________________ 356 व्याख्यात्रयोपेतप्रकाशयोधनीयुते न्यायकुसुमाञ्जलौ[ 7 कारिकाव्याख्यायों प्रकाशः। धूमवत्त्वनिर्धूमवत्त्वाप्रसक्तौ वस्तुनो विरुद्धद्वरूप्याभावादेकत्र व्याप्तिभङ्गो वाच्यः / स च विनिगमकाभावादेकत्र निश्चेतुं न शक्यते इति वाच्यम् / इयं च सत्प्रतिपक्षतव / तस्मादुगाधेः सत्प्रतिपक्षभावेनदूषकत्वस्थितौ पक्षतरत्वस्य नोपाधित्वम् / तद्व्यतिरेकस्य साधारणतया साध्याभावासावकत्वादिति॥ ___ मैवम् / तथा सति प्रतिपक्षानुमाने सत्प्रतिपक्षान्तरस्योपाघेरनुद्भावनापत्तेः / न च, सत्प्रतिपक्षान्तरमपि तत्रोद्भाव्यम् / उत्तम्भकाऽप्रतिबद्धस्य मन्त्रस्वाप्रतिबद्धत्येव प्रतिबन्धकत्वादिति वाच्यम् | सर्वत्र स्थापनाया अपि प्रतिबद्धत्वेनाप्रतिबन्धकत्वप्रसङ्गात् / न च प्रतिपक्षबाहुपेनाधिकबलत्वार्यमुद्भावनम् / बलं यत्रानुमित्यौपायकं व्याप्ति पक्षधर्मताऽऽत्मकं विवक्षितम् / तच्च तुल्यमेव / न तु भूयस्त्वमपि तथा। एकस्मादनुमित्यनुदयापत्ते / तदाहुराचार्गः-“बहवश्चेत्यन्वाचये चकारः" इति। सन्दिग्धोपाधेरदूषकत्तापाताच। तद्यतिरेकस्य पक्षे सन्दिग्धत्वात् / केवलव्यतिरेकिणा च सत्प्रतिरक्षसम्भवाच / न चासाधारण्यम् / तस्यापि सत्प्रतिरक्षोत्यापकतया इषकत्वात् / किञ्चैवं, बाधोनीताक्षतरत्वमपि नोपाधिः स्यात् / व्यतिरेकेऽसाधारणत्वात् केवलान्वयि प्रकाशिका। व्याप्तिज्ञानबाधा स्यादेवेति भावः / उपसंहरन्नेव प्रकृते योजयति / तस्मादिति / तथा च दृषकता. बीजाभावान्न तस्योपाधित्वमिति न तत्राव्याप्तिर्दोष इति भावः / नन्वनयोरन्यतरद् बाध्यमिति सामान्यतो दृष्टे विनिगमकतळप्रवृत्यर्थ सत्प्रतिपक्ष उपाभ्युद्भावनं युक्तमेवेत्यरुचेराह। सन्दिग्धेति / ननु निवितोपाधावुक्तं दूषकतावीजं सन्दिग्धोगधौ त्वन्यदेव तदित्यरुचेराह / केवलव्यतिरे. किणेति / ननु नेदमपि युक्तमसाधारणस्य व्याप्तिग्रहप्रतिवन्धकतया दोषत्वादित्यरुचेराह / किश्चैवमिति / बाधोनीते साध्याभावसाधने . पक्षस्यैव साक्षत्वादयुक्तमेतदपीत्यरचेराह केवलान्धथिनोति। केवलान्वयिसाध्य के साध्यामायाप्रसिद्धया व्यतिरेके सपक्षाभावादसाधारण्या मकरन्दः / / पाधिना प्रकृतोप.धौ व्याप्तिज्ञानबाधा स्यादेवेति भावः / उपसंहर-नेव प्रकृते योजयति तस्मादिति / ननु सन्दिग्धोपाधेभिचारसंशयाधायकतया पृथगेव दोषत्वमभ्युपगम्यते न तु सत्प्रतिपक्षतयेत्यरुचेर्दोषान्तरमाह के बलेति। व्यतिरेकञ्याप्तिपुरस्कारेण तेनापि सत्प्रतिपक्षसम्भवादित्यर्थः / तस्यापोति / असाधारणस्यापीत्यर्थः / तथा च सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवत्तत्रासाधारणोऽपि न दोष इति भावः / ननु बाधेन व्यतिरेके पक्षस्यैव साक्षत्वेन तव्यावृत्तत्वाभावान्नासाधारण्यमित्यरुचेराह केनलान्ययिनीति / केवलान्वयिधर्मसाध्य कानुमाने इत्यर्थः / तत्र व्यतिरेके साध्याप्रसिद्धया टिप्पणी। तिपक्षतामु पादयति व्यास्यति / सत्प्रतिपक्षान्तरस्यैवीपाघेरनुद्भावना उत्तेरिति यत्र सत्प्रतिपक्ष उद्भाव्यते, तत्रोपाध्युद्धावनमपि क्रियते तन्न स्यादुपाघेरपि सत्प्रतिपक्षपर्यवसायित्वेन एकदोषस्य द्विघोद्भावनस्य वैयर्थ्यादिति भावः। न च सत्प्रतिपक्षान्तरमपि तत्रोद्भाव्यमिति सत्प्रतिपक्षान्तरानु. दावने स्थापनानुमानेन प्रतिबन्धस्य प्रत्यनुमानप्रतिवन्धकत्वं न स्यादिति सत्प्रतिपक्षान्तरोद्भावने तेनोत्तम्भकेन मणेरिव स्थापनानुमानस्य प्रतिबधशक्त्यपाकरणे भवत्यप्रतिबन्धम्प्रकृतसत्प्रतिपक्ष प्रतिबन्धकमित्याशयः। सर्वत्र स्थापनाया अपि प्रतिबद्धत्वेनेति / प्रकृतसत्प्रतिपक्षण प्रतिबन्धकेन स्थापनाया अपि प्रतिबद्धत्वात् स्थापनायाः प्रतिबन्धकत्वसिद्धये उत्तेजकविधया स्थापना. न्तरोद्भावनमपि स्यात् / अन्यथा स्थापनाया अप्रतिरोधकत्वे प्रतिपक्षाभावे सत्प्रतिपक्षतव न स्या दिति भावः। केवलव्यतिरेकिणा सत्प्रतिपक्षसम्भवाच्चेति / सत्प्रतिपक्षविधया पक्षेतर त्वस्याप्युपाधित्वसम्भात् साध्याभावेन तदभावस्य व्यतिरेकव्याप्तेः सम्भवात् / केवलान्यायन्यसाधारणत्वाभावादिति / सपक्षविपक्षव्यावृत्तत्वमसाधारण्यं केवलान्वयिनि व्यतिरेकानुमाने