________________ तृतीयस्तवके ) अनुमानप्रामाण्योपपादनम् / 361 - प्रकाशः। त्यत्वसम्बन्धः, शाकाकजत्वव्यावृत्या श्यामत्वमैत्रातनयत्वयोः सम्बन्धध। पक्षधर्मताबलाचानित्यत्वश्यामत्वाभावयोः पर्यवसानम् / तथा, वायावुद्भूतरूपवत्त्वं व्यावर्त्तमानं द्रव्यत्वे सति प्रत्यक्षत्वं निवर्तयत् , प्रत्यक्षत्वाभावमादाय सिद्धयतीति सर्वत्र पक्षे साध्याभावसिद्धया साध्यसाधनसम्बन्धाभावोऽस्ति / अत एव साधनावच्छिन्नादौ साधनव्यापकोऽप्युपाधिः, यत्र पक्षावृत्ति हेतुः / यथा, करका पृथिवी कठिनसंयोगवत्त्वादित्यत्रानुष्णाशीतस्पर्शवत्वमुपाधिः। न च स्वरूपासिद्धिरेव तत्र दोषः, सर्वत्रोपाघेर्दूषणान्तरसकरात् / एतेन बाधानुनीतपक्षेतरत्वस्योपाधित्वं निरस्तम् / स्वव्याघातकत्वेन तद्वयतिरेकस्य साध्याव्यावर्तकत्वात् // अस्मपितृचरणास्तु-यद्वयभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं, स उपाधिः, लक्षणं - प्रकाशिका। शक्यत इत्यर्थः। नन्वेवं सम्बन्धव्यावृत्त्यनुमानेऽपि न साध्यव्यावृत्तिरनुमितेति न तद्गर्भलक्षण: संभवस्तत्रेत्यत आह / पक्षधर्मताबलाच्चेति / अत एवेति / इदञ्च कदेशिमतेन तन्मते च साधनवतीत्यत्र पक्ष इति लक्षणे देयम् / साध्यसाधनसम्बन्धव्यापकत्वे सति पक्षवृत्तित्त्वमेव चोपाधिताप्रयोजकमिति बाधोत्थापकतयाप्युपार्दोषत्वम् / अत एवेत्यस्य यत एव तादृशोपाधिव्यावृत्या पक्षसाध्यव्यावृत्त्यनुमितिरित्यर्थः / साधनेति। साधानावच्छिन्नसाग्यव्यापकोपाधौ साध्य इत्यर्थः / इदञ्चैकदेशिंमतमयुक्तम् / पक्षवृत्तेरनुपाधितापत्तेः, नचेष्टापत्तिः, घटः प्रत्यक्षो द्रव्यत्वादित्यत्र द्रव्यत्वावच्छिन्नसाध्यव्यापकप्रत्यक्षपरिमाणवत्त्वोपार्व्यभिचारोनायकस्योपाधित्वेन व्यवहारादिति / व्यभिचारोत्थापकत्वगर्भमुपाधिस्वरूपमाह / ' यदव्यभिचारित्वेनेति / साध्ये उपाधिव्याप्यताप्रयोजको यो धर्मस्तद्वत्त्वविशेषणातिरिक्तविशेषगाविशेषितेन सलिनीभूतेन यद्व्यभिचारित्वेन भावसिद्धेरुद्देश्यत्वादित्यत आह पक्षधर्मतेति। अत एवेति। यत एव तादृशोपाधिव्यावृत्याऽपि पक्षे साध्यव्यावृत्यनुमितिरित्यर्थः / तथा च साध्यव्यापकत्वे सति पक्षावृत्तित्वमेवोपाधित्वे प्रयोजकमिति बाधोत्थापकतयोपार्दोषस्वमित्येतन्मततात्पर्य्यम् / साधनेति / साधनावच्छिन्नसाध्यव्यापकादावुपाधौ साध्ये इत्यर्थः / ___ नन्वेवं पक्षवृतिरुपाधिर्न स्यात् तद्वयतिरेकस्य पक्षे साध्याव्यापकत्वात् / न चेष्टापत्तिः, तस्याप्युपाधित्वेन व्यवहारात् / न च पक्षपदं साधनवत्परं, तथा चान्यत्र क्वचित् साधनवति साध्यव्यावर्तकस्वाद्वयभिचारझानद्वारैव तस्य दूषणत्वमिति वाच्यम् / अनुग्णाशीतस्पर्शत्वस्यैवमनुपाधितापत्तेः, तस्य साधनव्यापकत्वेन साधनवति स्वव्यावत्या साध्याव्यावर्तकत्वादित्यरुचेराह अस्मरिपतचरणास्त्विति / यद्वयभिचारित्वेन लिङ्गेन साधनस्य साध्यव्यभिचारित्वमनुमीयते, स उपाधिरि टिप्पणी। दिति / उक्तानुमानात् प्राक् नित्यस्य परमाणोरसिद्धर्व्यभिचारादिति / साध्यसाधनसम्बन्धाभावसिद्धावान्तरं स्यात् साध्याभावस्यैव साधनीयत्वादित्यत आह पक्षधर्मताबलाच्चेति / द्रव्यत्वे सति प्रत्यक्षवनिर्वत्तयत् इति / यद्यपि प्रत्यक्षत्वं सामान्यतः साध्यं तस्य साधनेन सम्बन्ध विनाप्युत्भूतरूपन्नात्मन्यस्ति, तथापि पचे प्रत्यक्षस्वमनुमानात् सिद्धथद् , बहिरिन्द्रियजन्य. प्रत्यक्षरव एव पर्यवस्यतीति पर्य्यवसितसाध्यसाधनसम्बन्धव्यावृत्ती तात्पर्यम् / अत एवेति / यत एव येनोपाधिना स्वव्यतिरेकेण पक्षे साध्यसाधनव्यावृत्तिर्भवति तस्योपाधित्वादेवेत्यर्थः / वाधोत्थापकतयेव चोपार्दूषकत्वमित्येतन्मततात्पर्यम् / स्वव्याघातकत्वे न तयतिरेकस्येति / यदि पक्षेतरत्वमुपाधिः स्यात् , क्वापि तदेव न सिद्धयेत यत्र तत् साधनीयन्तदितरत्वस्य तत्राप्युपायेः सम्भवात्। न च प्रत्यक्षसिद्धमतीन्द्रिये तथापि हि तव्यावृत्तं स्यात् प्रत्यक्षमिद्धेऽपि वा प्रत्यक्षसदोषतासन्दे. 46 न्या० कुछ