________________ तृतीयस्तवके ] . अनुमानप्रामाण्योपपादनम् / 365 तदिदमाहुः- अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः / तैदृष्टैरपि नैवेष्टा व्यापकांशाऽवधारणा // इति, तदनेन विपक्षदण्डभूतेन तर्केण सनाथे भूयोदर्शने, कार्य वा कारणं वा ततोऽन्यदा समवायि वा संयोग वा अन्यथा वा भावो वाऽभाषो पा सविशेषणं वा निविशेषणं वा लिङ्गमिति निम्शङ्कमवधारणीयम् / अन्यथा तदाभास इति रहस्यम् // तादात्म्यतदुत्पत्योरग्येतदेव बीजम् / यदि कार्याऽऽत्मानौ कारणमारमानञ्चातिपतेतां, तदा तयोस्तत्त्वं व्याहन्येत / अत एव, सामग्रीनिवेशिनश्वरमकारणादपि कार्यमनुमिमते सौगता अपि / तस्माद्विपक्षबाधकमेव प्रतिबन्धलक्षणम् / तथाहि / शाकाद्याहारपरिणतिविरहिणि मित्रातनये न किञ्चिदनिष्टमिति नासौ तस्य व्या. पिका, व्यापिका तु श्यामिकायाः, कारणत्वावधारणात्। कारणञ्च तत् तस्य, तद. तिपत्य भवति चेति व्याहतम् / एवमन्यत्राप्यूहनीयमिति // . बोधनी। निमित्तत्वमुपाधिशब्दप्रवृत्तिनिमित्तमिति / अत्रापि वार्तिकमुदाहरति तदिदमाहुः-इति / येऽपि वैशेषिकादयः “अस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्" इति (वै. सू. 9. 2. 1. ) वदन्ति तेषामपि तत्प्रतिबन्धनिश्चये तर्कसनाथं भूयोदर्शनमेव निदानम् , न च तस्मिन्सति सविशेषणनिर्विशेषयोर्बलाबलं प्रति कश्चिद्विशेषः, अन्यथा यदि तर्कसनाथं भूयोदर्शनं न स्यात् ततस्तत् सर्व लिमाभासं भवेदित्याहू तदनेन-इति / / ___ तादात्म्यतदुत्पत्तिनिबन्धनः प्रतिबन्ध इति वदतामपि तनिश्चयोपायस्तर्क एवेत्याह तादा. त्म्य-इति / तत्र तक दर्शयति यदि हि-इति / तयोः कार्यात्मनोस्तत्त्वं कार्यत्वमात्मत्वं चेति यतस्तर्क एव प्रतिबन्धबीजं न तु कार्यत्वमात्मत्वं वा, तत एव बौद्धानामयमभ्युपगमः सिद्धान्तीत्याह अत एव-इति। तस्माद्विपक्षे दण्डभूतस्तक एव प्रतिबन्धहेतुः सर्वत्रेत्युपसंहरति तस्मात्-इति / विपक्षे बाधकाभावेन सोपाधिकमुदाहरति तथाहि-इति / श्यामत्वे साध्ये मैत्रतनयत्वत्य हेतोः शाकायाहारपरिणतिरुपाधिः पक्षभूते मैत्रतनये शाकायाहारपरिणतेर प्रकाशः। अन्ये इति / ये सोपाधयस्ते परप्रयुक्तानामुपाधिप्रयुक्तानां व्याप्तीनामुपजीवकाः, तैः सोपाधिभिहेतुभिः पक्षे निश्चितैरपि, न साध्यव्यापकस्य सिद्धिरित्यर्थः / कार्यकारणसम्बन्धानामननुगमेऽप्यनुगमकमाह / तदनेनेति / अनौपाधिकसम्बन्धत्वमेव सर्वत्रानुगमकमित्यर्थः / भूयोदर्शन इति / अत्र न वारसङ्ग्यानियमः, किन्तु यावता दर्शनेन यस्य व्यभिचारशकानिवृत्तिस्तस्य तावत्वं विवक्षितमिति // परैरपि व्यभिचारशङ्काऽपसरणेऽस्मदुक्तप्रकारोऽभ्युपेयः, अन्यथा तन्निवृत्तिर्दुर्लभा इत्याह.' तादात्म्येति // व्यभिचारिण्यपि कुतस्तादात्म्यतदुत्पत्तीन स्यातामिति शङ्का सुलमेत्यर्थः। यत एव विपक्षेबाधकादविनाभावग्रहो न स्वभावकार्ययोरेवात एव बधिरादेर्मुरजाभिघातादिना शब्दायनमानमित्याह / श्रत एवेति। उपसंहरति। तस्मादिति। प्रतिबन्धो लक्ष्यते निश्चीयतेऽनेनेति लक्षणं बोधकं विपक्षबाधकमित्यर्थः। यत्र तु तदभावः, तत्राप्रयोजके न तन्निधयो यथाऽत्रेत्याह। तथा हीति। अतःशाकपाकजत्वनसाधनव्यापकमित्यर्थः। मित्रातनयत्वादिना यथोपाधि नुमीयते, तथोक्तमधस्तात् / तत् किं साधनाव्यापकत्वसन्देहवत् साध्यव्यापकत्वेऽपि सन्देह एव, नेत्याह / व्यापिका स्विति / मकरन्दः / पक्षेऽपीति। साधनव्यापकत्वनिश्चयान्न सन्दिग्धोपाधित्वमित्यर्थः। साध्याभावप्रमा बाध इति मतानु.