________________ 362 व्याख्यात्रयोपेतप्रकाशोधनीयुते न्यायकुसुमाजली [7 कारिकाव्याख्यायां प्रकाशः। पुनः, पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वम् / यद्धर्मावच्छेदेन साध्यं प्रसिद्धं, तदवच्छिन्नं साध्यं पर्यवसितम् / तत्रार्दैन्धनप्रभवत्वाद्युपाधौ महानसत्वाद्येव तादृशो धर्मः / तदवच्छेदेन साध्यस्य धूमस्य प्रसिद्धः / पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधी द्रव्यत्वं, साधनावच्छिन्नसाध्यव्यापकोपाधौ च साधनमेव तथा / तथा च तदच्छिन्नसाध्यव्यापकोपाधिव्यभिचारेण साधनस्य साध्यव्यभिचारः स्यादेव / व्यापकव्यभिचारिणस्तव्याप्यव्यभिचारित्वनियमादिति // प्रकाशिका। साधने साध्यव्यभिचारित्वमनुमातुं शक्यत इत्यर्थः / अत एवाकाशे साध्ये घटादेरनुपाधित्वम्, आकाशव्यभिचारित्वे साध्ये घटव्यभिचारित्वस्य व्यर्थविशेषणतया सल्लिङ्गत्वाभावात् प्रथमविशेषण. पूरणेन चावच्छिन्नसाध्यव्यापकस्यापि संग्रहों न चातिप्रसङ्गः इदश्च सकलसंग्राहकम् / दूषकताबीजं तु भिन्नभिन्नमेव अन्यथा निरुक्तोपाधिज्ञानकाल एव व्यभिचारस्फुरणादस्य व्यभिचारोन्नायकत्वं न स्यात् / लक्ष्यतावच्छेदकमुक्त्वा सकलसंग्राहकं लक्षणमाह / पर्यवसितेति / यत्र साधनाव्या. पकत्वं तवृत्तिधर्मसामानाधिकरण्यं पर्यवसितपदार्यः, तेन महानसत्वावच्छिन्नसाध्यव्यापकं व्यजनवत्वं नोपाधिः, वहिसाध्यकधूमसाधने, इदमपि संग्राहकमात्रम् न तु सर्वत्र प्रतिबन्धकज्ञानविषयः, शुद्धसाध्यव्यापकत्वेनापि ज्ञातस्य प्रतिबन्धकत्वात् , अवच्छिन्नसाध्यव्यापके विदमेव(साध्य)प्रतिब. न्धकहानविषयः, तेनानुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वमुपाधित्वमिह निरूपयितुमुपक्रान्तमिति प्रागुक्तेन न विरोधः / यद्धविच्छेदेनेति / यद्धर्माधिकरण इत्यर्थः, स च धर्मः साधनाधिकरणोपाध्यनधिकरणवृत्तिरभिमतस्तेन प्रागुक्तार्थलाभः। महानसत्त्वादोति / आर्दैन्धनशून्य. तत्संयुक्तमहानसत्तिर्धर्म इत्यर्थः / द्रव्यत्वमिति / वायुर्बहिरिन्द्रियप्रत्यक्ष : प्रत्यक्षस्पर्शाश्रयत्वादिस्यत्र रूपवत्वोपाधिरित्यर्थः / साधनमेवेति / धूमों विनाशी जन्यत्वादित्यत्र भावत्वोपाधा. मकरन्दः / त्यर्थः / न चाकाशादिसाध्यकहेतो घटादेपाधिताऽऽपत्तिः, यस्य पर्यावसितसाध्यव्यापकस्य व्यभिचारित्वेनेत्यर्थात् / तच्च क्वचिद्विशेषितं व चिदविशेषितञ्च लिङ्गमित्यन्य देतत् / साधनाव्यापकत्वं व्यभिचारिसाधनाव्यापकत्वम् / तेन महानसत्वाद्यवच्छिन्नवह्निव्यापके धूमाव्यापके व्यञ्जनवत्वादौ नातिप्रसगः। नन्वेवमुपाधिज्ञानकाल एव व्यभिचारभाने तदुनायकत्वमस्य न स्यादिति चेत् / भ्रान्तोऽसि / न त्यनेनैव रूपेण ज्ञातस्यास्य तदुन्नायकत्वं, किन्तु शुद्धसाध्यव्यापकत्वादिना / इदन्तु सकलसप्राहकमात्रम् / साधारणादीनामुभयकोटयुपस्थापकत्ववत् / इदश्च सर्वैरेवाभ्युपेयम् , अन्यथा पर्यावसितत्वायस्फुरणे : शुद्धसाध्यव्यापकत्वस्फुरणेऽपि तदुन्नायकत्वं न स्यात् / न चानुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूपयितुमुपक्रान्तमिति प्रागुक्त टिप्पणी। हप्रसक्तावप्रामाणिकत्वशानिरासाय याद्भावनस्य करणीयत्वात् , प्रमाणसंप्लवस्यात एवायमात्मा गौर इत्यादौ दर्शितत्वात् / अथवा साध्यव्यापकतानिर्णायकतर्कविरहेऽपि पक्षातिरिक्ते तन्निर्णयात् सामान्यतस्तत्संशयाद्वा पक्षेतरत्वस्योपाधित्वे स्वस्योपाधित्वस्यैव व्याघातात् साध्यव्यतिरेकानुमापकव्य तिरेकप्रतियोगित्वेन साध्यव्यभिचारानुमापकव्यभिचारकत्वेन वा वाच्यतया तत्राप्यनुमाने पक्षेतर त्वस्येवोपाधित्वसम्भवेनानुमानासम्भवादसम्भवादिति भावः / यद्धविच्छेदेन साध्यम्प्र. सिद्धमिति। साध्यस्य यत्राधिकरणे' उपाधिव्यतिरेकस्तव्यावृतो यः कश्चन धर्मः प्रकृतपक्षनिष्ठः माध्यः पक्षे सिद्धयन् तत्समानाधिकरण एव सिद्धयतीति तदवच्छिन्नं साध्यम् पय॑वसितसाध्यम् / एवञ्च प्रकृतसाध्यनिष्टोपाध्यव्यभिचारित्वनिरूपककिश्चिद्धविच्छिन्नसाध्यव्यापकत्वे सतीति प्रथमदलार्थः, स