________________ तृतीयस्तवके] . अनुमानप्रामाण्योपपादनम् / 354 - प्रकाशः। पातनिहार्थमुपाधिर्वाच्य इति चेत् / न / एवं सति प्रकृतानुमाने उपाघेरदूषणत्वापत्तेः / मत .एव पक्षधर्मावच्छिषसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिरित्यपास्तम् / आर्दैन्धनवत्वादौ नियततास्शधर्माभावेनाव्याप्तेश्च / शब्दोऽभिधेयः प्रमेयत्वादित्यत्र शब्दधर्मगुणस्वावच्छिनाभिषेयत्वव्यापकस्याश्रावणत्वस्योपाधित्वापाताच्च / नापि पक्षावृत्तित्वे साध्यव्यापकत्वमुपाधित्चम् / शब्दोअनित्यः गुणत्वादित्यत्र कृतकत्वस्य शब्दवृत्तेरनुपाधित्वापातात् / न च स्फुटे व्यभिचारे निष्फलमुपाध्यनुसरणमिति वाच्यम् / व्यभिचारेऽवश्यमुपाधिसत्त्वात् / अन्यथैकत्र साधने साध्यतदभावसबन्धस्यावच्छेदभेदं विनाऽनुपपत्तः // अथ पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः / पर्यवसितं च साध्यं पक्षधर्मताबललभ्यम् / यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् प्रमेयत्वादित्यत्र यथोक्तसाध्याव्यापकत्वेऽपि पक्षधर्मताबललभ्यस्यानित्यत्वस्य साध्यस्य व्यापकं कृतकत्वमुपाधिः, कृतकत्वे चैवं साध्यमानेऽनित्यत्वमुपाधिः। तन्न / पक्षधर्मतावललभ्यसाध्यसिद्धौ हि निष्फल उपाधिः, तदसिद्धौ च कस्य व्यापकः / / न हि सोपाधौ पक्षधर्मताबलात् साध्यं सिद्धयति, यद्व्यापक प्रकाशिका। तथापि विशेषणस्य साध्येऽवच्छेदकत्वमाश्रित्येदं दूषणमुक्तम् / वस्तुत प्रात्मा प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र साधनावच्छिन्नसाध्यव्यापकरूपवत्वोपाधावव्याप्तिरिति दृषणं द्रष्टव्यम् / नन्वस्योपावे. यभिचारोनायकत्वमसम्भवि यथाश्रुतसाध्यस्य केवलान्वयित्वात् पर्यवसितसाम्यव्यभिचारस्थ प्रकृ. तानुमानादूषणत्वात् तथा च सत्प्रतिपक्षोन्नायकतया दूषणत्वं वाच्यम् तच्चासम्भवि, कृतकत्वस्याप्युक्तरीत्या शब्दे सिद्धौ तव्यतिरेकस्य हेतौ स्वरूपासिद्धरत आह / कृतकरवे चेति / तथा चोपाधिदातुर्मते शब्दे कृतकत्वमसिद्धमेवेति तद्व्यतिरेकेण सत्प्रतिपक्षत्वमविकलमेवेति भावः / मकरन्दः। पदाद्यभिचारादिपरिप्रहः / अन्यतरव्यतिरेकेऽप्यन्यतरसत्त्वे लिङ्गस्यासमीचीनत्वादित्यर्थः। ननु साधनावच्छिन्नसाध्यस्य पक्षेऽपि सत्त्वात्तदव्यापकतया नातिप्रसङ्ग इत्यनुशयादाह पक्षधम्मति / पायुः प्रत्यक्षः प्रमेयत्वादित्यादावुद्धृतरूपवत्वायुपाधावव्यापनादित्यर्थः / श्राद्धनषत्वादाविति / यद्यपि द्रव्यत्वादिकमवच्छेदकं सम्भवत्येव तथाप्यवच्छेदकस्य साध्ये व्याप्यतावच्छेदकत्वमभिप्रेत्यतदुक्तम् / तदिदमाह नियतेति / नियतावच्छेदकेत्यर्थः / धूमत्वस्यैवानॆन्धनव्याप्यतावच्छेदकत्वा. दिति भावः / वस्तुतः प्रागभावो विनाशी जन्यत्वादित्वादी भावत्वाद्यपाध्यव्याप्तिर्बोध्या। शब्दोऽभिधेय इति / एतच्च पक्षातिरिक्तसाध्यव्यापकत्वमादाय बोध्यम् / व्यभिचार इति / अस्फुटत्वदशायां तदनुसरणसम्भवाच्चेत्यपि द्रष्टव्यम् / यथेति / ययप्यत्र व्यभिचाराभावात्तद्वयाप्तोपाधेरनुपपत्तिः, तथापि सत्प्रतिपक्षे विरोधमात्रस्य तन्त्रत्वेन पर्य्यवसितानित्यत्वरूपसाध्याभावसाधनद्वारा तदुत्थापकतयैवोपाधित्वमित्येतन्मततात्पर्यम् / न च कृतकत्वस्य पक्षवृत्तितया तद्वयतिरेकस्यासिद्धत्वान्न तदुत्थापकत्वमपीति वाच्यम् / शब्दनित्यतावादिन उपाधिदातुर्मते शब्दस्याकृतकत्वादिति टिप्पणी। प्रत्यक्षः प्रत्यक्षगुणत्वादित्यत्र बहिर्द्रव्यत्वावच्छिासाध्यव्यापकोद्भूतरूपवत्त्व इत्यर्थः। उपाधेरदूषकतापत्तेरिति / तस्य प्रकृतसाध्यव्यभिचारोनायकत्वाभावाद् विशिष्टसाध्यव्यभिचारस्यैव तथा त्वादित्यर्थः। नियतताशधाभावेनेति / साभ्यतावच्छेदकमात्रस्यैवोपाधिव्याप्यतावच्छेदकत्वेन व्यर्थविशेषणघटितसाध्यतावच्छेदकस्य व्याप्यतानवच्छेदकत्वात् तद्धविच्छिन्नव्यापकत्वाप्रसिद्धरित्यर्थः। नियततादृशधर्मेत्यस्य नियततावच्छेदकेति तात्पर्याथः / यदि स्वतः साध्यमुपाधिव्याप्यन्न भवेद् भवेत् कश्चित् तत्सम्पादको धर्मो नियतः स नास्तीत्यक्षरार्थः /