________________ तृतीयस्तव ] . अनुमानप्रामाण्योपपादनम् / प्रकाशः। न्यसाधारणत्वाभावात् पचेतरत्वस्योपाधितापत्तिश्च / अपि चैवमन्धकारो द्रव्यं स्वातन्त्र्येण प्रतीय. मानत्वात् त्र्यणुकवदित्यत्राश्रावणत्वमुपाधिन स्यात् / तद्यतिरेकस्य पक्षावृत्तित्वात् / न च नाय मुपाधिः, तल्लक्षगसत्त्वात् / पर्वतावयववृत्यन्यत्वादिकश्चैवमप्युपाधिः स्यादेव / तव्यतिरेकस्यासाधारणत्वाभावात् / यत्त, पक्षेतरत्वस्य प्राहकसाम्यात् साध्यव्यापकत्ववत् साध्याभावव्यापकत्वात्तन्निवृत्त्या साध्यसाध्याभावाभ्यां निवर्तितन्यं / न चैवमिति तस्य साध्यव्यापकत्वे सन्देह इति / तन्न / तथापि साध्यव्यापकतापक्षमाश्रित्योपाधित्वापत्तेः // अथ साध्यसमव्याप्तत्वे सति साधनाव्यापक उपाधिरिति पक्षेतरत्वं नोपाधिः / युक्तश्चतत् / यद्धर्मोऽन्यत्र भासते तस्यैव जपापुष्पस्येवोपाधित्वात् / उपाधिवृत्ति हि साध्यव्याप्यत्वं साधनाभि. मते भासते इति तथैवोपाधिग्दप्रवृत्तिः / साध्यव्याप्यत्वमात्रश्च न दूषकमिति तस्य साध्यव्यापक त्वमपीष्यते / मैवम् / दूषकताबीजस्य विषमव्याप्तेऽपि सत्त्वात् / दूषकतायां साध्यव्याप्यत्वस्य व्यर्थत्वात् / दूषणान्तरसंकीर्णस्य चानुपाधित्वे समव्याप्तस्थापि तत्त्वापत्ते // अथोपाधिः स उच्यते, यदभावो व्यभिचारविरोधी। न च विषमव्याप्तस्याभावो व्यभिचार विरुणद्धि / यत्र हि व्यभिचारस्तत्र समव्याप्तमन्ततः साध्यमप्युपाधिर्भवत्सेव, स्वस्य स्वव्यापकत्वे प्रकाशिका। भावादित्यर्थः। यद्यपि साध्याप्रसिद्धयैव तत्र सत्प्रतिपक्षाभाषः, तथापि साध्याप्रसिद्धावपि अप्र. सिद्धसाध्यकत्र्यतिरेकिणीव व्यतिरेकत्र्याप्तिपक्षधर्मतापरामर्षातस्यान्वयव्यापिपक्षधर्मातापरामर्षप्रतिवन्धकतया सत्प्रतिपक्षत्वमुपपद्यत एवेति भावः / यद्यपि विरोधिपरामर्षसत्त्वेन प्रतिबन्धकत्वं प्रकृते च विरोधनिकाकाप्रसिद्धिः, तथापि विरोधप्रतिसन्धानमात्रमेव प्रयोजकं तच्च प्रमेयत्वमत्यन्ताभावप्रतियोगि न वेति भ्रमसंभवादस्त्येव प्रकृत इत्याशयेनेदं बोध्यम्। आकाशात्यन्ताभावादिकेवलान्वयिपरमेतत् तत्र तस्य प्रसिद्धत्वात् / तत्त्वतश्चाप्रसिद्धत्वादित्यन्ये / वस्तुत इत्येवास्वरसादाह / अपि. चेति / तथापीति / व्यभिचारसंशयाधायकत्वादिति भावः / समव्याप्त एवोपाधिः,तथा च न विषमव्याप्तावव्याप्तिर्दोष इत्युपपादयन्नाह यदभाव इति यदिदं साधनव्यापकत्वमापादितं हेती साध्यव्यभिचाराभावापादकमित्यर्थः / प्रभावः साधनाव्यापकत्वाभावः / साधनव्यापकमिति यावत् / मकरन्दः। सपक्षाभावान्नासाधारण्यमिति भावः। ययप्येवमसाधारण्याभावेऽपि साध्याप्रसिद्धथैव व्यतिरे के सत्प्रतिपक्षत्वाभावाम तस्योपाधित्वं स्यात् , तथाप्यसाधारण्यनिरासमात्राभिप्रायकोऽयं प्रन्थ इत्याहुः / वस्तुतः, साध्याप्रसिद्धावप्यप्रसिद्धसाध्य कन्यतिरेकिणीव व्यतिरेकव्याप्तिपक्षधर्मतापरामर्शसम्भवात्तस्य प्रकृतहेतुपक्षधर्मताव्याप्तिारामर्शसंवलनदशायां सत्प्रतिपक्षत्वमित्यभिप्रायकोऽयं प्रन्थः। यद्यपि विसेधिरामर्शत्वेन तथात्वं प्रकृते च विरोधनिरूपकाप्रसिद्धिः, तथापि विरोधप्रतिसन्धानमेव तत्प्रयोजकम् / तच्च प्रमेयत्वमत्यन्ताभावप्रतियोगीति भ्रमसम्भवात् सम्भवत्येवेति मतविशेषेण तथोक्त. मिति / यदा, आकाशात्यन्ताभावादिकेवलान्वयिपरमेतत् / तत्र तद्वतोऽप्रसिद्धथा सपक्षाभावादिति / केचित्तु पूर्वास्वरसादाह अपि चेति / तथापीति। साध्यव्यापकताकोटिमाश्रित्य सन्दिग्धोपाधितापत्तरित्यर्थः / समव्याप्त एवोगधिरित्युपपादयन्नेवाह अथेति / यदीयं प्रसजितं साधनव्यापकत्वं हेतुसाध्य टिप्पणी। सपक्षाप्रसिद्धः / न च तत्र साध्यव्यतिरेकस्यैवप्रसिद्धया सत्प्रतिपक्षविधया कथं पक्षेतरत्वस्य दूषकत्वमिति वाच्यम् / भ्रमात्मकस्यैव व्याप्तिज्ञानादेः सर्वस्य सम्भवादिति भावः / न चैमिति / सत्प्रतिपक्षविधयैव दूषकत्वे // यदभावो व्यभिचारविरोधोति / उपाध्यभावो हि उगधिव्याप्यत्वम् ,