________________ 360 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलो [7 कारिकाव्याख्ययां AniranamaAAAAme प्रकाशः। उपाधिः स्यात् / द्वथणुकस्य सावयवत्वे सिद्धे, दूधणुकं द्रव्यसमवेतं जन्यमहत्त्वानाधारद्रव्यत्वादित्यत्र निःस्पर्शद्रव्यसमवेतत्वं चोपाधिः स्यात् / नित्यद्रव्यसमवेतत्वस्य पवसितस्य साध्यस्य व्यापकत्वात्। साधनाच्यापकत्वाच। अथ साध्यसाधनसम्बन्धव्यापकत्वे सति साधनाव्यापक उराधिः, तेन ध्वंसस्य जन्यत्वेनानित्यत्वे साध्ये यद्यपि भावत्वं प्रागभावे साध्यव्यापक तथापि जन्यत्वे सति यदि नित्यत्वं तद्व्यापकस्वादुपाधिरिति / न / इदमसाधकं साध्यसाधनसम्बन्धव्यभिचारित्वादित्यत्र साध्यव्यभिचारित्वादित्यस्यैव गमकत्वे शेषवयापत्तः। सम्बन्धव्यभिचारानुमानेऽर्थान्तरत्वापत्तेध / यद्विशिष्टे साधने साध्यसामानाधिकरण्यं स उपाधिरिति चेन्न / रासभादीनामप्युपाधित्वापत्तेः। तद्विशिष्टेऽपि साधने साध्यसम्बन्धात् / यद्विशिष्ट एवेति चेत् / न / प्रमेयत्वादेरप्युपाधित्वापत्तेः / यद्विशिष्ठे साधने साध्यसामानाधिकरण्यमस्त्येवेति चेत् / न / गुरुत्वेन रसवत्त्वे साध्ये गन्धवत्त्वादेः साध्याव्यापकस्याप्युपाधित्वापत्तः // __ अथोपाधिमात्रस्य व्यतिरेकिधर्मत्वं, क्वचित् बाधोनीतस्य पक्षेतरत्वस्याप्युपाधित्वात् / तत्तदु. पाश्च तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वं, वह्निधूमोपाधेस्तु न लक्षणं लक्ष्याभावात् / न च पर्वतेतरत्वं वह्निधूमसम्बन्धोपाधिः स्यात् / आपाधाप्रसिद्धः। न च पक्षतरत्वं वह्निव्यापक कुतो न भवतीति वाच्यम् / एतस्योपाधिलक्षणप्रस्तावे अर्थान्तरत्वादिति मतम् / तन्न / अनुमितिप्रतिबन्धकज्ञानविषयत्वावच्छेदकमुपाधित्वमिह निरूपयितुमुपक्रान्तम् , अन्यस्याप्रयोजकत्वात् / तञ्च न व्यतिरेकिधर्मत्वम् / अतिप्रसङ्गात् / किन्तु साधनाव्यापकत्वे सति साध्यव्यापकत्वम् / तच पक्षेतरेऽतिव्याप्तमेवेत्युक्तम् // . अत्राहुः / यद्वधावृत्या यस्य साधनस्य साध्यं पक्षे त्र्यावर्त्तते, स धर्मस्तत्र हेतावुपाधिः / स च धर्मः कतमो भवति, यस्य व्यावृत्तिः साध्य साधनसम्बन्धविरोधिनी / यथाऽऽन्धनवत्त्वं वहिमत्त्वे / व्यावर्तते हि तयावृत्या धूमवत्त्वं तप्तायःपिण्डे। व्यावर्त्तते च भावत्वव्यावृत्या ध्वंसे जन्यत्वानि प्रकाशिका। असमक्तत्वपर्यवसानवारणायाह / सावयवत्व इति / जन्येति / जन्यमहत्वं महत्त्वावान्तरजाति. रेवेति न वैयर्थ्यम् / वस्तुतः परमाश्वसिद्धौ मनसोऽणुत्वासिद्धौ चासाधारण्यं स्यादिति जन्यपदम् तथा सति च गगनमेव दृष्टान्त इति भावः। निःस्पर्शति / द्रव्यपदमत्र समव्याप्तोपाध्यभिप्रायकम् / रासभादीनामिति / रासभविशिष्टे धूमे वह्निसामानाधिकरण्यादित्यर्थः / रासभादावतिप्रसज्जे सत्येव दोषान्तरमाह / गुरुत्वेनेति / रसवत्त्वे रसयोग्यत्वे / अन्यथा हरीतक्यादौ व्यभिचारेण नियमासिद्धेः। यद्व्यावृत्त्येति / यद्व्यावृत्या सलिलीभूतया साधनवति क्वचिदपि साध्यव्यावृत्तिरनुमातुं मकरन्दः / भावः / असमवेतत्वपर्यवसानवारणायाह / सावयवत्वे इति / जन्येति / परमाणुसिद्धिदशायां मनसोऽणुत्वादिसिद्धिदशायाश्च गगनादौ व्याप्तिग्रहार्य जन्यपदम् / अखण्डाभावे न चैयर्थ्यमिति / निस्पर्शति / अत्र द्रव्यादं समव्याप्तत्वाभिप्रायेण / रासभादावतिप्रसङ्गे सत्येव दूषणान्तरमाह गुरुत्वेनेति / रसवत्त्वे = रसयोग्यत्वे / अन्यथा विशिष्टस्यापि हरीतक्यादौ ब्यभिचारेण नियमासिः। यद्यावृत्त्येति / पक्षे यद्यवृत्या यस्य साधनस्य साध्यव्यावृत्तिरनुमीयते इत्यर्थः / साध्यसाधनसम्बन्धव्यापकत्वाभिप्रायेणा भावत्वेति / नन्वेवं सम्बन्धाभावसाधनेर्थान्तरं साध्या टिप्पणी। जन्यमहत्त्वानाधारद्रव्यत्वादित्यत्रेति / परमाण्वसिद्धदशायां मनसोऽणुत्वासिद्धिदशायाश्चाकाशादौ व्याप्तिप्रहार्य जन्येति / अखण्डाभावधटकतयाच सार्थक्यम् / पर्यवसितसाम्यस्य व्यापकत्वा