिग्ध. साध्यवर्मवत्त्वस्याभावाद्विशेष्याभाव इव विशेषणाभावेऽपि विशिष्टामावस्याविशिष्टत्वात्तयोद्वितीया प्रकाशः। क पुनरिति / पञ्चसु हेत्वाभासेष्वित्यर्थः। तत्र कस्यचिन्मतमाह / न क्वचिदिति / पञ्चभ्यो हेत्वाभासान्तरमेवेत्यर्थः / विषयेति / प्रमितसाध्याभाववद्धर्मिकत्वाभावादित्यर्थः। नापीति / साध्यनिश्चये सन्देहघटितपक्षत्वाभावादित्यर्थः / कालेति / साध्याभावस्य धर्मिणि प्रमायामपि तत्सन्देहाभावादपक्षधर्मत्वाद् बाधोऽप्यसिद्ध एवान्तर्भवत्वित्यर्थः / सूत्रं त्विति / सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः (न्याय० 1. 2. 45) इति विभागोदेशसत्रमित्यर्थः / विभागस्येति / यद्यपि विभागसूत्रं न शब्दविधया न्यूनाधिकसंख्याव्यवच्छेदं प्रत्याययति युक्तिशास्त्रत्वव्याघातादिति परीक्षकैकवाक्यतया स तेन प्रत्याय्यस्तथा च परीक्षायास्तत्र तात्पर्यावश्यकत्वे विभागसूत्रस्यापि तत्र तात्पर्यकल्पने मानाभावः / तथापि परीक्षककवाक्यतया पर्यवसित एवार्थो विभागस्य दर्शितः / द्वयोरिति / सिद्धसाधनाप्रयोजकयोरित्यर्थः / व्याप्तस्ये प्रकाशिका। रात् स्थलपङ्कजे परजपदमिवेत्यर्थः / प्राधिक्येऽपि क्वचिदन्तर्भाव एवेत्यत आह / पञ्चस्विति / साध्याभावप्रमाबाध इति मतानुसारादाह / प्रमितेति / असाधकतानुमान इति विशिष्टाभावस्य मकरन्दः। रोधादाह प्रमितेति / ननु शप्तावनुपजीव्यत्वेऽपि स्वरूप एवोपजीव्यत्वं तस्य स्यादित्यत आह