________________ 352 व्याख्यात्रवोपेतप्रकाशबोधनीयुते न्यायकुसुमाजली [ 7 कारिकाव्याख्यावा तत्रोपाधिस्तु, साधनाव्यापकत्वे सति साम्यव्यापकः। तद्धर्मभूता हि व्याप्तिजपाकुसुमरक्ततेव स्फटिके साधनाभिमते चकास्तीत्युपाधिरसावुच्यते इति // बोधनी। नप्रयोजक इत्यत्राह उपाधिस्तु-इति / एकस्मिन्साध्ये साधनत्वेनोपप्लवमानयोः यः साधनाम्याप. कत्वे सति साध्यसमव्याप्तिकः स इतरस्य साध्यसंबन्धे उपाधिः स्यात् , तत्र साध्यव्यापक इत्येवो. च्यमाने अनित्यत्वसाधने सावयवत्वे कृतकत्वमुपाधिः स्यात् , अथ साधनाव्यापक इत्येवाभिधीयते तदा कृतकत्वे सावयवत्वमुपाधिः स्यात् , न चैतयुक्तमुभयस्यापि प्रयोजकत्वादिति / एवं लक्षणमुपाधिशब्दप्रवृत्तिनिमित्तमाह तद्धर्म-इति / संसृज्यमाने तद्धर्मविरहिणि धर्मिणि स्वधर्मप्रतिभास प्रकाशः। साधनाध्यापकरष इति / / साधनस्वाभिमताव्यापकत्वे साध्यत्वाभिमतव्यापक इत्यर्थः / व्यापकत्वञ्च तद्वनिष्ठात्यन्ताभावाप्रतियोगित्वमिति न व्यापकादिज्ञानेऽन्योन्याऽऽश्रयः / / ननु साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तिः। न च तयोरनुपाघित्वं, दूषक ताबीजसाम्यात् / बाधानुन्नीतपक्षेतरेऽतिव्याप्तिष / भय प्रयोजको धर्म उपाधिः / तत्त्वञ्च न न्यूनाधिकदेशवृत्तेः / तस्मिन् सत्यप्यभवतस्तेन विनाऽपि भवतब तदप्रयोज्यत्वात् / पक्षेतरत्वन्तु - प्रकाशिका। पाधी न वास्तवः साध्यसाधनभाव इत्यत्र उभयत्राभिमतपदं पूरयति / साम्यत्वाभिमतेत्यादि / नान्योन्याश्रय इति / उपाध्यभावशानाधीनं व्याप्तिज्ञानमित्यन्योन्याश्रयो नोक्तक्रमणेत्यर्थः ।साध. नावच्छिन्नेति। आत्मा प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र साधनावच्छिषसाम्यव्यापकरूपवत्वं,वायुः प्रत्यक्षःप्रमेयत्वादित्यत्र च बहिर्द्रव्यत्वावच्छिनसाम्यव्यापकं रूपवत्वमुपाधिरित्युभयोरसहीर्णमुदाहरणंद्रष्टव्यम् / बाधानुनोतेति स्वन्मत इति शेषः / अन्यथा स्वमतेनाप्यव्यात्यभिधानमतनं विरुक्षयेत। पक्षानन्तर्भावेनैव च साध्ययापकताज्ञानं दूषकमिति दूषकताबीजस्यैवातिव्याप्तिरियं द्रष्टव्येति। सायप्रयोजकत्वे सति साधनाव्यापकत्वमुपाधिलक्षणं। तच्चपक्षेतरत्वेनातिव्याप्तमित्याशहते। अथ प्रयोजक इति। मकरन्दः। साधनस्वसाम्यत्वे-व्याप्यत्वव्यापकत्वे, न च सोपाधौ वस्तुतस्तथात्वमत आह अभिमतेति / ननु व्यापकत्वं व्याप्तिनिरूपकत्वम् / तथा च व्याप्ती गृहीतायामुपाधिप्रत्ययस्तत्प्रत्यये च तदभावरूपा नौपाधिकस्वप्रत्ययाधीनव्याप्तिप्रत्यय इत्यन्योन्याश्रय इत्यत आह व्यापकत्वञ्चेति / प्रतियोग्यस मानाधिकरणत्वमप्यत्यन्ताभावविशेषणम् / तेन संयोगस्य द्रव्यत्वव्यापकत्वम् / पक्षेतरस्योपाधिरवं मन्यमानोऽपि नैयायिकसिद्धान्तानुसारेण तलक्षणेऽतिव्याप्तिं ददाति बाधानुनीतेति / स्वन्मते इति शेषः / एतदपि पक्षान्तविण साध्यव्यापकत्वानिश्चयात् पक्षातिरिक्तसाम्यव्यापकत्वाभिप्रायेण बोध्यम् / एतच्चाने स्फुटम् / ननु साध्यप्रयोजकत्वे सतीति लक्षणविशेषणं तच्च न पक्षेतरत्वे इति नातिव्याप्तिरित्याह अथेति / न तथा, न प्रयोजकस्वघटितलक्षणवदित्यर्थः / एतेनोकशाया टिप्पणी। सन्देहः / तदन्निष्ठात्यन्ताभावाप्रतियोगित्वमिति न तु व्याप्तिनिरूपकत्वमिति शेषः / न ब्यापकादिवाने ज्योन्याश्रय इति / व्याप्तौ गृहीतायामुपाधिप्रत्ययः, तस्मिन् सति तदधीनानोपाधिकत्वज्ञानाधीनव्याप्तिग्रह इस्यन्योन्याश्रयः // तर्कश्च त्वया व्यभिचारज्ञानाभावसम्पादनाय व्याप्तिप्राहकोऽभ्युपेयते व्यभिचारमानञ्चोपाध्यधीनम् , उगाधिरेव च न निक्तुं शक्य इति कुतस्तकोऽभ्युपेय इति खण्डनरसिकः स्वेष्टासाधकमपि चार्वाकः शरते नन्विति / स श्यामो मित्रातनयत्वादित्यत्र शाकपाकलत्वं साधनावच्छिमसाध्यव्यापकम् वायुः प्रत्यक्षः प्रत्यक्षगुणत्वादित्यत्रोद्भूतरूपवत्त्वम् पक्षधर्मबहिव्यत्वावच्छिामसाध्यव्यापकमुपाधिः /