________________ 358 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलो[ 7 कारिकाव्याख्यायां प्रकाशः। सति व्याप्यत्वात् / साधनाव्यापकत्वाच्च / विषमव्याप्तिके तु साध्यव्यापको यो धर्मस्तद्याप्यत्वमात्रेण तस्याप्यत्वम् / दृष्टं त्यनित्यत्वस्य व्यापकं प्रमेयत्वं तद्याप्यश्च गुणत्वम् / न च गुणत्वानित्यत्वयो मियो व्याप्तिः / समव्याप्तिके च तद्व्यापकव्याप्येन व्याप्तश्च तव्यभिचारि चेति व्याहतम् / मैवम् / तथापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वमात्र प्रयोजक, लापवाद् , न तु साध्यव्यापकव्याप्यत्वमपि व्यभिचारस्थलस्य स्वयैवोक्तत्वात्। न च साम्यव्याप्यव्याप्यत्वमेवानौपाधिकत्वं, साध्यव्याप्यमित्यत्रापि पनौपाधिकरवं तदेव वाच्यं, तथाचानवस्थेति / व्यभिचारव्यावर्त्तनार्थमनोपाधि त्वलक्षणे यावदिति पदं साध्यव्यापकत्वे विशेषणं प्रक्षिप्तमेव / यदि च यद्यतिरेकेऽनुमितिर्भवत्येव तद् दूषणं, तदा विरुद्धत्वादेरप्यदूषणत्वमिति यस्मिन् सत्यनुमितिर्न भवति तदेव दूषणमिति विषमव्याप्तोऽप्युपाधिः // .. अथ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः / तेन मित्रातनयत्वेन श्यामत्वे ध्वंसस्य च जन्यत्वेन ध्वंसप्रतियोगित्वे साध्ये साधनावच्छिन्नसाध्यव्यापकं शाकपाकजत्वं भावत्वं चोपाधिः / काकादौ प्रागभावे च केवलसाध्याव्यापकत्वादिति / तन्न / सोपाधित्वादसाधकमित्यत्र साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वादित्यर्थे साधनावच्छिन्नेत्यस्य वैयपित्तः / जलं प्रमेयं रसवत्वादित्यत्र रसवत्वावच्छिन्नप्रमेयत्वव्यापकस्य पृथिवीत्वस्योपाधित्वप्रसमात् / पक्षधर्मावच्छिमसाध्यव्यापकोपाध्यव्याप्तेश्च / किञ्च, विशिष्टसाध्यव्यभिचारं प्रसाध्य केवलसाध्यव्यभिचारः साध्यः तत्र चाऽर्थान्तरम् / केवले साध्ये हि विप्रतिपत्तिन तु विशिष्टे / प्रकृतसाध्यव्यभिचारसिद्धयर्थं विशि. ष्टव्यभिचारः साध्यवति इति चेन्न / अप्राप्तकालत्वात् / प्रथम साध्यव्यभिचार एवोद्भाव्यस्तत्रासिद्धौ प्रकाशिका। तथापीति / तथा च साध्याव्यापकोऽप्युपाधिः स्यादिति भावः / तत् किं साध्यव्यापकव्याप्यत्वमेवानोपाधिकत्वं तथासत्यनित्यत्वव्यापकप्रमेयत्वव्याप्यगुणत्वस्यानित्यत्वव्याप्यतापत्तिरित्यत आह व्यभिचारीति। साध्यव्यापकत्वे तदगर्मलक्षणे साध्यव्यापकात्यन्ताभावस्येति शेषः। यदि. चेति / यद्यपि समव्याप्तिकोपाधिव्यतिरेकिणापि नानुमितिनियमः, स्वरूपासिद्धे व्यभिचारात्तथापि पक्षवृत्तिरघे बाधप्रतिरोधाभावे च यदव्यतिरेके सति लिङ्गस्य समीचीनत्वनियमः, तद् दूषणमित्यर्थः / विरुद्धत्वादेरिति / श्रादिपदाद् व्यभिचारित्वपरिप्रहः, तयोरन्यतरव्यतिरेके केवलान्ययिन्यतरसत्त्वेन लिङ्गस्यासमीचीनत्वादित्यर्थः / साधनावच्छिन्नसाध्यव्यापकोपधावव्याप्तिरिति यदुक्तं तत् परिहारमात्राभिप्रायेण शकते। साधनेति। आन्धनववादोविति। यद्यपि तत्र प्रमेयत्वमेव तथा। मकरन्दः / . योर्व्यभिचाराभावापादकमित्यर्थः / अभावः साधनव्यापकत्वम् / तत् किं साध्यव्यापकव्याप्यत्वमेवानौपाधिकत्वं, तथा चोक्तगुणत्वाद्यतिप्रसङ्ग इत्यत आह व्यभिचारीति / यदि चेति। ननु समव्याप्तव्यतिरेके व्यभिचाराभावनियमेऽप्यनुमितिनियमो नास्ति, हृदोऽग्निमान् धूमादित्यादौ ताहशोपाधेरभावेऽपि स्वरूपासिया अनुमित्यभावादिति चेत् / न / पक्षवृत्तित्वे बाधप्रतिरोधाभावे च सति यद्वयतिरेके लिङ्गस्य समीचीनत्वनियमस्तद् दूषणमित्यर्थात् / विरुद्धत्वादेरिति / श्रादि टिप्पणी। उपाधेः साधनाव्यापकत्वगत्वेन व्याप्यत्वे साधनस्य सत्ति तदसम्भवात् / व्यभिचारस्थलस्यवयवोक्तस्वादिति / तथा चोपाध्यभावो व्यभिचारानुमाने व्यर्थविशेषणत्वं तवेति भावः / अनौ. पाधिकत्वलक्षणे यावदिति यावत्साधनव्यापकव्याप्यत्वमिस्यनौपाधिकत्वलक्षणे तथा चानुपाधिस्वे. नाव्यभिचारानुमानस्य न ममापि हानिरिति भावः। पचेतरत्वे दोषस्त्वस्त्येवाव्याप्तिमात्रवारणायाह अथ साधनावच्छिन्नसाध्येति। पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधीति / वायुः