________________ 350 बास्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखलो [7 कारिकाभ्यासापो - प्रकाशः। व्यापके प्रमेयत्वादौ साधनाव्यापकत्वं, यावत्साधनाव्यापके घटस्वादौ साध्यव्यापकत्वं निषिध्यते इति चेत् / न / ब्यधिकरणत्वात् / यावत्साध्यव्यापकव्याप्यत्वमनौपाधिकत्वमिति चेत् / न / आत्माश्र. यात् / एतेन, यावत्साधनाव्यापकमव्यापकं यस्य, यावत्साध्यव्यापकं व्यापकं वा यस्य, तत्वमनौ. पाधिकत्वमित्यप्यपास्तम् // अथ यावत्साधनसमानाधिकरणात्यन्ताभावप्रतियोगिधर्मप्रतियोंगिकात्यन्ताभावसमानाधिकरण साध्यसामानाधिकरण्यमनौपाधिकत्वम् / न ह्येवं सोपाधिः, साधनसमानाधिकरजात्यन्ताभावप्रतियोगिनं उपाधेरार्दैन्धनवत्वादेयोऽत्यन्ताभावस्तेन समं साध्यस्य धूमादेः सामानाधिकरण्याभावात् / आर्दैन्धनविरहिणि धूमस्यावृत्तरिति चेत् / न / सोपाधौ गतत्वात् / तथाहि / वहिः साधनं, तत्स. मानाधिकरणो योऽत्यन्ताभावस्तप्तायःपिण्डे तत्प्रतियोगि, चत्वरवान्धनं, तत्प्रतियोगिको यो. ऽत्यन्ताभावो महानसे, तत्समानाधिकरणः साध्यो धूमस्तेन सामानाधिकरण्यं बहः साधनस्य / तथा प्यादेंन्धनसामान्याभाववति धूमो न वर्तते इति चेत् / न / सामान्यावच्छिनाभावस्यामानकत्वात् / नापि यावत्साधनव्यभिचारितव्यभिचारि यत् साध्यं तेन सामानाधिकरण्यं व्याप्तिः। अनेकव्यक्तिकोपाधिमति प्रसातादवस्थ्यात् / अथ केवलाऽन्वयिनि केवलाऽन्वयिसाध्यसामानाधिकरण्यं व्याप्तिः, साध्यवदन्यावृत्तित्वं व्यतिरेकिणि / एतयोरनुमितिविशेषे प्रयोजकत्वम् / अनुमितिमात्रे पक्षधर्मतव प्रयोजिका / न च तन्मावादनुमित्यापत्तिः / विशेषसामग्रीसहिताया एव सामान्यसामग्या जनकत्वनियमादिति चेत् / न / धूमे साध्यवदन्यावृत्तित्वस्याभावात् / वह्निमत्पर्वतादन्यत्र महानसे धूमस्य वृत्तः। सकलसाध्य वदन्यवृत्तित्वं न धूमे इति चेत् / न वहिमतां प्रत्येकं सकलसाध्यवदन्यत्वात् // अथ सम्बन्धमा व्याप्तिः। व्यभिचारिणोऽपि सम्बन्धस्य केनचित् सह व्याप्तित्वात् वहिधूमादिव्याप्तिस्तु विशिष्यैव वक्तव्येति चेत् / न. / अर्नुमितिकारणलिङ्गपरामर्शविषयम्याप्तिस्वरूपनिरू पणप्रस्तावे सम्बन्धमात्राभिधानस्यार्यान्तरत्वात् / तदानादनुमित्यनुत्पत्तेः / नापि व्याप्तिपदप्रवृत्तिनिमित्तमिदं, सम्बन्धज्ञानेऽपि व्याप्तिपदाप्रयोगात् // अत्रोच्यते / यत्सम्बन्धितावच्छेदकावच्छिनत्वं यस्य, तस्व सा व्याप्तिः / तथाहि / धूमस्य वहिसम्बन्धित्वे धूमत्वमवच्छेदकं, धूममात्रस्य वह्निसम्बन्धित्वात् / वस्तु धूमसम्बन्धित्वे न वहित्वमवच्छेदकं, धूमासम्बधिनि गतत्वात् / न यतिप्रसक्तमवच्छेदकम् / संयोगादौ तथात्वादर्शनात् / किन्तु वहावार्दैन्धनप्रभववाहित्वं धूमसम्बन्धितावच्छेदकं, ताशञ्च व्याप्यमेव / यदा, यत्वामानाधिकरण्यावच्छेदकावच्छिन्नं यद्यस्य रूप, तदेव तस्य व्याप्यत्वम् / वहिवामानाधिकरण्यं च धूमे धूमत्वेनावच्छियते, सोपाधौ तूपाधिमा / यद्वा प्रतियोगिवैयधिकरण्यावच्छिन्नस्वसमाना. धिकरणात्यन्ताभावप्रतियोगितानवच्छेदकावच्छिन्नेन सामानाधिकरण्यं व्याप्तिः / न च धूमवमिष्ठात्यन्ताभावप्रतियोगिता वह्नित्वेनावच्छियते, धूमवति वहिर्नास्तीत्यप्रतीतेः / रासभत्वन्तु तथा, धूभवति रासभो नास्तीति प्रतीतेः सामान्यावच्छिन्नप्रतियोगिकाभाववान्यः, विशेवाभावप्रमायामपि सामान्ये संशयात् / न चैवं संयोगित्वव्याप्यत्वं सत्त्वस्य स्यात् , कर्मणि संयोगात्यन्ताभावस्य प्रति. योगिवैयधिकरण्यात् एतदेवानोपाधिकत्वमित्युच्यते इति संक्षेपः / प्रकाशिका। सम्बन्धमानेऽपीति / इदमुपलक्षणम् / एवम् अर्थान्तरमित्यपि द्रष्टव्यम् / इतरदन्यत्र व्याख्यातम् / मकरन्दः। सम्बन्धज्ञानेऽपीत्युपलक्षणम् / एवमप्यर्थान्तरतावस्थ्यादित्यपि द्रष्टव्यम् / व्याप्तिलक्षणान्यनुमानप्रकाशे द्रव्यानि /