________________ 664 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [ 7 कारिकाव्यास्यायो प्रकाशः। अनुकूलतर्काभावेन तस्य साध्यव्यापकत्वानिधयात् / न हि सहचारदर्शनव्यभिचारादर्शनमात्राया। प्तिग्रहः / अप्रयोजकेऽपि तद्ग्रहप्रसङ्गात् / न चाप्रयोजकत्वादेव तदगमकम् / न हि व्याप्तस्य पक्षधर्मत्वेऽप्रयोजकत्वम् / सहचारदर्शनमात्रस्य संशायकत्वाच्च / न च व्यभिचारसंशयाधायकत्वेन तथापि सन्दिग्धोपाधित्वम् / स्वव्याघातकत्वेन तस्य तत्संशयानाधायकत्वात् / बाधोनीते च सा. ध्यव्यापकताग्राहकानुकूलतर्कसत्त्वात् / अत एव पर्वतावयववृत्त्यन्यत्वादिकमप्युपाधित्वेन निरस्तम् / धूमवत्त्वे साध्ये भाइँन्धनप्रभववह्निमत्त्वस्य, बहिरिन्द्रियद्रव्यप्रत्यक्षत्वे चोद्भूतरूपवत्त्वस्य, व्यापकताग्राहका प्रत्यक्षावधृतः, मित्रातनयत्वेन साध्ये श्यामत्वे साध्यशाकपाकजत्वस्य च वैद्यकाऽवधृतः कार्यकारणभावः / एवं जन्यत्वेनानिस्यत्वे साध्ये भावत्वव्यापकताप्राहको घटोन्मज्जनप्रसङ्गः / एवमन्येषा. मपि तत्तदनुकूलतर्कात् साध्यव्यापकत्वग्रहः। यत्र च साध्योपाध्योहे तुसाध्ययोाप्तिप्राहकसाम्या कत्र व्याप्तिनिष्धयस्तत्र सन्दिग्धोपाधिस्वम् / न च यत्र सन्दिग्धोपाधिः, तत्र तत एव हेतोरुपाधिः साध्यः। तत्रापि श्यामत्वादेरुपाधित्वात् / न चोभयमपि साध्यम् / अर्थान्तरत्वात् / केवलसाध्ये हि विप्रतिपत्तिर्न तूभयत्र / यत एवोपाधेः साम्यव्यापकत्वं तर्कानिधेयमत एव तुल्ययोगक्षेमत्वाभावान्न साध्यव्याप्याच्यापकत्वेन साध्याव्यापकत्वं साधनीयमिति / व्यभिचारोनयनद्वारा सा. ध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोनायकतयोपार्दूषकत्वम् / एवं चासिद्धरुपजीव्योऽप्युपाधिन हेत्वाभासान्तरम् / सिद्धसाधनवद् दूषकतायां परमुखनिरीक्षकत्वेन स्वतो दूषकत्वाभावात् / न ह्यन्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यस्य साध्यव्याप्यत्वज्ञाने प्रतिबन्धकमिति // . अन्वर्यत्वमुपाधिपदस्याह / तद्धर्मेति / यद्धर्मोऽन्यत्र भासते स एवेपाधिपदवाच्यो यथा जवाकु. सुमं स्फटिके / तथा यवृत्तिव्याप्यत्वं साधनत्वाभिमते भासते, स धर्मस्तत्र हेतावुपाधिरिति समव्याप्ते उपाधिपदं मुख्यं, विषमव्याप्ते तु साध्ययापकत्वादिगुणयोगाद्गौणमुपाधिपदमित्यर्थः / प्रकाशिका। दूषणान्तरमाह सहवारदर्शनेति / तथा च संशयसामग्री न निधायिकेति भावः / न च यत्रेति पने साधनाव्यापकसन्देहप्रयुक्तं यत्र सन्देहोपाधित्वं सन्दिग्धत्वं मैत्रतनयत्वादी हेतौ शाकपाकजत्वादेस्तत्र मैत्रतनयत्वादित्यत्र हेतोरेव शाकपाकजत्वादिकं साधनीयमिति साधने साध्यव्यापकत्वनिश्चयान्नोगाधिरित्यर्थः / अर्थान्तरत्वादिति / इदमापाततो वस्तुत उभयसाधनेऽपि प्रत्ये. कस्य प्रत्येकमुपाधित्वमिति द्रष्टव्यम् / परमुखेति / अनुमितिपरामर्षान्यतरसाक्षादविरोधित्वेने. त्यर्थः / उपाधिपदं मुख्यमिति / योगरूढ़थुभयपुरस्कारेणेत्यर्थः / गौडमिति / केवलरूढ़िपुरस्का मकरन्दः। निवर्चनं बोध्यम् / तत एव हेतोरिति। मित्रातनयत्वादेव शाकपाकजत्वमुपाधिः साध्यः / टिप्पणी। विधेन केनापि धर्मेण साधने पक्षधर्मेण वावच्छिन्नस्य साध्यस्य व्यापकत्वात् गन्धादथवच्छिन्नसाध्यध्यापकत्वेऽपि तेनोपाधिव्यभिचारेण विशिष्टसाध्यव्यभिचारे साधनोये विशेषणव्यभिचार एव तस्य पर्यवसानाद् विशेष्यव्यभिचारस्य केवलान्वयित्वग्राहकमानेन बाधितत्वात् उक्तपश्चम्यन्तं हिताशधर्माभावं गमयद् विशिष्टाव्यापकत्वे हेतुरिति भावः / तर्क विनापि सन्दिग्धोपाधौ साध्यव्यापकत्वनिश्चायकत्वमाशक्य निराकरोति न च यत्र सन्दिग्धोपाधिरिति / तत एव हेतोरुपाधिरिति / तस्य मित्रातनयत्वस्य हेतोःपक्षे उपाधिसन्देहात् साध्यव्यापकत्वसन्देहस्तत्र तत एव मित्रातयनत्वहेतोः पक्षे आधिनिधित्य साध्यव्यापकत्वं निश्चेयमित्यर्थः। अत एव तुल्ययोगक्षेमत्वाभावादिति / साच्यसाधनयोाप्यव्यापकभावप्राहकतर्काभावादुपाधिसाध्ययोस्तद्ग्राहकतर्कसम्भवान्न तुस्ययोगक्षेमतेत्यर्थः।