________________ // याबायोपेतप्रकाशोधनीयुते न्यायकुसुमाजली [ * कारिका पालाप प्रकाशः। इति खण्डनमपास्तम् / व्याघातस्य शकाऽनाश्रितत्वात् / स्वक्रियाया एव शकाप्रतिबन्धकत्वात् / एतेन व्याघातो विरोधः, स च सहानवस्थाननियमो, नियमश्च व्याप्तिरिति तत्राप्यनवस्थेत्यपि निरस्तम् // नन्वेवं तर्क विनाऽपि व्याप्तिप्रहाद्यभिचारेण तर्कोऽपि न व्याप्तिप्राहकः। अत्रास्मपितृचरया। तकों न व्याप्तिप्राहकः, किन्तु व्यभिचारज्ञानाभावसहकृतं सहचारदर्शनम् / ज्ञानश्च निश्चयः शहा च / शहा क्वचिदुपाधिसन्देहात् , क्वचिद् विशेषादर्शनसचिवसाधारणधर्मदर्शनात् / तदभा. वव क्वचिद्विपक्षबाधकतात , क्वचित् स्वतः सिद्ध एवेति नानुगमः / ननु सहचारदर्शनव्यभि. चारादर्शनवद् व्यभिचारहानाभावानुकूलतर्फयोर्णानं व्यभिचारिसाधारणमिति न ततो व्याप्तिनिधयः प्रकाशिका। कूलव्याप्तिप्रहमीकारयितुं शक्यत इति भावः। तर्कस्यैव व्याप्तिप्राहकत्वमित्याचार्याभिमतमिति भ्रान्तः शङ्कते नन्वेवमिति / अत्रास्मत्पितृचरणा प्राचार्याशयं स्फोरयन्तीति शेषः / व्यभिचा. रखानेति / यद्यपि व्यभिचारज्ञानवदव्यभिवारज्ञानमपि वर्तत इति व्यभिचारस्यापि प्रहापत्तिरिति मकरन्दः। तत्कारणं तत्याशते चेति दिकू / किन्त्विति ।न चैवमव्यभिचारज्ञानाभावसहकृताध्यभिचारनिष्षयप्रस: इति पूर्वोक्तदोषानपाय इति वाच्यम् / सहचारदर्शनस्य व्यभिचारनिश्चयानरत्वात् , मानाभावात, विरुद्ध व्यभिचारनिश्चयस्य तेन विनाऽपि भावाच्च / शेषन्त्वनुमानप्रकाशे / टिप्पणी। चारो गृहीत इति भावः // ननु सहवारदर्शनव्यभिचारादर्शनवयभिचारशानाभाषानुकू खेति / सहचारदर्शनेत्यादिचिन्तामणिफकिका तत्र व्यभिचारज्ञानाभावेत्यत्र व्यभिचारशङ्काविरहेति पाठमूरीकृत्य व्याख्यातं मथुरानाथेन तथा हिं यथा सहचारदर्शनं व्यभिचारनिश्च याभावश्च व्यभिचारिसाधारणम् सन्दिग्धव्यभिचारिसाधारणम् व्यभिचारसंशयस्थलेऽपि वर्तते / न च तत्र व्याप्तिग्रह इतिन व्याप्तिप्राहकः, तथा व्यभिचारशङ्काविरहज्ञानमनुकूलतर्कज्ञानश्च व्यभिचारसंशयस्थलसाधारणमिति न व्याप्तिग्राहकम्, तयोः सहचारदर्शनव्यभिचारज्ञानसामान्याभावयोरित्यर्थः, केन सन्दभण तत्रेदं चिन्त्यम् / व्यभिचारशकाविरहज्ञानस्य व्यभिचारनिश्चयस्थलेऽपि व्याप्तिज्ञानोत्पत्तिव्यभिचारित्वसम्भवात्तत्संशयस्थलानुधावनमसतं ज्ञातव्यभिचारसाधारणमिति व्याख्यानस्यैवोचितस्वात् / व्यभिचारज्ञानसामान्याभावस्य पूर्वानुक्तत्वेन तयोरित्यत्र तच्छन्देन तत्परामर्शासम्भवाच्च / प्रकाशस्यचिन्तामणिग्रन्थस्त्वेवं व्याख्येयः, यथा व्यभिचारनिश्चयाभावः संशयस्थले ज्ञातव्यभिचारसाधारणस्तथा व्यभिचारज्ञानसामान्याभावज्ञानमपि संशयनिश्चयस्थलयोः ज्ञातव्यभिचारसाधारणमिति न व्याप्तिप्राहक इति व्यभिचारज्ञानाभावस्योपक्रान्तत्वेन तच्छब्देन तत्परामर्षोऽप्युपपन्नः। वस्तुतस्तु पूर्वप्रन्ये व्यभिचारज्ञानसामान्याभावस्य स्वरूपत एव कारणत्वमुक्तमस्ति तत्र निर्वीनन्तु ज्ञानकारणत्वभ्रान्तिङ्कल्पयित्वा प्रन्थोत्थापनमयुक्तमेव प्रतिभातीतीत्थं व्याख्येयः, सहचारदर्शनं व्यभिचारज्ञानाभावश्च व्यभिचारानकारणाभावे सद्धताविव व्यभिचारिण्यपि विशेषदर्शिनामपि सम्भवतीति तत्रापि व्याप्तिप्रहप्रसाः, न च का क्षतिरितिदेश्यम् व्यातिनिश्चये व्याप्यत्वप्रसङ्गात् , न चोत्तरकालं व्यभिचारदर्शनाद् व्याप्तिवाध इति वाच्यम् ।न यस्ति नियमो व्याभिचारज्ञानेन प्रमात्मकेनैव भावितव्यमिति व्यभिचारमानस्य प्रमात्वनिष्षये व्याशिवाधः, व्याप्तिवाधे प्रमात्वनिश्चय इत्यन्योन्याश्रयः, एवं सद्धेतौ व्यभिचारो द्रक्ष्यत इति का प्रत्याशा, तस्माद् व्यभिचारिसाधारण्यम् व्याप्तिप्राहकस्यानिष्टम् , ननु व्यभिचाखानाभावशानमेवास्तु कारणम् हानाभावो जानकारणविरहनियतः, सुषुप्ताविवान्यदापि विशेषद