________________ सृतीयस्तवके) अनुमानप्रामाण्योपपादनम् / 363 प्रकाशः। .. सांध्यव्यापकत्वसाधनाव्यापकत्वे एक दृषकताबीजम् / न च पक्षधर्मावच्छिन्नसाधनावच्छिन्नसाध्यव्यापकोपाधिव्यभिचारेण साधनस्य साध्यव्यभिचारोन्नयनेऽर्थान्तरं, विशेषणाव्यभिचारित्वेन निधिते साधने विशिष्टव्यभिचारस्य सिध्यतो विशेष्यसाध्यव्यभिचारमादाय पर्यवसानात् , पक्षधर्मताबलात्। न च पक्षधर्म तावललभ्याऽर्थसिद्धावान्तरत्वं, व्यक्तिसाधकानुमानमात्रे तदापत्तेः / भवतु वाऽर्थान्तरं, तथापि हेतुराभास एव / अर्थान्तरस्य पुरुषदोषत्वात् / हेत्वाभासान्तरस्य च तत्राभावादुपाधिरेव भावत्वादिकं दोषस्तत्रोद्भाव्यः। अपि च यः साधनव्यभिचारी साध्यव्यभिचारोन्नायकः स एवोपाधिः / व्यभिचारोन्नायकत्वञ्च साक्षात्परम्परया वेति नार्थान्तरत्वम् / न चवं शब्दोऽभिधेयः प्रमेयत्वादित्यत्राश्रावणत्वं जलं प्रमेयं रसवत्वादित्यत्र पृथिवीत्वमुराधिः स्यादिति वाच्यम् / केवलान्वयित्वप्राहकमानबाधादुपाधेविशिष्टाव्यापकत्वात् / न च स्वव्याघातकत्वेनानुपाधौ पक्षेतरत्वेऽतिव्याप्तिः। प्रकाशिका। वित्यर्थः / साध्यव्यापकत्वेति / क्वचित शुद्धसाध्य यापकत्वं क्वचिदवच्छिन्नसाध्यव्यापकत्वमि. त्यर्थः / पतधर्माताबलादिति / इदञ्चापाततः, विशिष्टसाध्यव्यभिचारप्रकारकबुद्धावपि शुद्धसाध्यव्यभिचारप्रकारकबुद्धयभावेनानुमित्यप्रतिबन्धात् / तात्पर्य तु ग्रन्थकृतो विशेषणवति विशिष्टस्य व्यापकव्यभिचारित्वेन हेतुना शुद्धसाध्यव्यभिचारानुमितौ, अत एव मणिकृतोऽस्मिन् पक्षेऽरुच्या यद्वेति कृत्वा तमेव कल्पं सिद्धान्तितवन्तः एतत्तात्पर्यानुसारेणेव प्रथम(लक्षण)विशेषणमुपाधिलक्षणे मया पूरितम् प्रकाशलिखितपक्षाश्रयणे तु तदपि विशेषणं न देयमित्यवधेयम् / साधनव्यभिचारीति / साधनं व्यभिचारि यस्य स तथा साधनाव्यापक इति यावत् एवञ्च साधननिष्टेन ययभिचारित्वेन साधनस्य साध्ययभिचारित्वं साक्षात् परम्परया वानुमातुं शक्यत इत्यर्थः / परम्परा च विशिष्टव्यभिचारानुमानद्वारिका अयमेव पूर्वतो भेद इति भावः / मकरन्दः। विरोधः, तस्य यथाश्रुताभिप्रायेण साधनाव्यापकत्वसाध्यव्यापकत्वांशाभिप्रायेण वा सर्वसमाघेयत्वात् / पर्वतत्वरूपपक्षधर्मावच्छिन्नवहिव्यापकत्वादिना पाषाणवत्वादिप्रहेऽपि धूमे न तदुन्नयनं. बाधात् / तदवतारे व्यभिचारानुमितेभ्रमरूया इष्टत्वात् / अस्तु वा व्यभिचारिपदं व्यभिचारित्वसमनियतधर्मान्तरपरम् / स चैवं तेनैव तदुनयनापत्तिः, स्वरूपेणैव तस्य ज्ञानात्। तथा च नियतत्वास्फुरणदशायां तदभावात् / तथापि च तस्य तदुन्नायकत्वे बाधकानभिधानाच्च / केचित्तु यद्वयभिचारित्वेनेत्यादिकमेव लक्षणम् / इदन्तु येन रूपेण ज्ञातस्य तस्य व्यभिचारानुमापकत्वं तन्निर्वचनम् / तथा च लक्षणमित्यस्य व्यभिचारानुमापकतावच्छेदकमित्यर्थ इत्याहुः। विस्तृतमिदमनुमानप्रकाशे / साधनेति / साधनं व्यभिचारि यस्य, साधनाव्यापक इत्यर्थः / अत्र स्वव्यभिचारित्वेनेति शेषः / तेन तदुन्नायकाप्रयोजकत्वादौ नातिप्रसङ्गः / एवञ्च साधनव्यभिचारिपदं स्वरूप टिप्पणी। च यत्किञ्चिद्धर्म उक्तरूयो गृह्यते / साध्यव्यभिचारोन्नयनेऽर्थान्तरमिति / उक्तोपाधिव्यभि चारेण व्यायीभवद्विशिष्टव्यभिचारस्यैव साधनीयता न च साभिमतेति भवत्यर्थान्तरम् / व्यक्तिसाध कानुमानमात्रेतदापत्तेरितिजातेरेकत्वात् पक्षधर्मताबलादपिव्याप्तिनिरूपकत्वेन गृहीतैव सिद्धयतीति व्यक्तीति / व्यक्तिव नानाविधा साधयितुरभिमता पक्षीया व्यक्तिः न व्याप्तिनिरूपकत्वेन प्रहीतुं शक्या, अन्या चबाघितेति सामान्यमेव साध्यते पक्षधर्मतावलादेव चाभिलषितव्यक्तिविशेषपर्यवसानम् / भवतु वार्थान्तमिति / यद्वा प्रत्यक्षस्पर्शाश्रयत्वं द्रत्यक्षत्वव्यभिचारि द्रव्यत्वाव्यभिचारित्वे सति द्रव्यत्वविशिष्टप्रत्यक्षत्वव्यापकोद्भुतरूपव्यभिचारित्वात् महत्ववदिति साधने नार्थान्तरतालेशोपीति / न्यक्तं चैतचिन्तमणाविति / केवलान्वयित्वग्राहकमानबाधादिति / यद्वयभिचारिसाधनमेवं