________________ तृतीयस्तवके ] अनुमानप्रामण्योपपादनम् / 353 प्रकाशः। न तथेति चेत् / न / दूषकतोपयिकप्रयोजकत्वस्य साध्यव्यापकसाधनाव्यापकत्वस्य तत्राप्यनपायात् / साध्यव्याप्यत्वस्य चादूषणत्वात् / व्यर्धविशेषणस्वादनुपाधिरिति चेत् / न / तद्धि न निष्प्रयोजनकत्वं, साधनव्याप्तिपरिहारस्यैव प्रयोजनत्वात् / नापि व्यभिचारावारकत्वम् / पक्षे स्वसिद्धस्य व्यभिचार• प्रकाशिका। दूषकतेति / तथा च प्रयोजकत्वषटितमपि लक्षणन्तत्रातिव्याप्तमेवेति भावः / श्रदूषणत्वादिति / इदमुपलक्षणम् / विषमव्याप्तिमदुपावावव्याप्त्यापत्तेश्चेत्यपि द्रष्टव्यम् / व्यर्थविशेषणरहितत्व लक्षणविशेषणमतो नातिव्याप्तिरित्याशक्ते / व्यर्थेति / अनुपाधिरिति / उपाधिलक्ष. णानाकान्त इत्यर्थः / साधनव्याप्तीति / इतरत्वस्य केवलान्वयितया साधनव्यापकत्वात् पर्वतेतर. त्वस्य च पर्वत एव साधनव्यापकत्वादित्यर्थः / ननु साधने साध्याव्यभिचारावारकत्वेनैवात्र व्यर्थवि. षणता साधने साध्यव्यभिचारवारकस्यवोपाधित्वात् आन्धनस्यैव धूमव्यभिचारवारकस्य वहौ ।न च पर्वतेतरत्वं तथा शुद्धस्यैव धूमस्य वयव्यभिचारादत आह / नापोति / स्वसिदस्येति / पक्षतरत्वस्योपाधिवादिमते धूमो वहिव्यभिवार्येव पक्ष इति पर्वतेतरत्वविशिष्टस्यैव धूमस्य वहिव्या. प्यत्वमिति भवत्युपाधिस्तन्मते व्यभिचारवारक इत्यर्थः / तथा चोक्तातिव्याप्तिः सुदृढवेति भावः / मकरन्दः। अतिव्याप्तिपोषकतयाऽसङ्गतिरित्यपास्तम् / दूषकतेति / तथा च प्रयोजकत्वगर्भस्यापि तस्य तत्र सत्त्वादतिव्याप्तिस्तदवस्थैवेति भावः / ननु व्यर्थविशेषणरहितत्वं तद्विशेषणमिति नातिव्याप्तिरित्याह व्यर्थेति / अनुपाधिः उपाधिलक्षणानाकान्त इत्यर्थः / साधनेति / इतरत्वस्य केवलान्वयितया साधनव्यापकत्वमिति पर्वतादिपदं विशेषणम् / ततश्च पक्ष एव साधनाव्यापकत्वमित्यर्थः / तथा च पुनरतिव्याप्तितादवस्थ्यमेवेति भावः / ननु साधने साध्यव्यभिचारावारकतयैव व्यर्थत्वं ब्रूमः, तत्र तद्वारकस्यैवोपाधित्वात् / यथा वह्नौ धूमव्यभिचारवारकमान्धनवत्त्वमुपाधिः, पक्षेतरत्वञ्च न धूमे वहिव्यभिचारवारकं, तत्र तस्यैवाप्रसिद्धरित्यत आह नापीति / स्वसिद्धस्य = पक्षेतरोगधिवादिसिद्धस्य / तन्मते धूममात्रस्य पर्वत एव वहिव्यभिचारित्वात्तद्वारकं धूमे पर्वतेतरत्वं विशेषणम् / पर्वतेतरधूमवत्त्वस्य वह्वयत्र्यभिचारित्वात् / तथा च सर्वथा व्यर्थविशेषणरहितत्वस्य तत्र सत्त्वादुकातिव्याप्तिः सुदृढवेति भावः। यद्यपि वास्तवत्र्यभिचारवारकत्वविवक्षायां नासिव्याप्तिा, तथापि टिप्पणी। नापि व्यभिचारातारकत्वमिति। साधननिष्टसाध्यव्यभिचारस्य वारकः साध्यविशेषणीभवनुपाधिभवति, अतथाभूतस्तु नोपाधिरभ्युपेयः, यथा धूमवान् वहेरित्यत्र स्वतोव हिधूमव्यभिचारी आनॆन्धनवत्त्वविशिष्टो भवत्यव्यभिचारीति सभिचारकत्वादुपाधिः, वद्धिमान् धूमादित्यत्र धूमस्य नास्ति स्वतो वहिव्यभिवार इति न तद्वारकः पक्षतरत्वादिषूमादिहेतुविशेषणीकृतोऽपीत्याशयः / स्वसिद्धस्य व्यभिचारस्य धारणोदिति / यस्य पुरुषस्यानुमितिसम्पादनाय साधनोराहस्तेनेवोपाधिरुद्रावनीय इति स स्वपदार्थः / तेन गृहीतस्य व्यभिचारस्य वारकत्वादित्यर्थः / पतरोपाधिवादिपिद्धस्येति तात्पर्यार्थः, यं प्रति साध्यसाधनाय हेतूपन्यासः क्रियते स प्रतिवादी सन्नुपाधिमुद्भावयतीत्युपा युद्भावनकर्ता स्वपदार्थः, तथा च यः पक्षेतरत्वमुपाधिमुद्भावयति, हेतोः पत्ते सन्दिग्ध. साध्याभाववति वृत्तिरवस्य स्वसिद्धस्व वारणाय पक्षविशेषितस्य मेदस्योपाधितामाह इति पक्षविशेषणं व्यभि वारवारकमेव / पचेतरत्वोगधिवादिनामयमाशयः, यथा साध्याभाववत्तया निविते हेतुसन्देहः सन्दिग्धानेकान्तिकः तथा हेतमत्तया निविते साध्याभावसन्देहोऽभीति पक्षेतर एव हेतुव्यापकत्वं साये निर्णेयस्तथा पक्षेतरस्मिन् पक्षेतरत्वस्यापि साध्यव्यापकत्वं निर्णेतुं शक्यमिति पक्षेतरत्वमुपाधिर्भवति, पक्ष एव हेतोः साध्यव्यभिचारवारकच सिद्धान्तिमते हेतुमति साध्याभावसन्देहस्य सन्दिग्या .. 45 न्या० कर