________________ ;B व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ[ 7 कारिकाव्याख्यायां प्रकाशः। स्य वारणात् / तादृशस्याप्यस्मदादिपदादेरुपादानात् / नापि पर्वतेतरान्यत्वादेरित्यत्र व्यतिरेके इतरा. न्यत्वस्याप्रसिद्धरसिद्धिवारणार्थं पर्वतपदं विशेषणमित्येव व्यर्थत्वम् / इतरान्यत्वस्याप्रसिद्धथा विशेषणं विना व्याप्त्यमहात् / येन विशेषणेन विना व्याप्त्यप्रहस्तस्यव सार्थकत्वात् / व्यभिचारवारकस्यापि सार्थकत्वे तस्यैव तन्त्रत्वात् / अत एव गन्धादिषु मध्ये गन्धस्यैव व्यजकत्वादित्यत्राऽसिद्धिवारकविशेषणस्य सार्थकत्वम् / अन्यथा बाधोनीतपक्षेतरत्वस्याप्यनुपाधित्वापत्तेः / पक्षे साध्यसन्देहे साध्यव्यापकत्वानिश्चयान तदुपाधिः / यत्र तु पक्षे साध्याभावप्रमा, तत्र बाधोनीतत्वेनोपाधिरेवेति चेन्न / पक्षाऽतिरिक्ते साध्यव्यापकत्वमहादेवोपाघेर्दूषकत्वात् / अन्यथा, पक्षे साध्यसन्देहादुपाधिमात्रीच्छे. दापत्तेः / विपक्षाव्यावर्त्तकविशेषणशून्येति विशेषणान्न तदुपाधिः / बाधोनीतपक्षतरत्वं चोपाधिः / तत्र पक्षाभिमतस्य विपक्षस्वादिति चेत् / न / वस्तुनो विपक्षाऽन्यावर्तकविशेषणशून्यत्वाभावात् / सर्वत्र प्रमे यत्वादेः सत्त्वात् / तत्रोपात्तत्वेन विशेषणे च व्याघातः / न हि तत्रोपात्तं तेन शून्यं चेति सम्भवति॥ तथापि साध्यव्यापकत्वे सति साधनाव्यापकत्वस्य पक्षेतरत्वे सत्त्वात् तद्यावृत्त्या साध्यव्यावृत्तिरा प्रकाशिका। यद्यपि वास्तवव्यभिचारविवक्षायां नातिव्याप्तिः / तथापि वायुः प्रत्यक्षः प्रमेयत्वादित्यादी व्यभिचारा. वारकस्यापि रूपवत्त्वादेरुपाधितास्वीकारादव्याप्तिर्द्रष्टव्या / ताशस्यापीति / असिद्धव्यभिचारवा. रकस्यापीत्यर्थः / पक्षापक्षसाधारणसाध्यव्यापकत्वघटितमेव लक्षणं तच्च पक्षेतरे नास्तीत्याशयेन शकते / पक्ष इति / दृषकताबीजं पक्षानन्तर्भावेनैव साध्यव्यापकताज्ञानम् , अन्यथा निधितोपाधिमात्रोच्छेदापत्तरित्याशयेन दूषयति / पक्षातिरिक्त इति / परमतेन परस्यातिच्याप्ति दत्वा मन्मते / पचेतरत्वस्योपाधित्वमेव / तथा च तद्वारकविशेषणप्रक्षेपेऽव्याप्तिरित्याह। तथापीति। तद्व्यावृत्त्येति। मकरन्दः। एतादृशस्याप्युपाधित्वेन सर्वसिद्धत्वात्तत्राव्याप्तिर्बोध्या। तादृशस्यापीत / स्वसिद्धव्यभिचारवा. रकस्यापीत्यर्थः / पक्षापक्षसाधारणसाध्यव्यापकत्वमेव विवक्षितमिति बोक्तातिव्याप्तिरित्याह पक्षे इति ! परमतेनैव परस्यातिव्याप्तिं दत्त्वा अनुमानद्वेषी चार्वाकस्तस्योपाधित्वमेवोपपादयति तथापौति / तद्यावृत्त्येति / अत्र पक्षातिरिक्तसाध्यव्यापकत्वमेवेति तद्यावृत्तावपि पक्षनिष्ठसाण्याव्यावृत्तेः टिप्पणी। नैकान्तिकत्वाभावात् , पक्षेतरत्वस्य न व्यभिचारवारकत्वमिति स्वसिद्धस्येत्युक्तम् / अस्मदादिपदादेरुपादानादिति / त्वं घटज्ञानाभाववानात्मत्वादित्यनुमानं यं प्रत्युद्भाव्यते तेनास्मदितरस्वमत्रो. पाधिरित्युद्भाव्यते तत्रास्मत्पदं स्वस्मिन् साध्याभाववत्तया निश्चिते हेतोवृत्तित्वग्रहः, परेषामशक्यः स्वेनैव निर्णयस्तस्य च हेतुनिष्टस्य व्यभिचारस्य स्वसिद्धस्य वारकः अस्मदिति पदार्थः, इतरत्वमा त्रस्य सामानाधिकरण्येन हेतुविशेषणत्वेऽपि गृहीतव्यभिचारवारणस्याशक्यत्वादिति भावः / अन्यथा असिद्धिवारकत्वमात्रेण व्यर्थत्वे / पूर्वोक्तां बाधोन्नोतपक्षेतरत्वेऽतिव्याप्ति वारयितुं शङ्कते पक्षे साध्यसन्देह इति / विपक्षाव्यावर्तकेति / इदश्च समव्याप्तोपाध्यभिप्रायेण तत्रोपाधे विपक्षगतत्वे साध्यव्याप्यत्वासम्भवः स्यात् / तत्रोपात्तवेन विशेषण इति / उपाधावुपात्तत्वस्य विपक्षाव्यावर्तकविशेषणत्वे / पराभिमतेनैव पक्षेतरत्वस्यानुपाधित्वेन परस्यातिव्याप्ति दत्वाऽनुमानषी चार्वाकस्तस्योपाधित्वमेवोपपादयति / तथापीति / साध्यव्यापकतावच्छेदकत्वे पति साधनाव्यापकतावच्छेदकं यद्विपक्षाव्यावर्तकविशेषणशून्यं तद्धर्मवत्त्वोक्तौ प्रमेयत्वमादाय न दोष इत्यत आह तथापीति / उपाधेर्दूषकताबीजस्य साध्यव्यापकत्वे सति साधनाव्यापकत्वस्य सत्वे उपाधित्वं स्वीकरणीयमेव भवता तव्यावर्तकत्वश्च विशेषणन्नोपादेयमित्यनौपाधिकत्वं कथं व्याप्तिः स्यादसम्भवादित्यभिप्रायः / तद्यावृत्त्या साध्यव्यावृत्तिरिति। अत्र पक्षतातिरिक्तत्व.