________________ तृतीयस्तवके ] . अनुमानप्रामाण्योपपादनम् / प्रकाशः। वश्यकीति हेतोर्व्यभिचारात्तत्र चावश्यमुपाधिसत्वादन्यस्येपाघेरभावात् पक्षेतरत्वमेवोपाधिः स्वात् / किश्च, व्यभिचारावारकत्वं न व्याप्तिविरोधि, नाऽपि तज्ज्ञानविरोधि / नीलभूमे तदुभयसत्त्वात् // अथोपाधेः स्वव्यतिरेकेण सत्प्रतिपक्षतया दूषकत्वम् / तथाहि / नास्य व्यभिचारोनायकतया दूषकत्वम् / वह्निमत्त्वं धूमवत्त्वव्यभिचारि तयापकाईन्धनव्यभिचारित्वात्प्रमेयत्ववदित्यनाइँन्धनवस्वस्य धूमवत्त्वव्यापकत्वासिद्धः। धूमवत्त्वव्यापकवह्निमत्वाव्यापकत्वात् / व्यापकत्वे वा साधनव्यापकत्वेनानुपाधित्वापत्तेः / न च धूमव्याप्यत्वं वह्निमत्वस्यासिद्धम् / तद्धि न व्यभिचारात् , स्फुटे व्यभिचारे उपाध्युपन्यासस्यानहत्वात् / तस्य तदर्थत्वात् / नाप्युपाधिनिश्चयात् / उपाधित्वासिद्धेः // __ अथ यथा सहचारदर्शनव्यभिचारादर्शनाभ्यां वह्निमत्वंव्याप्यंधमवत्वञ्च व्यापकं, तथा आन्धनवत्त्वमपि व्यापकं,घुमवत्त्वञ्च व्याप्यम् / तथा च व्यापकनिवृत्त्याव्याप्यनिवृत्तिवद् व्याप्यसत्त्वाद् व्यापकसत्वमावश्यकमित्यविशेषादुभयमप्यसाधकमित्युच्यते। हन्त तर्हि सिद्धमुपायेःसत्प्रतिपक्षतयावृषकत्वम् / नापि व्याप्यत्वासिद्धिरूपत्वेन / सा हि न तावद्याप्तिभङ्गनिश्चयात् , तस्योपाधित्वनिश्चयसाध्यवात् / प्रकृतेच तदनिधयात् / सहचारदर्शनव्यभिचारादर्शनाभ्यां तन्निश्चय इति चेत् / न / तयोर्हता वपिसत्त्वात् / तत्रोत्पन्नमपिव्याप्तिज्ञानमुपाधिदर्शनाद् बाध्यते इति चेत् / न / आधावपि तज्ञापत्तेः। तत्राप्युपाधिसद्भावात् / तथा ह्या!न्धनवत्वस्य धूमवत्व उपाधित्वे तदभावो धूमवत्वाभावव्याप्तो वाच्यः। अन्यथा आन्धमस्यापि धूमवत्त्वव्यापकत्वानुपपत्तेः / न हि यदभावो यदभावव्यभिचारी तत्तस्य व्यापकम् / एवं व्यतिरेके निर्वह्नित्वमुपाधिः / इदं हि निधूमस्य व्यापकतयाऽभिमतस्य व्यापकं, निर्धूमस्य वहिमतोऽदर्शनात् / दर्शने वा व्यभिचारस्य स्फुटतयोपाध्युपन्यासस्यानहत्वा दित्युक्तम् / आनॆन्धनविरहस्य चाऽव्यापकं, आर्दैन्धनाभाववति पक्षे तदसत्वात् / नापि व्याप्त्य निधयाद्याप्यत्वासिद्धिः / व्याप्त्यनिश्चयो हि पक्षे वह्निमत्त्वस्याट्टैन्धनविरहस्य च दर्शनात् / एवञ्च, प्रकाशिका। यद्यपि पक्षातिरिक्त साध्यव्यापकत्वग्रहे तादृशसाभ्यव्यावृत्तावपि पक्षीयसाध्यव्यावृत्तेः कथं व्यभिचारः तथापि पक्षसाधारण्येनापि साध्यव्यापकतायाः संशयोऽस्त्येवेति व्यभिचारसंशयोऽस्त्येवेति भावः / अनौपाधिकत्वस्यापि व्याप्तितया व्याप्तिविरहरूपत्वमुपाघेरसम्भावितमेवेति तदुन्नायकत्वेन व्याप्यत्वा. सिद्धित्वं वक्तव्यं तथा सत्याह तहीति। निर्धूमस्येति / तथा चापातत उत्तोपाधिनोत्तोपाधौ मकरन्दः / कथं व्यभिचार इति चिन्त्यम् / अनौपाधिकरवस्य व्याप्तिस्वानभ्युपगमान व्याप्यत्वासिद्धिरूपत्वमिति तदुनायकत्वेन तथात्वं वाच्यम् , एवं सत्याह सा हीति / निधूमस्येति / तथा चापातत उक्तो टिप्पणी। विशिष्टसाध्यव्यापकत्वमेवेति तव्यावृत्तावपि पक्षनिष्टसाध्याव्यावृत्तेः कथं व्यभिचार इति चिन्त्यम् / किश्च व्यभिचारावारकस्वमिति। व्यभिचारावारकत्वं पक्षेतरत्वविशेषणे स्वीकृत्य नापि व्यभिचारा. वारकत्वमित्यत्र समाधानान्तरमाह किश्चेति। भवतु पनेतरत्वे विशेषणस्य व्यभिचारवारकत्वं किं तेन उपाध्यभावेन साध्याभावसाधने उपाधिव्यभिचारेण साध्यव्यभिचारसाधने वा या व्याप्तिस्तज्ज्ञानं वा तदभयविरोधित्वेन व्यभिचारवारकत्वस्येष्टाव्याघातकत्वादित्यर्थः / सत्प्रतिपक्षतया दूषकत्वं सत्प्रतिपक्षतयेति सावधारणम्, तत्रेतरव्यवच्छेदमुपपादयति तथाहोत्यादि / श्राद्भन्धनविर. हस्य च दर्शनादिति / आन्धनस्य धूमव्यापकत्वनिधये तदभावस्य व्यापकाभावस्वेनावधारणे धूमाभावनिधये व्यभिचारनिश्चयादनिश्चयो यदि स्यात् स्यादप्यसिद्धिस्स च नास्त्येव अपि तु धूमव्या. पकत्वेन सन्दिग्धस्य चह्निमत्त्वस्य धूमव्यापकत्वेन सन्दिग्धान्द्रेधनवत्वाभावस्य च दर्शने चेत्यर्थः व्याप्त्यनिश्चयो हीति / इयश्च सत्प्रतिपक्षतैवेत्यन्वयः, इयं व्याप्त्यनिश्चयेन व्याप्यत्वासिद्धिः,सत्प्र